विष्णुपुराणम् · Amsha 4
अध्यायः ८
Ask AI॥ अथ अष्टमोऽध्यायः ॥(काश्यवंशवर्णनम्)श्रीपराशर उवाचपुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे ॥१॥
तस्यां च पञ्च पुत्रान् उत्पादयामास ॥२॥
नहुष-क्षत्रवृद्ध-रम्भ-रजिसंज्ञाः तथैव अनेनाः पञ्चमः पुत्रोऽभूत् ॥३॥
क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत् ॥४॥
काश्य-काश-गृत्समदाः त्रयस्तस्य पुत्रा बभूवुः ॥५॥
गृत्समदस्य शौनकः चातुर्वर्ण्यप्रवर्तयिताऽभूत् ॥६॥
काश्यस्य काशेयः काशिराजः, तस्मात् राष्ट्रः, राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत् ॥७॥
धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत् ॥८॥
स हि संसिद्ध-कार्य-करणः सकलसम्भूतिषु अशेषज्ञानविद् भगवता नारायणेन च अतीतसम्भूतौ तस्मै वरो दत्तः ॥९॥
“काशीराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसि” इति ॥१०॥
तस्य च धन्वन्तरेः पुत्रः केतुमान्, केतुमतो भीमरथः, तस्यापि दिवोदासः, तस्यापि प्रतर्दनः ॥११॥
स च मद्रश्रेण्य-वंश-विनाशनात् अशेषशत्रवोऽनेन जिता इति शत्रुजिदभवत् ॥१२॥
तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत् ॥१३॥
सत्यपरतया ऋतध्वजसंज्ञामवाप ॥१४॥
ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः ॥१५॥
तस्य च वत्सस्य पुत्रोऽलर्कनामाभवत् यस्यायमद्यापि श्लोको गीयते ॥१६॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा ॥१७॥
तस्याप्यलर्कस्य सन्नतिनामाऽभवदात्मजः ॥१८॥
सन्नतेः सुनीथस्तस्यापि सुकेतुस्तस्माच्च धर्मकेतुर्जज्ञे ॥१९॥
ततश्च सत्यकेतुस्तस्माद्विभुस्तत्तनयस्सुविभुस्ततश्च सुकुमारस्तस्यापि दृष्टकेतुस्ततश्च वीतिहोत्रस्तस्माद्भार्गो भार्गस्य भार्गभूमिस्ततश्चातुर्वर्ण्यप्रवृत्तिरित्येते काश्यपभूभृतः कथिताः ॥२०॥
रजेस्तु सन्ततिः श्रूयताम् ॥२१॥
॥ इति श्रीविष्णुमाहापुराणे चतुर्थांशे अष्टमोऽध्यायः ॥
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.