श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda
सर्गः १०१
Ask AIरामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह ।किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ।। २.१०१.१ ।।
शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ ।ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ।। २.१०१.२ ।।
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव ।अभिषेचय चात्मानं कुलस्यास्य भवाय न: ।। २.१०१.३ ।।
राजानं मानुषं प्राहुर्देवत्वे स मतो मम ।यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ।। २.१०१.४ ।।
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।दिवमार्यो गतो राजा यायजूक: सतां मत: ।। २.१०१.५ ।।
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे ।दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ।। २.१०१.६ ।।
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: ।ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ।। २.१०१.७ ।।
प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ।। २.१०१.८ ।।
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ।। २.१०१.९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग: ।। १०१ ।।
Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.