अथर्ववेदसंहिता (शौनकीया) · Kanda 10
सूक्तम् १०.४
Ask AIऋषिः — गरुत्मान् · दे. तक्षकः। अनुष्टुप्- - - - -
इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्।अहीनामपमा रथ स्थानुमारदथार्षत्॥१॥
दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः ।रथस्य बन्धुरम् ॥२॥
अव श्वेत पदा जहि पूर्वेण चापरेण च ।उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥३॥
अरंघुषो निमज्योन्मज पुनरब्रवीत्।उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥४॥
पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् ।पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥
पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि ।अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि ॥६॥
इदं पैद्वो अजायतेदमस्य परायणम् ।इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥
संयतं न वि ष्परद्व्यात्तं न सं यमत्।अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥८॥
अरसास इहाहयो ये अन्ति ये च दूरके ।घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥९॥
10अघाश्वस्येदं भेषजमुभयो स्वजस्य च ।इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्॥१०॥ {१०}
पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः ।इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥११॥
नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।जघानेन्द्रो जघ्निमा वयम् ॥१२॥
हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ।दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥१३॥
कैरातिका कुमारिका सका खनति भेषजम् ।हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु ॥१४॥
आयमगन् युवा भिषक्पृश्निहापराजितः ।स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥१५॥
इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च ।वातापर्जन्योभा ॥१६॥
इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् ।स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥१७॥
इन्द्रो जघान प्रथमं जनितारमहे तव ।तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥१८॥
सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥१९॥
20अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः ।हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥२०॥ {११}
ओषधीनामहं वृण उर्वरीरिव साधुया ।नयाम्यर्वतीरिवाहे निरैतु विषम् ॥२१॥
यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्।कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥२२॥
ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः ।येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥२३॥
तौदी नामासि कन्या घृताची नाम वा असि ।अधस्पदेन ते पदमा ददे विषदूषणम् ॥२४॥
अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय ।अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥२५॥
26आरे अभूद्विषमरौद्विषे विषमप्रागपि ।अग्निर्विषमहेर्निरधात्सोमो निरणयीत्।दंष्टारमन्वगाद्विषमहिरमृत ॥२६॥ {१२}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.