श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः १०३
Ask AIवसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च ।अभिचक्राम तं देशं रामदर्शनतर्षित: ।। २.१०३.१ ।।
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ।। २.१०३.२ ।।
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषित: ।। २.१०३.३ ।।
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ।। २.१०३.४ ।।
इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: ।स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ।। २.१०३.५ ।।
जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: ।भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ।। २.१०३.६ ।।
अद्यायमपि ते पुत्र: क्लेशानामतथोचित: ।नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ।। २.१०३.७ ।।
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ।। २.१०३.८ ।।
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ।। २.१०३.९ ।।
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: ।राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ।। २.१०३.१० ।।
तस्य देवसमानस्य पार्थिवस्य महात्मन: ।नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ।। २.१०३.११ ।।
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: ।कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ।। २.१०३.१२ ।।
अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा ।यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ।। २.१०३.१३ ।।
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।कथं दु:खेन हृदयं न स्फोटति सहस्रधा ।। २.१०३.१४ ।।
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। २.१०३.१५ ।।
एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ।। २.१०३.१६ ।।
सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: ।आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ।। २.१०३.१७ ।।
तासां राम: समुत्थाय जग्राह चरणान् शुभान् ।मातऽणां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ।। २.१०३.१८ ।।
ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: ।प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ।। २.१०३.१९ ।।
सौमित्रिरपि ता: सर्वा: मातऽ: सम्प्रेक्ष्य दु:खित: ।अभ्यवादयतासक्तं शनै रामादनन्तरम् ।। २.१०३.२० ।।
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: ।वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ।। २.१०३.२१ ।।
सीतापि चरणांस्तासामुपसंगृह्य दु:खिता ।श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ।। २.१०३.२२ ।।
तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा ।वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ।। २.१०३.२३ ।।
विदेहराजस्य सुता स्नुषा दशरथस्य च ।रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ।। २.१०३.२४ ।।
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ।। २.१०३.२५ ।।
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम्भृशं मनसि वैदेहि व्यसनारणिसम्भव: ।। २.१०३.२६ ।।
ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: ।पादावासाद्य जग्राह वसिष्ठस्य च राघव: ।। २.१०३.२७ ।।
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: ।प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ।। २.१०३.२८ ।।
ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: ।जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ।। २.१०३.२९ ।।
उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ।। २.१०३.३० ।।
किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ।। २.१०३.३१ ।।
स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: ।वृता: सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यै: सहितास्त्रयो ऽग्नय: ।। २.१०३.३२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततम: सर्ग: ।। १०३ ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.