अथर्ववेदसंहिता (शौनकीया) · Kanda 10
सूक्तम् १०.६
Ask AIऋषिः — बृहस्पतिः · दे. फालमणिः, वनस्पतिः, ३ आपः । अनुष्टुप्- - - - -
अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः ।अपि वृश्चाम्योजसा ॥१॥
वर्म मह्यमयं मणिः फालाज्जातः करिष्यति ।पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥२॥
यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या ।आपस्त्वा तस्मज्जीवलाः पुनन्तु शुचयः शुचिम् ॥३॥
हिरण्यस्रगयं मणिः श्रद्धां यज्ञं महो दधत्।गृहे वसतु नोऽतिथिः ॥४॥
तस्मै घृतं सुरं मध्वन्नमन्नं क्षदामहे ।स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य ॥५॥
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तमग्निः प्रत्यमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥६॥
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम् ।सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥७॥
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे ।सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥८॥
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः ।सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥९॥
10यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोऽजयद्दानवानां हिरण्ययीः ।सो अस्मै श्रियमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१०॥ {१८}
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥११॥
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तेनेमां मणिना कृषिमश्विनावभि रक्षतः ।स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१२॥
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः ।सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१३॥
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः ।स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१४॥
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम् ।सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१५॥
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् ।स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१६॥
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम् ।स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१७॥
ऋतवस्तमबध्नतार्तवास्तमबध्नत ।संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति ॥१८॥
अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत ।प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः ॥१९॥
20अथर्वाणो अबध्नताथर्वणा अबध्नत ।तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥२०॥ {१९}
तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्।तेन त्वं द्विषतो जहि ॥२१॥
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमद्रसेन सह वर्चसा ॥२२॥
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह ॥२३॥
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह ॥२४॥
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह ॥२५॥
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह ॥२६॥
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह ॥२७॥
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह ॥२८॥
तमिमं देवता मणिं मह्यं ददतु पुष्टये ।अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥२९॥
30ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् ।असपत्नः सपत्नहा सपत्नान् मेऽधरामकः ॥३०॥ {२०}
उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः ।यस्य लोका इमे त्रयः पयो दुग्धमुपासते ।स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३१॥
यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा ।स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३२॥
यथा बीजमुर्वरायां कृष्टे फालेन रोहति ।एवा मयि प्रजा पशवोऽन्नमन्नं वि रोहतु ॥३३॥
यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् ।तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात्॥३४॥
35एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः ।तस्मिन् विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥३५॥ {२१}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.