Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 6
  6. अध्यायः ७

विष्णुपुराणम् · Amsha 6

अध्यायः ७

संस्कृतEnglish
Ask AI

1केशिध्वज उवाचन प्रार्थितं त्वया कस्मादस्मद्रा ज्यमकंटकम्राज्यलाभाद्विना नान्यत्क्षत्त्रियाणामतिप्रियम् १

2खांडिक्य उवाचकेशिध्वज निबोध त्वं मया न प्रार्थितं यतःराज्यमेतदश्षॐ ते यत्र गृध्नंत्यपंडिताः २

3क्षत्त्रियाणामयं धर्मो यत्प्रजापरिपालनम्वधश्च धर्मयुद्धेन स्वराज्यपरिपंथिनाम् ३

4तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वयाबंधायैव भवत्येषा ह्यविद्याप्यक्रमोज्झिता ४

5अल्पोमोपभोगलिप्सार्थमियं राज्यस्पृहा ममअन्येषां दोषज सैव धर्मं वै नानुरुध्यते ५

6न याच्ञा क्षत्त्रबंधूनां धर्मयैतत्सतां मतम्अतो न याचितं राज्यमविद्यांतर्गतं तव ६

7राज्ये गृध्नंत्यविद्वांसो ममत्वाहृतचेतसःअहंमानमहापानमदमत्ता न मादृशाः ७

8श्रीपराशर उवाचप्रहृष्टस्साध्विति ततः प्राह केशिध्वजो नृपःखांडिक्यजनकं प्रीत्या श्रूयतां वचनं मम ८

9केशिध्वज उवाचअहं ह्यविद्यया मृत्युं तर्तुकामः करोमि वैराज्यं यागांश्च विविधान्योगैः पुण्यक्षयं तथा ९

10तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम्तच्छ्रूयतामविद्यायास्स्वरूपं कुलनंदन १०

11अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिःसंसारतरुसंभूतिबीजमेतद्द्विधा स्थितम् ११

12पंचभूतात्मके देहे देही मोहतमोवृतःअहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् १२

13आकाशवाय्वग्निजलपृथिवीभ्यः पृथक् स्थितेआत्मन्यात्ममयं भावं कः करोति कलेवरे १३

14कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च कःअदेहे ह्यात्मनि प्राज्ञे ममेदमिति मन्यते १४

15इत्थं च पुत्त्रपौत्त्रेषु तद्देहोत्पादितेषु कःकरोति पंडितस्स्वाम्यमनात्मनि कलेवरे १५

16सर्वं देहोपभोगाय कुरुते कर्म मानवःदेहश्चान्यो यदा पुंसस्तदा बंधाय तत्परम् १६

17मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसापार्थिवोऽयं तथा देहो मृदंब्वालेपनस्थितः १७

18पंचभूतात्मकैर्भोगैः पंचभूतात्मकं वपुःआप्यायते यदि ततः पुंसो भोगोऽत्र किं कृतः १८

19अनेकजन्मसाहस्रीं संसारपदवीं व्रजन्मोहश्रमं प्रयातोऽसौ वासनारेणुकुंठितः १९

20प्रक्षाल्यते यदा सोस्य रेणुज्ञानोष्णवारिणातदा संसारपांथस्य याति मोहश्रमश्शमम् २०

21मोहश्रमे शमं याते स्वस्थांतःकरणः पुमान्अनन्यातिशयाबाधं परं निर्वाणमृच्छति २१

22निर्वाणमय एवायमात्मा ज्ञानमयोऽमलःदुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः २२

23जलस्य नाग्निसंसर्गस्थालीसंगात्तथापि हिशब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप २३

24तथात्मा प्रकृतेस्संगादहंमानादिदूषितःभजते प्राकृतान्धर्मानन्यस्तेभ्यो हि सोऽव्ययः २४

25तदेतत्कथितं बीजमविद्याया मया तवक्लेशानां च क्षयकरं योगादन्यन्न विद्यते २५

26खांडिक्य उवाचतं ब्रवीहि महाभाग योगं योगविदुत्तमविज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसंततौ २६

27केशिध्वज उवाचयोगस्वरूपं खांडिक्य श्रूयतां गदतो ममयत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः २७

28मन एव मनुष्याणां कारणं बंधमोक्षयोःबंधाय विषयासंगि मुक्त्यै निर्विषयं मनः २८

29विषयेभ्यस्समाहृत्य विज्ञानात्मामनो मुनिःचिंतयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् २९

30आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुनिम्विकार्यमात्मनश्शक्त्या लोहमाकर्षको यथा ३०

31आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिःतस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ३१

32एवमत्यंतवैशिष्ट्ययुक्तधर्मोपलक्षणःयस्य योगस्स वै योगी मुमुक्षुरभिधीयते ३२

33योगयुक्प्रथमं योगी युंजानो ह्यभिधीयतेविनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान् ३३

34यद्यंतरायदोषेण दूष्यते चास्य मानसम्जन्मांतरैरभ्यसतो मुक्तिः पूर्वस्य जायते ३४

35विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनिप्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ३५

36ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान्सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ३६

37स्वाध्यायशौचसंतोषतपांसि नियतात्मवान्कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ३७

38एते यमास्सनियमाः पंच पंच च कीर्त्तिताःविशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ३८

39एकं भद्रा सनादीनां समास्थाय गुणैर्युतःयमाख्यैर्नियमाख्यैश्च युंजीत नियतो यतिः ३९

40प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत्प्राणायामस्स विज्ञेयस्सबीजोऽबीज एव च ४०

41परस्परेणाभिभवं प्राणापानौ यथानिलौकुरुतस्सद्विधानेन तृतीयस्संयमात्तयोः ४१

42तस्य चालंबनवतः स्थूलरूपं द्विजोत्तमआलंबनमनंतस्य योगिनोऽभ्यसतः स्मृतम् ४२

43शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित्कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ४३

44वश्यता परमा तेन जायतेति चलात्मनाम्इन्द्रि याणामवश्यैस्तैर्न योगी योगसाधकः ४४

45प्राणयामेन पवने प्रत्याहारेण चेंद्रि येवशीकृते ततः कुर्यात्स्थितं चेतश्शुभाश्रये ४५

46खाडिक्य उवाचकथ्यतां मे महाभाग चेतसो यश्शुभाश्रयःयदाधारमश्षॐ तद्धंति दोषमलोद्भवम् ४६

47केशिध्वज उवाचआश्रयश्चेतसो ब्रह्म द्विधा तच्च स्वभावतःभूप मूर्त्तममूर्त्तं च परं चापरमेव च ४७

48त्रिविधा भावना भूप विश्वमेतन्निबोधताम्ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ४८

49कर्मभावात्मिका ह्येका ब्रह्मभावात्मिका पराउभयात्मिका तथैवान्या त्रिविधा भावभावना ४९

50सनंदनादयो ये तु ब्रह्मभावनया युताःकर्मभावनया चान्ये देवाद्याः स्थावरावराः ५०

51हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधाबोधाधिकारयुक्तेषु विद्यते भावभावना ५१

52अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसुविश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम् ५२

53प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम्वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ५३

54तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम्विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ५४

55न तद्योगयुजा शक्यं नृप चिंतयितुं यतःततस्स्थूलं हरे रूपं चिंतयेद्विश्वगोचरम् ५५

56हिरण्यगर्भो भगवान्वासुदेवः प्रजापतिःमरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ५६

57गंधर्वयक्षदैत्याद्यस्सकला देवयोनयःमनुष्याः पशवश्शैलास्समुद्रा स्सरितो द्रु माः ५७

58भूप भूतान्यशेषाणि भूतानां ये च हेतवःप्रधानादिविशेषांतं चेतनाचेतनात्मकम् ५८

59एकपादं द्विपादं च बहुपादमपादकम्मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ५९

60एतत्सर्वमिदं विश्वं जगदेतच्चराचरम्परब्रह्मस्वरूपस्य विष्णोश्शक्तिसमन्वितम् ६०

61विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपराअविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ६१

62यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृपसर्वगासंसारतापानखिलानवाप्नोत्यतिसंततान् ६२

63तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञितासर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ६३

64अप्राणवत्सुस्वल्पा सा स्थावरेषु ततोऽधिकासरीसृपेषु तेभ्योपि ह्यतिशक्त्या पतत्त्रिषु ६४

65पतत्त्रिभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवोऽधिकाःपशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ६५

66तेभ्योपि नागगंधर्वयक्षाद्या देवता नृप ६६

67शक्रस्समस्तदेवेभ्यस्ततश्चातिप्रजापतिःहिरण्यगर्भोऽपि ततः पुंसश्शक्त्युपलक्षितः ६७

68एतान्यशेषरूपाणि तस्य रूपाणि पार्थिवयतस्तच्छक्तियोगेन युक्तानि नभसा यथा ६८

69द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामतेअमूर्त्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ६९

70समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताःतद्विश्वरूप्यं रूपमन्यद्धरेर्महत् ७०

71समस्तशक्तिरूपाणि तत्करोति जनेश्वरदेवतिर्यङ्मनुष्यादिचेष्टावंति स्वलीलया ७१

72जगतामुपकाराय न सा कर्मनिमित्तजाचेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ७२

73तद्रूपं विश्वरूपस्य तस्य योगयुजा नृपचिंत्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ७३

74यथाग्निरुद्धतशिखः कक्षं दहति सानिलःतथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ७४

75तस्मात्समस्तशक्तीनामाधारे तत्र चेतसःकुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ७५

76शुभाश्रयस्य चित्तस्य सर्वगस्याचलात्मनःत्रिभावभावनातीतो मुक्तये योगिनो नृप ७६

77अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाःअशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ७७

78मूर्त्तं भगवतो रूपं सर्वापाश्रयनिस्पृहम्एषा वै धारण प्रोक्ता यच्चित्तं तत्र धार्यते ७८

79यच्च मूर्त्तं हरे रूपं यादृक् चिंत्यं नराधिपतच्छ्रूयतामनाधारा धारणा नोपपद्यते ७९

80प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम्सुकपोलं सुविस्तीर्णललाटफकोज्ज्वलम् ८०

81समकर्णांतविन्यस्तचारुकुंडलभूषणम्कंबुग्रीवं सुवीस्तीर्णश्रीवत्सांकितवक्षसम् ८१

82वलित्रिभंगिना मग्ननाभिना ह्युदरेण चप्रलंबाष्टभुजं विष्णुमथवापि चतुर्भुजम् ८२

83समस्थितोरुजंघं च सुस्थितांघ्रिवरांबुजम्चिंतयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ८३

84किरीटहारकेयूरकटकादिविभूषितम् ८४

85शार्ङ्गशंखगदाखड्गचक्राक्षवलयान्वितम्वरदाभयहस्तं च मुद्रि कारत्नभूषितम् ८५

86चिंतयेत्तन्मयो योगी समाधायात्ममानसम्तावद्यावद्दृढीभूता तत्रैव नृप धारणा ८६

87व्रजतस्तिष्ठतोन्यद्वा स्वेच्छया कर्म कुर्वतःनापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ८७

88ततः शंखगदाचक्रशार्ङ्गादिरहितं बुधःचिंतयेद्भगवद्रू पं प्रशांतं साक्षसूत्रकम् ८८

89सा यदा धारणा तद्वदवस्थानवती ततःकिरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ८९

90तदेकावयवं देवं चेतसा हि पुनर्बुधःकुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ९०

91तद्रूपप्रत्यया चैका संततिश्चान्यनिःस्पृहातद्ध्यानं प्रथमैरंगैः षड्भिर्निष्पाद्यते नृप ९१

92तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत्मनसा ध्याननिष्पाद्यं समाधिस्सोऽभिधीयते ९२

93विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिवप्रापणीयस्तथैवात्मा प्रक्षीणाश्षोभावनः ९३

94क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत्निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्त्तते ९४

95तद्भावभावमापन्नस्ततोऽसौ परमात्मनाभवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ९५

96विभेदजनके ज्ञाने नाशमात्यंतिकं गतेआत्मनो ब्रह्मणो भेदमसंतं कः करिष्यति ९६

97इत्युक्तस्ते मया योगः खांडिक्य परिपृच्छतःसंक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ९७

98खांडिक्य उवाचकथिते योगसद्भावे सर्वमेव कृतं ममतवोपदेश्नोआ!श्षोओ! नष्टश्चित्तमलो यतः ९८

99ममेति यन्मया चोक्तमसदेतन्न चान्यथानरेंद्र गदितुं शक्यमपि विज्ञेयवेदिभिः ९९

100अहं ममेत्यविद्येयं व्यवहारस्तथानयोःपरमार्थस्त्वसंलापो गोचरे वचसां न यः १००

101तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम्यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाऽव्ययः १०१

102श्रीपराशर उवाचयथार्हं पूजया तेन खांडिक्येन स पूजितःआजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः १०२

103खांडिक्योऽपि सुतं कृत्वा राजानं योगसिद्धयेवनं जगाम गोविंदे विनिवेशितमानसः १०३

104तत्रैकांतमतिर्भूत्वा यमादिगुणसंयुतःविष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् १०४

105केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखःबुभुजे विषयान्कर्म चक्रे चानभिसंहितम् १०५

106अकल्याणोपभोगैश्च क्षीणपापोऽमलस्तथाअवाप सिद्धिमत्यंतां तापक्षयफलां द्विज १०६

इति श्रीविष्णुमहापुराणे षष्ठांशो! सप्तमोऽध्यायः ७

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ६अध्यायः ८

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata