अथर्ववेदसंहिता (शौनकीया) · Kanda 10
सूक्तम् १०.३
Ask AIऋषिः — अथर्वा · दे. वरणमणिः, वनस्पतिः, चन्द्रमाः । अनुष्टुप्- - - - -
अयं मे वरणो मणिः सपत्नक्षयणो वृषा ।तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ॥१॥
प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्।अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः ॥२॥
अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः ।स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति ॥३॥
अयं ते कृत्यां विततां पौरुषेयादयं भयात्।अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥४॥
वरणो वारयाता अयं देवो वनस्पतिः ।यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥५॥
स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम् ।परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥६॥
अरात्यास्त्वा निर्ऋत्या अभिचारादथो भयात्।मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥७॥
यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम् ।ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥८॥
वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः ।असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥९॥
10अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः ।तं मायं वरणो मणिः परि पातु दिशोदिशः ॥१०॥ {७}
अयं मे वरण उरसि राजा देवो वनस्पतिः ।स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान् ॥११॥
इमं बिभर्मि वरणमायुष्मान् छतशारदः ।स मे राष्ट्रं च क्षत्रं च पशून् ओजश्च मे दधत्॥१२॥
यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा ।एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१३॥
यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन् ।एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१४॥
यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः ।एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय ।पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१५॥
तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः ।य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥१६॥
यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१७॥
यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१८॥
यथा यशः पृथिव्यां यथास्मिन् जातवेदसि ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१९॥
20यथा यशः कन्यायां यथास्मिन्त्संभृते रथे ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२०॥ {८}
यथा यशः सोमपीथे मधुपर्के यथा यशः ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२१॥
यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२२॥
यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२३॥
यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२४॥
25यथा देवेष्वमृतं यथैषु सत्यमाहितम् ।एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२५॥ {९}
Atharvaveda by the Vedic rishis (seers), Atharvan and Angiras first among them, each named with their hymns. Sanskrit text of the Shaunaka Samhita (20 kandas, 731 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Atharvaveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.