अथर्ववेदसंहिता (शौनकीया) · Kanda 10
सूक्तम् १०.५
Ask AIऋषिः — सिन्धुद्वीपः · दे. आपः, चन्द्रमा। अनुष्टुप्- - - - -
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥१०.५.१॥
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय क्षत्रयोगैर्वो युनज्मि ॥१०.५.२॥
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि ॥१०.५.३॥
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय सोमयोगैर्वो युनज्मि ॥१०.५.४॥
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगायाप्सुयोगैर्वो युनज्मि ॥१०.५.५॥
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय विश्वानि मा भूतान्युप तिष्ठन्तु युक्ता म आप स्थ ॥१०.५.६॥
अग्नेर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.७॥
इन्द्रस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.८॥
सोमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.९॥
10वरुणस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१०॥ {१३}
मित्रावरुणयोर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.११॥
यमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१२॥
पितॄणां भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१३॥
देवस्य सवितुर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१४॥
यो व आपोऽपां भागोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१५ ॥
यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१६ ॥
यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१७ ॥
यो व आपोऽपां वृषभोऽप्स्वन्तर्यजुष्यो देवयजनः ॥ इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१८ ॥
यो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१९ ॥
यो व आपोऽपामश्मा पृश्निर्दिव्योऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.२० ॥
यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.२१ ॥
यदर्वाचीनं त्रैहायणादनृतं किं चोदिम ।आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१०.५.२२॥
समुद्रं वः प्र हिणोमि स्वां योनिमपीतन ।अरिष्टाः सर्वहायसो मा च नः किं चनाममत्॥१०.५.२३॥
अरिप्रा आपो अप रिप्रमस्मत्।प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु ॥१०.५.२४॥
विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः ।पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२५॥
विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२६॥
विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः ।दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२७॥
विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः ।दिशो अनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२८॥
विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः ।आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२९॥
30विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितो सामतेजाः ।ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३०॥ {१५}
विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः ।यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३१॥
विष्णोः क्रमोऽसि सपत्नहौषधीसंशितो सोमतेजाः ।ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.१०.५.३२॥
विष्णोः क्रमोऽसि सपत्नहाप्सुसंशितो वरुणतेजाः ।अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३३॥
विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः ।कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३४॥
विष्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः ।प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३५॥
जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ।इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१०.५.३६॥
सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् ।सा मे द्रविणं यच्छतु सा मे ब्राह्मणवर्चसम् ॥१०.५.३७॥
दिशो ज्योतिष्मतीरभ्यावर्ते ।ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥१०.५.३८॥
सप्तऋषीन् अभ्यावर्ते ।ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥१०.५.३९॥
40ब्रह्माभ्यावर्ते ।तन् मे द्रविणं यच्छन्तु तन् मे ब्राह्मणवर्चसम् ॥१०.५.४०॥ {१६}
ब्राह्मणामभ्यावर्ते ।ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥१०.५.४१॥
यं वयं मृगयामहे तं वधै स्तृणवामहै ।व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥१०.५.४२॥
वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि ।इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी ॥१०.५.४३॥
राज्ञो वरुणस्य बन्धोऽसि ।सोऽमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥१०.५.४४॥
यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु ।तस्य नस्त्वं भुवस्पते संप्रयच्छ प्रजापते ॥१०.५.४५॥
अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१०.५.४६॥
सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१०.५.४७॥
यदग्ने अद्य मिथुना शपतो यद्वाचस्तृष्टं जनयन्त रेभाः ।मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१०.५.४८॥
परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१०.५.४९॥
50अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥१०.५.५०॥ {१७}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.