विष्णुपुराणम् · Amsha 6
अध्यायः ८
Ask AI1श्रीपराशर उवाचइत्येष कथितस्सम्यक्तृतीयः प्रतिसंचरःआत्यंतिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते १
2सर्गश्च प्रतिसर्गश्च वंशमन्वंतराणि चवंशानुचरितं चैव भवतो गदितं मया २
3पुराणं वैष्णवं चैतत्सर्वकिल्बिषनाशनम्विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ३
4तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रूषवेऽव्ययम्यदन्यदपि वक्तव्यं तत्पृच्छाद्य वदामि ते ४
5मैत्रेय उवाचभगवन्कथितं सर्वं यत्पृष्टोसि मया मुनेश्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ५
6विच्छिन्नास्सर्वसंदेहा वैमल्यं मनसः कृतम्त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसंक्षयाः ६
7ज्ञातश्च त्रिविधो राशिश्शक्तिश्च त्रिविधा गुरोविज्ञाता सा च कार्त्स्न्येन त्रिविधा भावभावना ७
8त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्विजयदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ८
9कृतार्थोहमसंदेहस्त्वत्प्रसादान्महामुनेवर्णधर्मादयो धर्मा विदिता यदश्षोतः ९
10प्रवृत्तं च निवृत्तं च ज्ञानं कर्ममयाखिलम्प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे १०
11यदस्य कथनायासैर्योजितोऽसि मया गुरोतत्क्षम्यतां विश्षोओ!स्ति न सतां पुत्रशिष्ययोः ११
12श्रीपराशर उवाचएतत्ते यन्मयाख्यातं पुराणं वेदसंमतम्श्रुतेऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति १२
13सर्गश्च प्रतिसर्गश्च वंशमन्वंतराणि चवंशानुचरितं कृत्स्नं मयाऽत्र तव कीर्त्तितम् १३
14अत्र देवास्तथा दैत्या गंधर्वोरगराक्षसाःयक्षविद्याधरास्सिद्धाः कथ्यंतेऽप्सरसस्तथा १४
15मुनयो भावितात्मानः कथ्यंते तपसान्विताःचातुर्वण्यं तथा पुंसां विशिष्टचरितानि च १५
16पुण्याः प्रदेशा मेदिन्याः पुण्या नद्योऽथ सागराःपर्वताश्च महापुण्याश्चरितानि च धीमताम् १६
17वर्णधर्मादयो धर्मा वेदशास्त्राणि कृत्स्नशःयेषां संस्मरणात्सद्यस्सर्वपापैः प्रमुच्यते १७
18उत्पत्तिस्थितिनाशानां हेतुर्यो जगतोऽव्ययःस सर्वभूतस्सर्वात्मा कथ्यते भगवान्हरिः १८
19अवश्नोआ!पि यन्नाम्नि कीर्त्तिते सर्वपातकैःपुमान्विमुच्यते सद्यस्सिंहत्रस्तैर्मृगैरिव १९
20यन्नामकीर्त्तनं भक्त्या विलायनमनुत्तमम्मैत्रेयाशेषपापानां धातूनामिव पावकः २०
21कलिकल्मषमत्युग्रं नरकार्त्तिप्रदं नृणाम्प्रयाति विलयं सद्यस्सकृद्यत्र च संस्मृते २१
22हिरण्यगर्भदेवेंद्र रुद्रा दित्याश्विवायुभिःपावकैर्वसुभिस्साध्यैर्विश्वेदेवादिभिस्सुरैः २२
23यक्षरक्षोरगैस्सिद्धैर्दैत्यगंधर्वदानवैःअप्सरोभिस्तथा तारानक्षत्रैस्सकलैर्ग्रहैः २३
24सप्तर्षिभिस्तथा धिष्ण्यैर्धिष्ण्याधिपतिभिस्तथाब्रह्मणाद्यैर्मनुष्यैश्च तथैव पशुभिर्मृगैः २४
25सरीसृपैर्विहंगैश्च पलाशाद्यैर्महीरुहैःवनाग्निसागरसरित्पातालैस्ससुराग्निभिः २५
26शब्दादिभिश्च सहितं ब्रह्मांडमखिलं द्विजमेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम २६
27स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितःभगवान्कीर्त्तितो विष्णुरत्र पापप्रणाशनः २७
28यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम्मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम २८
29प्रयागे पुष्करे चैव कुरुक्षेत्रे तथाऽर्णवेकृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः २९
30यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवःमहापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ३०
31यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजलेमथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ३१
32तदाप्नोत्यखिलं सम्यगध्यायं यश्शृणोति वैपुराणस्यास्य विप्रर्षे केशवार्पितमानसः ३२
33यमुनासलिलस्नातः पुरुषो मुनिसत्तमज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ३३
34समभ्यर्च्याच्युतं सम्यङ् मथुरायां समाहितःअश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ३४
35आलोक्यर्द्धिमथान्येषामुन्नीतानां स्ववंशजैःएतत्किलोचुरप्येषां पितरः सपितामहाः ३५
36कच्चिदस्मत्कुले जातः कालिंदीसलिलाप्लुतःअर्चयिष्यति गोविंदं मथुरायामुपोषितः ३६
37ज्येष्ठामूले सिते पक्षे केनैवं वयमप्युतपरामृद्धिमवाप्स्यामस्तारितास्स्वकुलोद्भवैः ३७
38ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम्धन्यानां कुलजः पिंडान्यमुनायां प्रदास्यति ३८
39तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितःदत्त्वा पिंडं पितृभ्यश्च यमुनासलिलाप्लुतः ३९
40यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान्श्रुत्वाध्यायं तदाप्नोति पुराणस्यास्य शक्तितः ४०
41एतत्संसारभीरूणां परित्राणमनुत्तमम्श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ४१
42दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम्मंगलं मंगलानां च पुत्रसंपत्प्रदायकम् ४२
43इदमार्षं पुरा प्राह ऋभवे कमलोद्भवःऋभुः प्रियव्रतायाह स च भागुरयेऽब्रवीत् ४३
44भागुरिस्तंभमित्राय दधीचाय स चोक्तवान्सारस्वताय तेनोक्तं भृगुस्सारस्वतेन च ४४
45भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान्नर्मदा धृतराष्ट्राय नागायापूरणाय च ४५
46ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विजवासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ४६
47कंबलाय च तेनोक्तमेलापुत्राय तेन वै ४७
48पातालं समनुप्राप्तः ततो वेदशिरा मुनिःप्राप्तवानेतदखिलं स च प्रमतये ददौ ४८
49दत्तं प्रमतिना चैतज्जातुकर्णाय धीमतेजातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ४९
50पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम्मयापि तूभ्यं मैत्रेय यथावत्कथितं त्विदम् ५०
51त्वमप्येतच्छिनीकाय कलेरंते वदिष्यसि ५१
52इत्येतत्परमं गुह्यं कलिकल्मषनाशनम्यश्शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ५२
53समस्ततीर्थस्नानानि समस्तामरसंस्तुतिःकृता तेन भवेदेतद्यश्शृणोति दिनेदिते ५३
54कपिलादानजनितं पुण्यमत्यंतदुर्लभम्श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ५४
55यस्त्वेतत्सकलं शृणोति पुरुषः कृत्वा मनस्यच्युतं सर्वं सर्वमयं समस्तजगतामाधारमात्माश्रयम्ज्ञानज्ञेयमनादिमंतरहितं सर्वामराणां हितं स प्राप्नोति न संशयोस्त्यविकलं यद्वाजिमेधे फलम् ५५
56यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथांते च स ब्रह्मज्ञानमयोऽच्युतोऽखिलजगन्मध्यांतसर्गप्रभुः ।ततसर्वं पुरुषः पवित्रममलं शृण्वन्पठन्वाचयन्प्राप्नोत्यस्ति न तत्फलं त्रिभुवनेष्वेकांतसिद्धिर्हरिः ५६
57यस्मिन्न्यस्तमनिर्न याति नरकं स्वर्गोऽपि यच्चिंतने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः ।मुक्तिं चेतसि यस्स्थितो मलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्त्तिते ५७
58यज्ञैर्यज्ञविदो यजंति सततं यज्ञेश्वरं कर्मिणो यं वै ब्रह्ममयं परावरमयं ध्यायंति च ज्ञानिनः ।यं संचित्य न जायते न म्रियते नो वर्द्धते हीयते नैवासन्न च सद्भवत्यति ततः किं वा हरेश्श्रूयताम् ५८
59कव्यं यः पितृरूपधृग्विधिहुतं हव्यं च भुंक्ते विभुर्देवत्वे भगवाननादिनिधनस्स्वाहास्वधासंज्ञिते ।यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां विष्ठायै प्रभवंति हंति कलुषं श्रोत्रं स यातो हरिः ५९
60नांतोस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य ।नापक्षयं च समुपैत्यविकारि वस्तु यस्तं नतोस्मि पुरुषोत्तममीशमीड्यम् ६०
61तस्यैव योनु गुमभुग्बहुधैक एव शुद्धोप्यशुद्ध इव भाति हि मूर्त्तिभेदैः ।ज्ञानान्वितस्सकलसत्त्वविभूतिकर्त्ता तस्मै नमोस्तु पुरुषाय सदाव्ययाय ६१
62ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय ।अव्याकृताय भवभावनकारणाय वंदे स्वरूपभवनाय सदाऽजराय ६२
63व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय ।पुंसस्समस्तकरणैरुपकारकाय व्यक्ताय सूक्ष्मबृहदात्मवते नतोस्मि ६३
64इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य ।प्रदिशतु भगवानश्षोपुंसां हरिरपजन्मजरादिकां सिद्धिम् ६४
इति श्रीविष्णुमहापुराणे षष्ठांशो!ऽष्टमोऽध्यायः ८
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.