अथर्ववेदसंहिता (शौनकीया) · Kanda 8
सूक्तम् ८.६
Ask AIऋषिः — मातृनामा · दे. मन्त्रोक्ताः, मातृनामा, १५ ब्रह्मणस्पतिः। अनुष्टुप्, - - - - - - - -
यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ ।दुर्णामा तत्र मा गृधदलिंश उत वत्सपः ॥१॥
पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् ॥२॥
मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा ।कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥३॥
दुर्णामा च सुनामा चोभा सम्वृतमिच्छतः ।अरायान् अप हन्मः सुनामा स्त्रैणमिच्छताम् ॥४॥
यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः ।अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि ॥५॥
अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् ।अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत्॥६॥
यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च ।बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥७॥
यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम् ।छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत्॥८॥
यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम् ।तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥९॥
10ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः ।कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः ।तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥ {१४}
ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति ।क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥११॥
ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः ।अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥१२॥
य आत्मानमतिमात्रमंस आधाय बिभ्रति ।स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥१३॥
ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः ।आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि ॥१४॥
येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा ।खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः ।तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥१५॥
पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः ।अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥१६॥
उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् ।पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना ॥१७॥
यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥१८॥
ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते ।स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रमिवाजतु ॥१९॥
20परिसृष्टं धरयतु यद्धितं माव पादि तत्।गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥२०॥ {१५}
पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्।प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥
द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः ।वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्॥२२॥
य आमं मांसमदन्ति पौरुषेयं च ये क्रविः ।गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि ॥२३॥
ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि ।बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥२४॥
पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् ।आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥२५॥
26अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ।वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत्॥२६॥ {१६}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.