अथर्ववेदसंहिता (शौनकीया) · Kanda 12
सूक्तम् १२.५
Ask AIऋषिः — (कश्यपः?) अथर्वाचार्यः · दे. ब्रह्मगवी। (सप्त पर्यायाः) १ प्राजापत्यानुष्टुप्, .....
श्रमेण तपसा सृष्टा ब्रह्मणा वित्तर्ते श्रिता ॥१॥
सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥२॥
स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥३॥
ब्रह्म पदवायं ब्राह्मणोऽधिपतिः ॥४॥
तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥५॥
6अप क्रामति सूनृता वीर्यं पुण्या लक्ष्मीः ॥६॥ {२४}
ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च ॥७॥
ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥८॥
आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥९॥
पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥१०॥
11तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥११॥ {२५}
सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता ॥१२॥
सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥१३॥
सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥१४॥
सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पड्वीश आ द्यति ॥१५॥
मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ॥१६॥
तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥१७॥
वज्रो धावन्ती वैश्वानर उद्वीता ॥१८॥
हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा ॥१९॥
क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति ॥२०॥
मृत्युर्हिङ्कृण्वत्युग्रो देवः पुच्छं पर्यस्यन्ती ॥२१॥
सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥२२॥
मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ॥२३॥
सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा ॥२४॥
शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना ॥२५॥
अघविषा निपतन्ती तमो निपतिता ॥२६॥
27अनुगच्छन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥२७॥ {२६}
वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥२८॥
देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता ॥२९॥
पाप्माधिधीयमाना पारुष्यमवधीयमाना ॥३०॥
विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥३१॥
अघं प्रच्यमाना दुष्वप्न्यं पक्वा ॥३२॥
मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥३३॥
असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता ॥३४॥
अभूतिरुपह्रियमाणा पराभूतिरुपहृता ॥३५॥
शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥३६॥
अवर्तिरश्यमाना निर्ऋतिरशिता ॥३७॥
38अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥३८॥ {२७}
तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥३९॥
अस्वगता परिह्णुता ॥४०॥
अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥४१॥
सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥४२॥
छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु ॥४३॥
विवाहां ज्ञातीन्त्सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥४४॥
अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥४५॥
46य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते ॥४६॥ {२८}
क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥४७॥
क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥४८॥
क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम् ॥४९॥
क्षिप्रं वै तस्य पृच्छन्ति यत्तदासी३ इदं नु ता३ इति ॥५०॥
छिन्ध्या छिन्धि प्र छिन्ध्यपि क्षापय क्षापय ॥५१॥
आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥५२॥
वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ॥५३॥
ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥५४॥
क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ॥५५॥
आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥५६॥
आदाय जीतं जीताय लोकेऽमुष्मिन् प्र यच्छसि ॥५७॥
अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥५८॥
मेनिः शरव्या भवाघादघविषा भव ॥५९॥
अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६०॥
61त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम् ॥६१॥ {२९}
वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥६२॥
ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥६३॥
यथायाद्यमसादनात्पापलोकान् परावतः ॥६४॥
एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६५॥
वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥६६॥
प्र स्कन्धान् प्र शिरो जहि ॥६७॥
लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय ॥६८॥
मांसान्यस्य शातय स्नावान्यस्य सं वृह ॥६९॥
अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि ॥७०॥
सर्वास्याङ्गा पर्वाणि वि श्रथय ॥७१॥
अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः ॥७२॥
73सूर्य एनं दिवः प्र णुदतां न्योषतु ॥७३॥ {३०}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.