अथर्ववेदसंहिता (शौनकीया) · Kanda 14
सूक्तम् १४.१
Ask AIऋषिः — सूर्या सावित्री · दे. आत्मा, १-५ सोमः, ६ स्वविवाहः, २३ सोमार्कौ, २४ चन्द्रमाः, २५ नृणां विवाहमन्त्राशिषः, २५-२७ वधूवासःसंस्पर्शमोचनम्। अनुष्टुप् , - - - - -- -
सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥
सोमेनादित्या बलिनः सोमेन पृथिवी मही ।अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥
सोमं मन्यते पपिवान् यत्संपिंषन्त्योषधिम् ।सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥३॥
यत्त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः ।वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥४॥
आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥५॥
चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥६॥
रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।सूर्याया भद्रमिद्वासो गाथयैति परिष्कृता ॥७॥
स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥८॥
सोमो वधूयुरभवदश्विनास्तामुभा वरा ।सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात्॥९॥
10मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।शुक्रावनड्वाहावास्तां यदयात्सूर्या पतिम् ॥१०॥ {१}
ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् ।श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥११॥
शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥१२॥
सूर्याया वहतुः प्रागात्सविता यमवासृजत्।मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥१३॥
यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥१४॥
यदयातं शुभस्पती वरेयं सूर्यामुप ।विश्वे देवा अनु तद्वामजानन् पुत्रः पितरमवृणीत पूषा ॥१५॥
द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥१६॥
अर्यमणं यजामहे सुबन्धुं पतिवेदनम् ।उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामि नामुतः ॥१७॥
प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥१८॥
प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः ।ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥१९॥
20भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥२०॥ {२}
इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ।एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥२१॥
इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥२२॥
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥२३॥
नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः ॥२४॥
परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥२५॥
नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२६॥
अश्लीला तनूर्भवति रुशती पापयामुया ।पतिर्यद्वध्वो वाससः स्वमङ्गमभ्यूर्णुते ॥२७॥
आशसनं विशसनमथो अधिविकर्तनम् ।सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति ॥२८॥
तृष्टमेतत्कटुकमपाष्ठवद्विषवन् नैतदत्तवे ।सूर्यां यो ब्रह्मा वेद स इद्वाधूयमर्हति ॥२९॥
30स इत्तत्स्योनं हरति ब्रह्मा वासः सुमङ्गलम् ।प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥३०॥ {३}
युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु ।ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम् ॥३१॥
इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ ।शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि ॥३२॥
इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् ।अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥३३॥
अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम् ।सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा ॥३४॥
यच्च वर्चो अक्षेषु सुरायां च यदाहितम् ।यद्गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ॥३५॥
येन महानघ्न्या जघनमश्विना येन वा सुरा ।येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम् ॥३६॥
यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु ।अपां नपान् मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्यावान् ॥३७॥
इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि ।यो भद्रो रोचनस्तमुदचामि ॥३८॥
आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः ।अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च ॥३९॥
40शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म ।शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥४०॥ {४}
खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम् ॥४१॥
आशासाना सौमनसं प्रजां सौभाग्यं रयिम् ।पत्युरनुव्रता भूत्वा सं नह्यस्वामृताय कम् ॥४२॥
यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा ।एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य ॥४३॥
सम्राज्ञ्येधि श्वशुरेषु सम्राज्ञ्युत देवृषु ।ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्र्वाः ॥४४॥
या अकृन्तन्न् अवयन् याश्च तत्निरे या देवीरन्तामभितोऽददन्त ।तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥४५॥
जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः ।वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥४६॥
स्योनं ध्रुवं प्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे ।तमा तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥४७॥
येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् ।तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥४८॥
देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु ।अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिं कृणोतु ॥४९॥
50गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥५०॥ {५}
भगस्ते हस्तमग्रहीत्सविता हस्तमग्रहीत्।पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ॥५१॥
ममेयमस्तु पोष्या मह्यं त्वादाद्बृहस्पतिः ।मया पत्या प्रजावति सं जीव शरदः शतम् ॥५२॥
त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पतेः प्रशिषा कवीनाम् ।तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया ॥५३॥
इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा ।बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु ॥५४॥
बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशाँ अकल्पयत्।तेनेमामश्विना नारीं पत्ये सं शोभयामसि ॥५५॥
इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् ।तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ॥५६॥
अहं वि ष्यामि मयि रूपमस्या वेददित्पश्यन् मनसः कुलायम् ।न स्तेयमद्मि मनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥५७॥
प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः ।उरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥५८॥
उद्यच्छध्वमप रक्षो हनाथेमं नारीं सुकृते दधात ।धाता विपश्चित्पतिमस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥५९॥
भगस्ततक्ष चतुरः पादान् भगस्ततक्ष चत्वार्युष्पलानि ।त्वष्टा पिपेश मध्यतोऽनु वर्ध्रान्त्सा नो अस्तु सुमङ्गली ॥६०॥
सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥६१॥
अभ्रातृघ्नीं वरुणापशुघ्नीं बृहस्पते ।इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह ॥६२॥
मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि ।शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥६३॥
64ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ।अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥६४॥ {६}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.