Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Atharvaveda
  5. Kanda 14
  6. सूक्तम् १४.२

अथर्ववेदसंहिता (शौनकीया) · Kanda 14

सूक्तम् १४.२

संस्कृतEnglish
Ask AI

ऋषिः — सूर्या सावित्री · दे. आत्मा, १० यक्ष्मनाशनी, ११ दम्पत्योः परिपन्थिनाशनी, ३६ देवाः । अनुष्टुप् , - - - - -- -

(विवाह प्रकरणम्)तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह ।स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥१॥

पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥२॥

सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः ।तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥३॥

सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥४॥

आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत ।अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥५॥

सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् ।सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् ॥६॥

या ओषधयो या नद्यो यानि क्षेत्राणि या वना ।तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥७॥

एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् ।यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥८॥

इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः ।ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः ।स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥९॥

10ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु ।पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥१०॥ {७}

मा विदन् परिपन्थिनो य आसीदन्ति दंपती ।सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥११॥

सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण ।पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥१२॥

शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश ।तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥

आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् ।सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥१४॥

प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति ।सिनीवालि प्र जायतां भगस्य सुमतावसत्॥१५॥

उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥१६॥

अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः ।वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥१७॥

अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः ।प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥१८॥

उत्तिष्ठेतः किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्।शून्यैषी निर्ऋते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥१९॥

20यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् ।अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥२०॥ {८}

शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे ।सिनीवालि प्र जायतां भगस्य सुमतावसत्॥२१॥

यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥२२॥

उप स्तृणीहि बल्बजमधि चर्मणि रोहिते ।तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥२३॥

आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा ।इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥२४॥

वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः ।सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥२५॥

सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥२६॥

स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः ।स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥२७॥

सुमङ्गलीरियं वधूरिमां समेत पश्यत ।सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥२८॥

या दुर्हार्दो युवतयो याश्चेह जरतीरपि ।वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन ॥२९॥

30रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् ।आरोहत्सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥ {९}

आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै ।इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥

देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः ।सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥३२॥

उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा ।जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३३॥

अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥३४॥

नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः ।विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥३५॥

राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम ।अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥३६॥

सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः ।मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥३७॥

तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥३८॥

आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥३९॥

40आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा ।अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ {१०}

देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् ।यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥४१॥

यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् ।युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥४२॥

स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ ।सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः ॥४३॥

नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः ।आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४४॥

शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥४५॥

सूर्यायै देवेभ्यो मित्राय वरुणाय च ।ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥४६॥

य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥४७॥

अपास्मत्तम उच्छतु नीलं पिशङ्गमुत लोहितं यत्।निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि ॥४८॥

यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः ।व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि ॥४९॥

50या मे प्रियतमा तनूः सा मे बिभाय वाससः ।तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥५०॥ {११}

ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः ।वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्॥५१॥

उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः ।अव दीक्षामसृक्षत स्वाहा ॥५२॥

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५३॥

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५४॥

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५५॥

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५६॥

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५७॥

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५८॥

यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥५९॥

60यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६०॥ {१२}

यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६१॥

यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६२॥

इयं नार्युप ब्रूते पूल्यान्यावपन्तिका ।दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥६३॥

इहेमाविन्द्र सं नुद चक्रवाकेव दंपती ।प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् ॥६४॥

यदासन्द्यामुपधाने यद्वोपवासने कृतम् ।विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥६५॥

यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्।तत्संभलस्य कम्बले मृज्महे दुरितं वयम् ॥६६॥

संभले मलं सादयित्वा कम्बले दुरितं वयम् ।अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥६७॥

कृत्रिमः कण्टकः शतदन् य एषः ।अपास्याः केश्यं मलमप शीर्षण्यं लिखात्॥६८॥

अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि ।तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥६९॥

70सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥७०॥ {१३}

अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् ।ताविह सं भवाव प्रजामा जनयावहै ॥७१॥

जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः ।अरिष्टासू सचेवहि बृहते वाजसातये ॥७२॥

ये पितरो वधूदर्शा इमं वहतुमागमन् ।ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु ॥७३॥

येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा ।तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्॥७४॥

75प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय ।गृहान् गच्छ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥७५॥ {१४}

Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सूक्तम् १४.१सूक्तम् १५.१

Related on Dharmasthan

  • Atharvaveda: contents and about
  • Rigveda
  • The four Vedas
  • The Rigveda’s wedding hymn of Surya (10.85), the source of Book 14
  • The Purusha Sukta in the Rigveda (10.90), found again as Atharvaveda 19.6
  • All mantras
  • Shlokas
  • Surya mantras and stotrams