श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः ११४
Ask AIस्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: ।अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ।। २.११४.१ ।।
बिडालोलूकचरितामालीननरवारणाम् ।तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।। २.११४.२ ।।
राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।। २.११४.३ ।।
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।लीनमीनझषग्राहां कृशां गिरिनदीमिव ।। २.११४.४ ।।
विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् ।हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ।। २.११४.५ ।।
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।हतप्रवीरामापन्नां चमूमिव महाहवे ।। २.११४.६ ।।
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ।। २.११४.७ ।।
त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: ।सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ।। २.११४.८ ।।
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ।। २.११४.९ ।।
प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: ।वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ।। २.११४.१० ।।
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ।। २.११४.११ ।।
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ।। २.११४.१२ ।।
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ।। २.११४.१३ ।।
क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् ।हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ।। २.११४.१४ ।।
वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् ।उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।। २.११४.१५ ।।
विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।। २.११४.१६ ।।
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ।। २.११४.१७ ।।
शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् ।प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ।। २.११४.१८ ।।
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।। २.११४.१९ ।।
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।। २.११४.२० ।।
भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: ।वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ।। २.११४.२१ ।।
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।यथापुरमयोध्यायां गीतवादित्रनिस्वन: ।। २.११४.२२ ।।
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: ।धूपितागरुगन्धश्च न प्रवाति समन्तत: ।। २.११४.२३ ।।
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: ।प्रमत्तगजनादश्च महांश्च रथनिस्वन: ।नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।। २.११४.२४ ।।
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: ।गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ।। २.११४.२५ ।।
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: ।नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ।। २.११४.२६ ।।
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ।। २.११४.२७ ।।
कदा नु खलु मे भ्राता महोत्सव इवागत: ।जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ।। २.११४.२८ ।।
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: ।सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ।। २.११४.२९ ।।
एवं बहुविधं जल्पन् विवेश वसतिं पितु: ।तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।। २.११४.३० ।।
तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ।। २.११४.३१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग: ।। ११४ ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.