श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः १०२
Ask AIतां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।राघवो भरतेनोक्तां बभूव गतचेतन: ।। २.१०२.१ ।।
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा ।वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ।। २.१०२.२ ।।
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: ।वने परशुना कृत्तस्तथा भुवि पपात ह ।। २.१०२.३ ।।
तथा निपतितं रामं जगत्यां जगतीपतिम् ।कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।। २.१०२.४ ।।
भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् ।रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ।। २.१०२.५ ।।
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ।। २.१०२.६ ।।
स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ।। २.१०२.७ ।।
किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ।। २.१०२.८ ।।
किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: ।यो मृतो मम शोकेन मया चापि न संस्कृत: ।। २.१०२.९ ।।
अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ ।शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ।। २.१०२.१० ।।
निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् ।निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ।। २.१०२.११ ।।
समाप्तवनवासं मामयोध्यायां परन्तप ।को नु शासिष्यति पुनस्ताते लोकान्तरं गते ।। २.१०२.१२ ।।
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ।। २.१०२.१३ ।।
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: ।उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ।। २.१०२.१४ ।।
सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण ।भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ।। २.१०२.१५ ।।
ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ।। २.१०२.१६ ।।
ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् ।अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ।। २.१०२.१७ ।।
सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ।। २.१०२.१८ ।।
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ।। २.१०२.१९ ।।
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ।। २.१०२.२० ।।
सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज ।अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ।। २.१०२.२१ ।।
ततो नित्यानुगस्तेषां विदितात्मा महामति: ।मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ।। २.१०२.२२ ।।
सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् ।अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ।। २.१०२.२३ ।।
ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: ।नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ।। २.१०२.२४ ।।
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् ।सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ।। २.१०२.२५ ।।
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ।। २.१०२.२६ ।।
एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ।। २.१०२.२७ ।।
ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: ।पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ।। २.१०२.२८ ।।
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ।। २.१०२.२९ ।।
इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। २.१०२.३० ।।
ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् ।आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ।। २.१०२.३१ ।।
तत: पर्णकुटीद्वारमासाद्य जगतीपति: ।परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ।। २.१०२.३२ ।।
तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ ।भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ।। २.१०२.३३ ।।
महाबलानां रुदतां कुर्वतामुदकं पितु: ।विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ।। २.१०२.३४ ।।
अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् ।तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ।। २.१०२.३५ ।।
अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् ।अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ।। २.१०२.३६ ।।
हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: ।सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ।। २.१०२.३७ ।।
अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ।। २.१०२.३८ ।।
भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् ।ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ।। २.१०२.३९ ।।
सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता ।मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ।। २.१०२.४० ।।
तेन वित्रासिता नागा: करेणुपरिवारिता: ।आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ।। २.१०२.४१ ।।
वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: ।व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ।। २.१०२.४२ ।।
रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: ।तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ।। २.१०२.४३ ।।
तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ।। २.१०२.४४ ।।
ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।आसीनं स्थण्डिले रामं ददर्श सहसा जन: ।। २.१०२.४५ ।।
विगर्हमाण: कैकेयीं सहितो मन्थरामपि ।अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ।। २.१०२.४६ ।।
तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् ।पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ।। २.१०२.४७ ।।
स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ।। २.१०२.४८ ।।
स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: ।गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ।। २.१०२.४९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग: ।। १०२ ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.