अथर्ववेदसंहिता (शौनकीया) · Kanda 8
सूक्तम् ८.७
Ask AIऋषिः — अथर्वा · दे. भैषज्यं, आयुष्यं, ओषधयः।
या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः ।असिक्नीः कृष्णा ओषधीः सर्वा अच्छावदामसि ॥१॥
त्रायन्तामिमं पुरुषं यक्ष्माद्देवेषितादधि ।यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥
आपो अग्रं दिव्या ओषधयः ।तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥३॥
प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि ।अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥४॥
यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् ।तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥५॥
जीवलां नघारिषां जीवन्तीमोषधीमहम् ।अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम ।यथेमं पारयामसि पुरुषं दुरितादधि ॥७॥
अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः ।ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥८॥
अवकोल्बा उदकात्मान ओषधयः ।व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥९॥
10उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः ।अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥१०॥ {१७}
अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः ।त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम् ॥११॥
मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव ।मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥१२॥
यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः ।ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥१३॥
वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः ।अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्॥१४॥
सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः ।गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥१५॥
मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि ।भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥१६॥
या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च ।ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥१७॥
याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा ।अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥१८॥
सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम ।यथेमं पारयामसि पुरुषं दुरितादधि ॥१९॥
20अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः ।व्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमर्त्यौ ॥२०॥ {१८}
उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः ।यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥२१॥
तस्यामृतस्येमं बलं पुरुषं पययामसि ।अथो कृणोमि भेषजं यथासच्छतहायनः ॥२२॥
वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥२३॥
याः सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः ।वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः ।मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥२४॥
यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः ।तावतीस्तुभ्यमोषधीः शर्म यच्छन्त्वाभृताः ॥२५॥
यावतीषु मनुष्या भेषजं भिषजो विदुः ।तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥२६॥
पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।संमातर इव दुह्रामस्मा अरिष्टतातये ॥२७॥
28उत्त्वाहार्षं पञ्चशलादथो दशशलादुत ।अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२८॥ {१९}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.