श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः १०४
Ask AIतं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् ।लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ।। २.१०४.१ ।।
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ।। २.१०४.२ ।।
किं निमित्तमिमं देशं कृष्णाजिनजटाधर: ।हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ।। २.१०४.३ ।।
इत्युक्त: कैकयीपुत्र: काकुत्स्थेन महात्मना ।प्रगृह्य बलवद्भूय: प्राञ्जलिर्वाक्यमब्रवीत् ।। २.१०४.४ ।।
आर्य्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् ।गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ।। २.१०४.५ ।।
स्त्रिया नियुक्त: कैकेय्या मम मात्रा परन्तप ।चकार सुमहत्पापमिदमात्मयशोहरम् ।। २.१०४.६ ।।
सा राज्यफलमप्राप्य विधवा शोककर्शिता ।पतिष्यति महाघोरे निरये जननी मम ।। २.१०४.७ ।।
तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि ।अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ।। २.१०४.८ ।।
इमा: प्रकृतय: सर्वा विधवा मातरश्च या: ।त्वत्सकाशमनुप्राप्ता: प्रसादं कर्त्तुमर्हसि ।। २.१०४.९ ।।
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ।। २.१०४.१० ।।
भवत्वविधवा भूमि: समग्रा पतिना त्वया ।शशिना विमलेनेव शारदी रजनी यथा ।। २.१०४.११ ।।
एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया ।भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ।। २.१०४.१२ ।।
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् ।पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ।। २.१०४.१३ ।।
एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: ।रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ।। २.१०४.१४ ।।
तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: ।भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ।। २.१०४.१५ ।।
कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: ।राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ।। २.१०४.१६ ।।
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन ।न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ।। २.१०४.१७ ।।
कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ ।उपपन्नेषु दारेषु पुत्रेषु च विधीयते ।। २.१०४.१८ ।।
वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: ।भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ।। २.१०४.१९ ।।
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ।राज्ये वापि महाराजो मां वासयितुमीश्वर: ।। २.१०४.२० ।।
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ।तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ।। २.१०४.२१ ।।
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ।। २.१०४.२२ ।।
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ।। २.१०४.२३ ।।
एवं कृत्वा महाराजो विभागं लोकसन्निधौ ।व्यादिश्य च महातेजा दिवं दशरथो गत: ।। २.१०४.२४ ।।
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ।। २.१०४.२५ ।।
चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: ।उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ।। २.१०४.२६ ।।
यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: ।तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ।। २.१०४.२७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततम: सर्ग: ।। १०४ ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.