Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 6
  6. अध्यायः ६

विष्णुपुराणम् · Amsha 6

अध्यायः ६

संस्कृतEnglish
Ask AI

1श्रीपराशर उवाचस्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमःतत्प्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते १

2स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमावसेत्स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते २

3तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथा परम्न मां स चक्षुषा द्र ष्टुं ब्रह्मभूतस्स शक्यते ३

4मैत्रेय उवाचभगवंस्तमहं योगं ज्ञातुमिच्छामि तं वदज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम् ४

5श्रीपराशर उवाचयथा केशिध्वजः प्राह खांडिक्याय महात्मनेजनकाय पुरा योग तमहं कथयामि ते ५

6मैत्रेय उवाचखांडिक्यः कोऽभवद्ब्रह्मन्को वा केशिध्वजः कृतीकथं तयोश्च संवादो योगसंबंधकारणात् ६

7श्रीपराशर उवाचधर्मध्वजो वै जनकस्तस्य पुत्रोऽमितध्वजःकृतध्वजश्च नाम्नासीत्सदाध्यात्मरतिर्नृपः ७

8कृतध्वजस्य पुत्रोऽभूत्ख्यातः केशिध्वजो नृपःपुत्रोमितध्वजस्यापि खांडिक्यजनकोऽभवत् ८

9कर्ममार्गेण खांडिक्यः पृतिव्यामभवत्पतिःकेशिध्वजोऽप्यतीवासीदात्मविद्याविशारदः ९

10तावुभावपि चैवास्तां विजिगीषू परस्परम्केशिध्वजेन खांडिक्यस्स्वराज्यादवरोपितः १०

11पुरोधसा मंत्रिभिश्च समवेतोऽल्पसाधनःराज्यान्निराकृतस्सोऽथ दुर्गारण्यचरोऽभवत् ११

12इयाज सोऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रयःब्रह्मविद्यामधिष्ठाय तर्त्तुं मृत्युमविद्यया १२

13एकदा वर्त्तमानस्य यागे योगविदां वरघर्मधेनुं जघानोग्रश्शार्दूलो विजने वने १३

14ततो राजा हतां श्रुत्वा धनुं व्याघ्रेण चर्त्विजःप्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् १४

15तेप्यूचुर्न वयं विद्मः कश्रोउः! पृच्छतामितिकश्रोउ!रपि तेनोक्तस्तथैव प्राह भार्गवम् १५

16शुनकं पृच्छ राजैंद्र नाहं वेद्मि स वेत्स्यतिस गत्वा तमपृच्छच्च सोप्याह शृणु यन्मुने १६

17न केशरुर्न चैवाहं न चैकस्सांप्रतं भुविवेत्त्येक एव त्वच्छत्रुः खांडिक्यो यो जितस्त्वया १७

18स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुनेप्राप्त एव महायज्ञो यदि मां स हनिष्यति १८

19प्रायश्चित्तमश्षोए!ण स चेत्पृष्टो वदिष्यतिततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति १९

20श्रीपराशर उवाचइत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपःवनं जगाम यत्रास्ते स खांडिक्यो महामतिः २०

21तमापतंतमालोक्य खांडिक्यो रिपुमात्मनःप्रोवाच क्रोधताम्राक्षस्समारोपितकार्मुकः २१

22खांडिक्य उवाचकृष्णाजिनं त्वं कवचमाबध्यास्मान्हनिष्यसिकृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति २२

23मृगाणां वद पृष्ठेषु मूढ कृष्णाजिनं न किम्येषां मया त्वया चोग्राः प्रहिताश्शितसायकाः २३

24स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसेआतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः २४

25केशिध्वज उवाचखांडिक्य संशयं प्रष्टुं भवंतमहमागतःन त्वां हंतुं विचार्यैतत्कोपं बाणं विमुंच वा २५

