अथर्ववेदसंहिता (शौनकीया) · Kanda 12
सूक्तम् १२.४
Ask AIऋषिः — कश्यपः · दे.वशा। अनुष्टुप्, ७ भुरिक्, २० विराट्, ३२ उष्णिग्बृहतीगर्भा, ४२ बृहतीगर्भा।
ददामीत्येव ब्रूयादनु चैनामभुत्सत ।वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्॥१॥
प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥
कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥
विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥
पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति ।अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥
यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते ।लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥
यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति ।ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥
यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥८॥
यदस्याः पल्पूलनं शकृद्दासी समस्यति ।ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥९॥
10जायमानाभि जायते देवान्त्सब्राह्मणान् वशा ।तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥१०॥ {१९}
य एनां वनिमायन्ति तेषां देवकृता वशा ।ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥११॥
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥
यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः ।हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥
यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा ।तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥१४॥
स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि ।यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥१५॥
चरेदेवा त्रैहायणादविज्ञातगदा सती ।वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥१६॥
य एनामवशामाह देवानां निहितं निधिम् ।उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥१७॥
यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत ।उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥१८॥
दुरदभ्नैनमा शये याचितां च न दित्सति ।नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥१९॥
20देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् ।तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥२०॥ {२०}
हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् ।देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥२१॥
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥
य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् ।दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥
देवा वशामयाचन् यस्मिन्न् अग्रे अजायत ।तामेतां विद्यान् नारदः सह देवैरुदाजत ॥२४॥
अनपत्यमल्पपशुं वशा कृणोति पूरुषम् ।ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥२५॥
अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्॥२६॥
यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् ।चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्॥२७॥
यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्।आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥२८॥
वशा चरन्ती बहुधा देवानां निहितो निधिः ।आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥
30आविरात्मानं कृणुते यदा स्थाम जिघांसति ।अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१}
मनसा सं कल्पयति तद्देवामपि गच्छति ।ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥३१॥
स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥३२॥
वशा माता राजन्यस्य तथा संभूतमग्रशः ।तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥३३॥
यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये ।एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्॥३४॥
पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति ।सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥
सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥
प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥
यो वेहतं मन्यमानोऽमा च पचते वशाम् ।अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥३८॥
महदेषाव तपति चरन्ती गोषु गौरपि ।अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥
40प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते ।अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्॥४०॥ {२२}
या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥४१॥
तां देवा अमीमांसन्त वशेया३ अवशेति ।तामब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥
कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।तास्त्वा पृच्छामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥४३॥
विलिप्त्या बृहस्पते या च सूतवशा वशा ।तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४४॥
नमस्ते अस्तु नारदानुष्ठु विदुषे वशा ।कतमासां भीमतमा यामदत्त्वा पराभवेत्॥४५॥
विलिप्ती या बृहस्पतेऽथो सूतवशा वशा ।तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४६॥
त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा ।ताः प्र यच्छेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥४७॥
एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः ।वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥४८॥
देवा वशां पर्यवदन् न नोऽदादिति हीडिताः ।एताभिर्ऋग्भिर्भेदं तस्माद्वै स पराभवत्॥४९॥
उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः ।तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥५०॥
ये वशाया अदानाय वदन्ति परिरापिणः ।इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥
ये गोपतिं पराणीयाथाहुर्मा ददा इति ।रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥५२॥
53यदि हुतां यद्यहुताममा च पचते वशाम् ।देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर्ऋच्छति ॥५३॥ {२३}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.