विष्णुपुराणम् · Amsha 6
अध्यायः ५
Ask AI1श्रीपराशर उवाचआध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः ।उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यंतिकं लयम् १
2आध्यात्मिकोपि द्विविधश्शरीरो मानसस्तथा ।शरीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः २
3शिरोरोगप्रतिश्यायज्वरशूलभगंदरैः ।गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ३
4तथाक्षिरोगातीसारकुष्ठांगामयसंज्ञितैः ।भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ४
5कामक्रोधभयद्वेषलोभमोहविषादजः ।शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ५
6मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा।इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ६
7मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।सरीसृपाद्यैश्च नृणां जायते चाधिभौतिकः ७
8शीतवा तोष्णवर्षांबुवैद्युतादिसमुद्भवः ।तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः ८
9गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ९
10सुकुमारतनुर्गर्भे जंतुर्बहुमलावृते ।उल्वसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः १०
11अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः ।अत्यंततापैरत्यर्थं वर्द्धमानातिवेदनः ११
12प्रसारणाकुंचनादौ नांगानां प्रभुरात्मनः ।शकृन्मूत्रमहापंकशायी सर्वत्र पीडितः १२
13निरुच्छ्वासः सचैतन्यस्स्मरञ्जन्मशतान्यथ ।आस्ते गर्भेऽतिदुःखेन निजकर्मनिबंधनः १३
14जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ।प्राजापत्येन वातेन पीड्यमानास्थिबंधनः १४
15अधोमुखो वै क्रियते प्रबलैस्सूतिमारुतैः ।क्लेशान्निष्क्रांतिमाप्नोति जठरान्मातुरातुरः १५
16मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।विज्ञानभ्रंशमाप्नोति जातश्च मुनिसत्तम १६
17कंटकैरिव तुन्नांगः क्रकचैरिव दारितः ।पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा १७
18कंडूयनेऽपि चाशक्तः परिवर्त्तेप्यनीश्वरः ।स्नानपानादिकाहारमप्याप्नोति परेच्छया १८
19अशुचिप्रस्तरे सुप्तः कीटदंशादिभिस्तथा ।भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे १९
20जन्मदुःखान्यनेकानि जन्मनोनंतराणि च ।बालभावे यदाप्नोति ह्याधिभौतादिकानि च २०
21अज्ञानतमसाच्छन्नो मूढांतःकरणो नरः ।न जानाति कुतः कोहं क्वाहं गंता किमात्मनः २१
22केन बंधेन बद्धोहं कारणं किमकारणम् ।किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते २२
23को धर्मः कश्च वाऽधर्मः कस्मिन्वर्त्तेऽथ वा कथम् ।किं कर्त्तव्यमकर्त्तव्यं किं वा किंगुणदोषवत् २३
24एवं पशुसमैर्मुढैरज्ञानप्रभवं महत् ।अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः २४
25अज्ञानं तामसो भावः कार्यारंभप्रवृत्तयः ।अज्ञानिनां प्रवर्त्तंते कर्मलोपास्ततो द्विज २५
26नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः ।तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् २६
27जराजर्जरदेहश्च शिथिलावयवः पुमान् ।विचलच्छीर्णदशनो वलिस्नायुशिरावृतः २७
28दूरप्रनष्टनयनो व्योमांतर्गततारकः ।नासाविवरनिर्यातलोमपुंजश्चलद्वपुः २८
29प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।उत्सन्नजठराग्नित्वादल्पाहारोऽल्पचेष्टितः २९
30कृच्छ्राच्चंक्रमणोत्थानशयनासनचेष्टितः ।मंदीभवच्छ्रोत्रनेत्रस्स्रवल्लालाविलाननः ३०
31अनायत्तैस्समस्तैश्च करणेर्मरणोन्मुखः ।तत्क्षणेप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम् ३१
32सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः ।श्वासकाशसमुद्भूतमहायासप्रजागरः ३२
33अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी ।भृत्यात्मपुत्रदाराणामवमानास्पदी कृतः ३३
34प्रक्षीणाखिलशौचश्च विहाराहारसस्पृहः ।हास्यः परिजनस्यापि निर्विण्णाश्षोबांधवः ३४
35अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् ।संस्मरन्यौवने दीर्घं निश्वसत्यभितापितः ३५
36एवमादीनि दुःखानि जरायामनुभूय वै ।मरणे यानि दुःखानि प्राप्नोति शृणुतान्यपि ३६
37श्लथद्ग्रीवांघ्रिहस्तोऽथ व्याप्तो वेपथुना भृशम् ।मुहुर्ग्लानिः परवशो मुहुर्ज्ञानलवान्वितः ३७
38हिरण्यधान्यतनय भार्याभृत्यगृहादिषु ।एते कथं भविष्यंतीत्यतीव ममताकुलः ३८
39मर्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः ।शरैरिवांतकस्योग्रैश्छिद्यमानासुबंधनः ३९
40परिवर्त्तितताराक्षो हस्तपादं मुहुः क्षिपन् ।संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ४०
41निरुद्धकंठो दोषौघैरुदानश्वासपीडितः ।तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा ४१
42क्लेशादुत्क्रांतिमाप्नोति यमकिंकरपीडितः ।ततश्च यातनादेहं क्लेश्नो प्रतिपद्यते ४२
43एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।शृणुष्व नरके यानि प्राप्यंते पुरुषैर्मृतैः ४३
44याम्यकिंकरपाशादिग्रहणं दंडताडनम् ।यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ४४
45करंभवालुकावह्नियंत्रशस्त्रासिभीषणे ।प्रत्येकं नरकेयाश्च यातना द्विज दुःसहाः ४५
46क्रकचैः पाट्यमानानां मूषायां चापि दह्यताम् ।कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ४६
47शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् ।गृध्रैस्संभक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ४७
48क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयंत्रकैः ४८
49नरके यानि दुःखानि पापहेतूद्भवानि वै ।प्राप्यंते नारकैर्विप्र तेषां संख्या न विद्यते ४९
50न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः ।स्वर्गेपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ५०
51पुनश्च गर्भे भवति जायते च पुनःपुनः ।गर्भे विलीयते भूयो जायमानोऽस्तमेति वै ५१
52जातमात्रश्च म्रियते बालभावेऽथ यौवने ।मध्यमं वा वयः प्राप्य वार्द्धके वाथ वा मृतिः ५२
53यावज्जीवति तावच्च दुःखैर्नानाविधैः प्लुतः ।तं तु कारणपक्ष्मौघैरास्ते कार्पासबीजवत् ५३
54द्र व्यनाशो! तथोत्पत्तौ पालने च सदा नृणाम् ।भवंत्यनेकदुःखानि तथैवेष्टविपत्तिषु ५४
55यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते ।तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ५५
56कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः ।क्रियते न तथा भूरि सुखं पुंसां यथा सुखम् ५६
57इति संसारदुःखार्कतापतापितचेतसाम् ।विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ५७
58तदस्य त्रिविधस्याऽपि दुःखजातस्य वै मम ।गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ५८
59निरस्तातिशयाह्लादसुखभावैकलक्षणा ।भेषजं भगवत्प्राप्तिरेकांतात्यंतिकी मता ५९
60तस्मात्तत्प्राप्तये यत्नः कर्त्तव्यः पंडितैर्नरैः ।तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ६०
61आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते ।शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ६१
62अंधं तम इवाज्ञानं दीपवच्चेंद्रियोद्भवम् ।यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ६२
63मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ।तदेतच्छ्रूयतामत्र संबंधे गदतो मम ६३
64द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ६४
65द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः ।परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ६५
66यत्तदव्यक्तमजरमचिंत्यमजमव्ययम् ।अनिर्द्देश्यमरूपं च पाणिपादाद्यसंयुतम् ६६
67विभु सर्वगतं नित्यं भूतयोनिरकारणम् ।व्याप्य प्याप्तं यतः सर्वं यद्वै पश्यंति सूरयः ६७
68तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकांक्षिभिः ।श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ६८
69तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।वाचको भगवच्छब्दस्तस्याद्यस्याक्षयात्मनः ६९
70एवं निगदितार्थस्य तत्तत्त्वं तस्य तत्त्वतः ।ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ७०
71अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज ।पूजायां भगवच्छब्दः क्रियते ह्युपचारतः ७१
72शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्दिते ।मैत्रेय भगवच्छब्दस्सर्वकारणकारणे ७२
73संभर्त्तेति तथा भर्त्ता भकारोर्थद्वयान्वितः ।नेता गमयता स्रष्टा गकारार्थस्तथा मुने ७३
74ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः ।ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ७४
75वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ।स च भूतेष्वश्षोए!षु वकारार्थस्ततोऽव्ययः ७५
76एवमेष महाञ्छब्दो मैत्रेय भगवानिति ।परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ७६
77तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।शब्दोयं नोपचारेण त्वन्यत्र ह्युपचारतः ७७
78उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ७८
79ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यश्षोतः ।भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ७९
80सर्वाणि तत्र भूतानि वसंति परमात्मनि ।भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ८०
81खांडिक्यजनकायाह पृष्टः केशिध्वजः पुरा ।नाभव्याख्यामनंतस्य वासुदेवस्य तत्त्वतः ८१
82भूतेषु वसते सॐऽतर्वसंत्यत्र च तानि यत् ।धाता विधाता जगतां वासुदेवस्ततः प्रभुः ८२
83स सर्वभूतप्रकृतिं विकारान्गुणादिदोषांश्च मुने व्यतीतः ।अतीतसर्वावरणोखिलात्मा तेनास्तृतं यद्भुवनांतराले ८३
84समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशावृतभूतवर्गः ।इच्छागृहीताभिमतोरुदेहस्संसाधिताश्षोजगद्धितो यः ८४
85तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः ।परः पराणां सकला न यत्र क्लेशादयस्संति परावरेशो! ८५
86स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः ह्प्रकटस्वरूपः ।सर्वेश्वरस्सर्वदृक् सर्वविच्च समस्तशक्तिः परमेश्वराख्यः ८६
87संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।संदृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोन्यदुक्तम् ८७
इति श्रीविष्णुमहापुराणे षष्ठांशो! पंचमोऽध्यायः ५
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.