अथर्ववेदसंहिता (शौनकीया) · Kanda 13
सूक्तम् १३.१
Ask AIऋषिः — ब्रह्मा · दे. अध्यात्मम्, रोहितादिदैवत्यम्( ३ मरुतः, २८-३१ अग्निः, ३१ बहुदेवताः)। त्रिष्टुप्, - - - - -- -
उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्।यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥१॥
उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः ।सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥२॥
यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥
रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् ।ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः ॥४॥
आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्।तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥५॥
रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन ॥६॥
रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः ।तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥७॥
वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च ।दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥८॥
यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् ।तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥
10यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः ।तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥ {१}
ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः ।तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥११॥
सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः ।मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥१२॥
रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥१३॥
रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः ।वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥१४॥
आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः ।आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥१५॥
अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् ।अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥१६॥
वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु ॥१७॥
वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥१८॥
वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु ॥१९॥
20परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा ।सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्॥२०॥ {२}
यं त्वा पृषती रथे प्रष्टिर्वहति रोहित ।शुभा यासि रिणन्न् अपः ॥२१॥
अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः ।तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥२२॥
इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति ।तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥२३॥
सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् ।घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥२४॥
यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव ।यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥२५॥
रोहितो दिवमारुहन् महतः पर्यर्णवात्।सर्वो रुरोह रोहितो रुहः ॥२६॥
वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा ।इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥२७॥
समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः ।अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम ॥२८॥
हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति ।क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥२९॥
30अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् ।अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि ॥३०॥ {३}
अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते ।इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥३१॥
उद्यंस्त्वं देव सूर्य सपत्नान् अव मे जहि ।अवैनान् अश्मना जहि ते यन्त्वधमं तमः ॥३२॥
वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् ।घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥३३॥
दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह ।प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥३४॥
ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम् ।तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः ॥३५॥
उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ।तिरः समुद्रमति रोचसेऽर्णवम् ॥३६॥
रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति ।सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥३७॥
यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् ।यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥३८॥
अमुत्र सन्न् इह वेत्थेतः संस्तानि पश्यसि ।इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥३९॥
40देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे ।समानमग्निमिन्धते तं विदुः कवयः परे ॥४०॥ {४}
अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात्।सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥४१॥
एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी ।सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥४२॥
आरोहन् द्याममृतः प्राव मे वचः ।उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥४३॥
वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि ।यत्ते सधस्थं परमे व्योमन् ॥४४॥
सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति ।सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥४५॥
उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत ।तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥४६॥
हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् ।वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥४७॥
स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते ।तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत ॥४८॥
ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ ।ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥४९॥
50सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते ।ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५०॥ {५}
यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः ।ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५१॥
वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् ।घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥५२॥
वर्षमाज्यं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत ।तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत्॥५३॥
गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्।त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥५४॥
स यज्ञः प्रथमो भूतो भव्यो अजायत ।तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥५५॥
यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति ।तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५६॥
यो माभिछायमत्येषि मां चाग्निं चान्तरा ।तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५७॥
यो अद्य देव सूर्य त्वां च मां चान्तरायति ।दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥५८॥
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।मान्त स्थुर्नो अरातयः ॥५९॥
60यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।तमाहुतमशीमहि ॥६०॥ {६}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.