अथर्ववेदसंहिता (शौनकीया) · Kanda 8
सूक्तम् ८.८
Ask AIऋषिः — भृग्वङ्गिराः · दे. इन्द्रः, वनस्पतिः, परसेनाहननं च।
इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः ।यथा हनाम सेना अमित्राणां सहस्रशः ॥१॥
पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् ।धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥२॥
अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् ।ताजद्भङ्ग इव भज्यन्तां हन्त्वेनान् वधको वधैः ॥३॥
परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः ।क्षिप्रं शर इव भज्यन्तां बृहज्जालेन संदिताः ॥४॥
अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः ।तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्॥५॥
बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः ।तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् ॥६॥
बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥७॥
अयं लोको जालमासीच्छक्रस्य महतो महान् ।तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् ॥८॥
सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना ।श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान् ॥९॥
10मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः ।मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा ॥१०॥ {२०}
नयतामून् मृत्युदूता यमदूता अपोम्भत ।परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य ॥११॥
साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा ।रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥१२॥
विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा ।मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥१३॥
वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥१४॥
गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥१५॥
इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥१६॥
घर्मः समिद्धो अग्निनायं होमः सहस्रहः ।भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम् ॥१७॥
मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥१८॥
पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा ।बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन ॥१९॥
अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि ॥२०॥
सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः ।मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२१॥
दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोडाशाः शफा अन्तरिक्षमुद्धिः ।द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम् ॥२२॥
संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् ।इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥२३॥
24इतो जयेतो वि जय सं जय जय स्वाहा ।इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः ।नीललोहितेनामून् अभ्यवतनोमि ॥२४॥ {२१}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.