Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Atharvaveda
  5. Kanda 13
  6. सूक्तम् १३.२

अथर्ववेदसंहिता (शौनकीया) · Kanda 13

सूक्तम् १३.२

संस्कृतEnglish
Ask AI

ऋषिः — ब्रह्मा · दे. अध्यात्मम्, रोहितः, आदित्यः। त्रिष्टुप्, - - - - -- -

उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते ।आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः ॥१॥

दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे ।स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः ॥२॥

यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया ।तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥३॥

विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः ।स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥४॥

मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम् ।दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥५॥

स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः ।यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥६॥

सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् ।यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥७॥

सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त ।अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत्॥८॥

उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्।दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥९॥

10उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि ।उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः ॥१०॥ {७}

पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥११॥

दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे ।स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्॥१२॥

उभावन्तौ समर्षसि वत्सः संमातराविव ।नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥१३॥

यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः ।अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥१४॥

तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति ।तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥१५॥

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यम् ॥१६॥

अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।सूराय विश्वचक्षसे ॥१७॥

अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।भ्राजन्तो अग्नयो यथा ॥१८॥

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।विश्वमा भासि रोचन ॥१९॥

20प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।प्रत्यङ्विश्वं स्वर्दृशे ॥२०॥ {८}

येना पावक चक्षसा भुरण्यन्तं जनाँ अनु ।त्वं वरुण पश्यसि ॥२१॥

वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।पश्यन् जन्मानि सूर्य ॥२२॥

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।शोचिष्केशं विचक्षणम् ॥२३॥

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।ताभिर्याति स्वयुक्तिभिः ॥२४॥

रोहितो दिवमारुहत्तपसा तपस्वी ।स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥२५॥

यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः ।सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥२६॥

एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्।द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते ॥२७॥

अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः ।केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥२८॥

बण्महाँ असि सूर्य बडादित्य महाँ असि ।महांस्ते महतो महिमा त्वमादित्य महाँ असि ॥२९॥

30रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः ।उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्॥३०॥ {९}

अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः ।विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्॥३१॥

चित्रश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥३२॥

तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः ।ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥३३॥

चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥३४॥

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।आप्राद् द्वायापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥३५॥

उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् ।पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥३६॥

दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः ।स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥३७॥

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥३८॥

रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः ।रोहितो यज्ञानां मुखं रोहितः स्वराभरत्॥३९॥

40रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम् ।रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत्॥४०॥ {१०}

सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः ।दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति ॥४१॥

आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः ।चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति ॥४२॥

अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः ।सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥४३॥

पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव ।विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४४॥

पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् ।सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४५॥

46अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥४६॥ {११}

Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

सूक्तम् १३.१सूक्तम् १३.३

Related on Dharmasthan

  • Atharvaveda: contents and about
  • Rigveda
  • The four Vedas
  • The Rigveda’s wedding hymn of Surya (10.85), the source of Book 14
  • The Purusha Sukta in the Rigveda (10.90), found again as Atharvaveda 19.6
  • All mantras
  • Shlokas
  • Surya mantras and stotrams