अथर्ववेदसंहिता (शौनकीया) · Kanda 13
सूक्तम् १३.४
Ask AIऋषिः — ब्रह्मा · दे. अध्यात्मम्, रोहितादित्यदैवत्यम्। त्रिष्टुप् (षट् पर्यायाः)। - - - - -- -
स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्॥१॥
रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥२॥
स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥३॥
सोऽर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥
सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥
तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥६॥
पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥७॥
तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥
रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥९॥
तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥
स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥११॥
तमिदं निगतं सहः स एष एक एकवृदेक एव ॥१२॥
13एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५}
कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥
य एतं देवमेकवृतं वेद ॥१५॥
न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥१६॥
न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥१७॥
नाष्टमो न नवमो दशमो नाप्युच्यते ॥१८॥
स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥१९॥
तमिदं निगतं सहः स एष एक एकवृदेक एव ॥२०॥
21सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६}
ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२२॥
भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥२३॥
य एतं देवमेकवृतं वेद ॥२४॥
स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः ॥२५॥
स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥२६॥
तस्येमे सर्वे यातव उप प्रशिषमासते ॥२७॥
28तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७}
स वा अह्नोऽजायत तस्मादहरजायत ॥२९॥
स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥३०॥
स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥३१॥
स वै वायोरजायत तस्माद्वायुरजायत ॥३२॥
स वै दिवोऽजायत तस्माद्द्यौरधि अजायत ॥३३॥
स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त ॥३४॥
स वै भूमेरजायत तस्माद्भूमिरजायत ॥३५॥
स वा अग्नेरजायत तस्मादग्निरजायत ॥३६॥
स वा अद्भ्योऽजायत तस्मादापोऽजायन्त ॥३७॥
स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त ॥३८॥
स वै यज्ञादजायत तस्माद्यज्ञोऽजायत ॥३९॥
स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥४०॥
स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥४१॥
पापाय वा भद्राय वा पुरुषायासुराय वा ॥४२॥
यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥४३॥
तावांस्ते मघवन् महिमोपो ते तन्वः शतम् ॥४४॥
45उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥४५॥ {१८}
भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥
भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥
नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥
अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥
अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥
51अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९}
उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥५२॥
प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥
भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥५४॥
नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥
56अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.