Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Valmiki Ramayana
  5. Ayodhya Kanda
  6. सर्गः १०५

श्रीमद्वाल्मीकीय रामायणम् · Ayodhya Kanda

सर्गः १०५

Ask AI

तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: ।शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ।। २.१०५.१ ।।

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: ।मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ।। २.१०५.२ ।।

तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ।। २.१०५.३ ।।

सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ।। २.१०५.४ ।।

महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे ।दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ।। २.१०५.५ ।।

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रण: ।अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ।। २.१०५.६ ।।

सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते ।राम तेन तु दुर्जीवं य: परानुपजीवति ।। २.१०५.७ ।।

यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: ।ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ।। २.१०५.८ ।।

स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ।। २.१०५.९ ।।

एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि ।यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ।। २.१०५.१० ।।

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: ।प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ।। २.१०५.११ ।।

तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: ।अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ।। २.१०५.१२ ।।

तस्य साध्वित्यमन्यन्त नागरा विविधा जना: ।भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ।। २.१०५.१३ ।।

तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् ।राम: कृतात्मा भरतं समाश्वासय दात्मवान् ।। २.१०५.१४ ।।

नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: ।इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ।। २.१०५.१५ ।।

सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: ।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। २.१०५.१६ ।।

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ।। २.१०५.१७ ।।

यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति ।तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ।। २.१०५.१८ ।।

अत्येति रजनी या तु सा न प्रतिनिवर्त्तते ।यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ।। २.१०५.१९ ।।

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ।। २.१०५.२० ।।

आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ।। २.१०५.२१ ।।

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ।। २.१०५.२२ ।।

गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: ।जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ।। २.१०५.२३ ।।

नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ।। २.१०५.२४ ।।

हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् ।ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ।। २.१०५.२५ ।।

यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।समेत्य च व्यपेयातां कालमासाद्य कञ्चन ।। २.१०५.२६ ।।

एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च ।समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ।। २.१०५.२७ ।।

नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते ।तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ।। २.१०५.२८ ।।

यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: ।अहमप्यागमिष्यामि पृष्ठतो भवतामिति ।। २.१०५.२९ ।।

एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: ।तमापन्न: कथं शोचेद्यस्ऺय नास्ति व्यतिक्रम: ।। २.१०५.३० ।।

वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: ।आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ।। २.१०५.३१ ।।

धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः ।धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ।। २.१०५.३२ ।।

भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ।। २.१०५.३३ ।।

कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: ।स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ।। २.१०५.३४ ।।

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ।। २.१०५.३५ ।।

आयुरुत्तममासाद्य भोगानपि च राघव: ।स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ।। २.१०५.३६ ।।

स जीर्णं मानुषं देहं परित्यज्य पिता हि न: ।दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ।। २.१०५.३७ ।।

तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति ।तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ।। २.१०५.३८ ।।

एते बहुविधा: शोका विलापरुदिते तथा ।वर्जनीया हि धीरेण सर्वावस्थासु धीमता ।। २.१०५.३९ ।।

स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् ।तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ।। २.१०५.४० ।।

यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा ।तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ।। २.१०५.४१ ।।

न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ।। २.१०५.४२ ।।

तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: ।कर्मणा पालयिष्यामि वनवासेन राघव ।। २.१०५.४३ ।।

धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना ।भवितव्यं नरव्याघ्र परलोकं जिगीषता ।। २.१०५.४४ ।।

आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ ।निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ।। २.१०५.४५ ।।

इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ।यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ।। २.१०५.४६ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततम: सर्ग: ।। १०५ ।।

Valmiki Ramayana by Maharshi Valmiki. Sanskrit text of all seven kandas (645 sargas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Ramayana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सर्गः १०४सर्गः १०६

Related on Dharmasthan

  • Valmiki Ramayana: contents and about
  • Why is Ram Navami celebrated?
  • Why is Dussehra celebrated?
  • Why is Diwali celebrated?
  • Why is Hanuman Jayanti celebrated?
  • Ram bhajans and aartis
  • Hanuman bhajans and chalisa
  • Shri Ramchandra Kripalu