26श्रीपराशर उवाचततस्स मंत्रिभिस्सार्द्धमेकांते सपुरोहितःमंत्रयामास खांडिक्यस्सर्वैरेव महामतिः २६

27तमूचुर्मंत्रिणो वध्यो रिपुरेष वशं गतःहतेऽस्मिन्पृथिवी सर्वा तव वश्या भविष्यति २७

28खांडिक्यश्चाह तान्सर्वानेवमेतन्न संशयःहतेस्मिन्पृथिवी सर्वा मम वश्या भविष्यति २८

29परलोकजयस्तस्य पृथिवी सकला ममन हन्मि चेल्लोकजयो मम तस्य वसुंधरा २९

30नाऽहं मन्ये लोकजयादधिका स्याद्वसुंधरापरलोकजयोऽनंतस्स्वल्पकालो महीजयः ३०

31तस्मान्नैनं हनिष्यामि यत्पृच्छति वदामि तत् ३१

32श्रीपराशर उवाचततस्तमभ्युपेत्याह खांडिक्यजनको रिपुम्प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छस्व वदाम्यहम् ३२

33श्रीपराशर उवाचततस्सर्वं यथावृत्तं घर्मधेनुवधं द्विजकथयित्वा स पप्रच्छ प्रायश्चित्तं हि तद्गतम् ३३

34स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत्प्रायश्चित्तमश्षोए!ण यद्वै तत्र विधीयते ३४

35विदितार्थस्स तेनैव ह्यनुज्ञातो महात्मनायागभूमिमुपागम्य चक्रे सर्वाः क्रियाः क्रमात् ३५

36क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतःकृतकृत्यस्ततो भूत्वा चिंतयामास पार्थिवः ३६

37पूजिताश्च द्विजास्सर्वे सदस्या मानिता मयातथैवार्थिजनोऽप्यर्थैर्योजितोऽभिमतैर्मया ३७

38यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम्अनिष्पन्नक्रियं चेतस्तथापि मम किं यथा ३८

39इत्थं संचिंतयन्नैव सस्मार स महीपतिःखांडिक्याय न दत्तेति मया वै गुरुदक्षिणा ३९

40स जगाम तदा भूयो रथमारुह्य पार्थिवःमैत्रेय दुर्गगहनं खांडिक्यो यत्र संस्थितः ४०

41खांडिक्योऽपि पुनर्दृष्ट्वा तमायांतं धृतायुधम्तस्थौ हंतुं कृतमतिस्तमाह स पुनर्नृपः ४१

42भो नाहं तेऽपराधाय प्राप्तः खांडिक्य मा क्रुधाःगुरोर्निक्रयदानाय मामवेहि त्वमागतम् ४२

43निष्पादितो मया यागः सम्यक्त्वदुपदेशतःसोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ४३

44श्रीपराशर उवाचभूयस्स मंत्रिभिस्सार्द्धं मंत्रयामास पार्थिवःगुरुनिष्क्रयकामोऽयं किं मया प्रार्थ्यतामिति ४४

45तमूचुर्मंत्रिणो राज्यमशेषं प्रार्थ्यतामयम्शत्रुभिः प्रार्थ्यते राज्यमनायासितसैनिकैः ४५

46प्रहस्य तानाह नृपस्स खांडिक्यो महामतिःस्वल्पकालं महीपाल्यं मादृशैः प्रार्थ्यते कथम् ४६

47एवमेतद्भवंतोऽत्र ह्यर्थसाधनमंत्रिणःपरमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ४७

48श्रीपराशर उवाचइत्युक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपःउवाच किमवश्यं त्वं ददासि गुरुदक्षिणाम् ४८

49बाढमित्येव तेनोक्तः खांडिक्यस्तमथाब्रवीत्भवानद्यात्मविज्ञानपरमार्थविचक्षणः ४९

50यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयःतत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ५०

इति श्रीविष्णुमहापुराणे षष्ठांशे षष्ठोऽध्यायः ६

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ५अध्यायः ७

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata