Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 4
  6. अध्यायः ९

विष्णुपुराणम् · Amsha 4

अध्यायः ९

संस्कृतEnglish
Ask AI

॥ अथ नवमोऽध्यायः ॥(रजेः क्षत्रवृद्धस्य च वंशकथनम्)श्रीपराशर उवाचरजेस्तु पञ्च पुत्रशतानि अतुलबलपराक्रमसाराणि आसन् ॥१॥

देवासुरसंग्रामारम्भे च परस्परवधेप्सवो देवाश्चासुराश्च ब्रह्माणमुपेत्य पप्रच्छुः ॥२॥

“भगवन् अस्माकमत्र विरोधे कतरः पक्षो जेता भविष्यति” इति ॥३॥

अथाह भगवान् ॥४॥

“येषामर्थे रजिरात्तायुधो योत्स्याति तत्पक्षो जेता” इति ॥५॥

अथ दैत्यैरुपेत्य रजिः आत्मसाहाय्यदानाय अभ्यर्थितः प्राह ॥६॥

“योत्स्येऽहं भवतामर्थे यद्यहममरजयाद्भवतामिन्द्रो भविष्यामि” इत्याकर्ण्यैतत् तैरभिहितम् ॥७॥

“न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामोऽस्माकमिन्द्रः प्रह्लादस्तदर्थमेवायमुद्यम” इत्युक्त्वा गतेष्वसुरेषु, देवैरपि असौ अवनीपतिः एवमेव उक्तः, तेनापि च तथैवोक्ते देवैः “इन्द्रस्त्वं भविष्यसि” इति समन्वीप्सितम् ॥८॥

रजिनापि देवसैन्यसहायेनानेकैर्महास्त्रैस्तदशेषमहासुरबलं निषूदितम् ॥९॥

अथ जितारातिपक्षश्च देवेन्द्रो रजिचरणयुगलमात्मनः शिरसा निपीड्याह ॥१०॥

“भयत्राणात् अन्नदानात् भवान् अस्मत्पिता अशेषलोकानामुत्तमोत्तमो भवान् यस्याहं पुत्रस्त्रिलोकेन्द्रः” ॥११॥

स चापि राजा प्रहस्याह ॥१२॥

“एवमस्त्वेवमस्तु, अनतिक्रमणीया हि वैरिपक्षादपि अनेकविधचाटुवाक्यगर्भा प्रणतिः” इत्युक्त्वा स्वपुरं जगाम ॥१३॥

शतक्रतुरपीन्द्रत्वं चकार ॥१४॥

स्वर्याते तु रजौ नारदर्षिचोदिता रजिपुत्राः शतक्रतुमात्मपितृपुत्रं समाचाराद्राज्यं याचितवन्तः ॥१५॥

अप्रदानेन च विजित्येन्द्रम् अतिबलिनः स्वयमिन्द्रत्वं चक्रुः ॥१६॥

ततश्च बहुतिथे काले ह्यतीते बृहस्पतिमेकान्ते दृष्ट्वा अपहृतत्रैलोक्ययज्ञभागः शतक्रतुरुवाच ॥१७॥

“बदरीफलमात्रमपि अर्हसि ममाप्यायनाय पुरोडाशखण्डं दातुम्” इत्युक्तो बृहस्पतिरुवाच ॥१८॥

“यद्येवं त्वयाहं पूर्वमेव चोदितः स्यां तन्मया त्वदर्थं किमकर्तव्यमिति अल्पैरेवाहोभिः त्वां निजं पदं प्रापयिष्यामि” इत्यभिधाय तेषामनुदिनाभिचारिकं बुद्धिमोहाय शक्रस्य तेजोऽभिवृद्धये जुहाव ॥१९॥

ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्विषो धर्मत्यागिनो वेदवादपराङ्मुखा बभूवुः ॥२०॥

ततस्तान् अपेतधर्माचारान् इन्द्रो जघान ॥२१॥

पुरोहिताप्यायिततेजाश्च शक्रो दिवमाक्रामत् ॥२२॥

एतदिन्द्रस्य स्वपदच्यवनारोहणं श्रुत्वा पुरुषः स्वपदभ्रशं दौरात्म्यं च नाप्नोति ॥२३॥

रम्भस्त्वनपत्योऽभवत् ॥२४॥

क्षत्रवृद्धसुतः प्रतिक्षत्रोऽभवत् ॥२५॥

तत्पुत्रः सञ्जयः, तस्यापि जयः, तस्यापि विजयः, तस्माच्च जज्ञे कृतः ॥२६॥

तस्य च हर्यधनो, हर्यधनसुतः सहदेवः, तस्माददीनः, तस्य जयसेनः, ततश्च संस्कृतिः, तत्पुत्रः क्षत्रधर्मा इत्येते क्षत्रवृद्धस्य वंश्याः ॥२७॥

ततो नहुषवंशं वक्ष्यामि ॥२८॥

॥ इति श्रीविष्णुमाहापुराणे चतुर्थांशे नवमोऽध्याय ॥

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ८अध्यायः १०

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata