Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 4
  6. अध्यायः ७

विष्णुपुराणम् · Amsha 4

अध्यायः ७

संस्कृतEnglish
Ask AI

॥ अथ सप्तमोऽध्यायः ॥(जह्नोः वंशकथनम्)श्रीपराशर उवाचतस्यापि आयुः धीमानम् अमावसुः विश्वावसुः श्रुतायुः शतायुः अयुतायुः इति संज्ञाः षट् पुत्रा अभवन् ॥१॥

तथा अमावसोः भीमनामा पुत्रोऽभवत् ॥२॥

भीमस्य काञ्चनः, काञ्चनात् सुहोत्रः तस्यापि जह्नुः ॥३॥

योऽसौ यज्ञवाटमखिलं गङ्गाम्भसाप्लावितम् आलोक्य, क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्य, अखिलामेव गङ्गामपिबत् ॥४॥

अथैनं देवर्षयः प्रसादयामासुः ॥५॥

दुहितृत्वे चास्य गङ्गाम् अनयन् ॥६॥

जह्नोश्च सुमन्तः नाम पुत्रोऽभवत् ॥७॥

तस्यापि अजकः, ततो बलाकाश्वः, तस्मात् कुशः, तस्यापि कुशाम्ब-कुशनाभा-अधूर्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥८॥

तेषां कुशाम्बः “शक्रतुल्यो मे पुत्रो भवेत्” इति तपश्चकार ॥९॥

तं च उग्रतपसम् अवलोक्य, “मा भवतु अन्योऽस्मत्तुल्यवीर्य” इति आत्मनैव अस्य इन्द्रः पुत्रत्वम् अगच्छत् ॥१०॥

स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥११॥

गाधिश्च सत्यवतीं कन्यामजनयत् ॥१२॥

तां च भार्गव ऋचीको वव्रे ॥१३॥

गाधिरपि अतिरोषणाय अतिवृद्धाय ब्राह्मणाय दातुम् अनिच्छन् एकतः श्यामकर्णानाम् इन्दुवर्चसाम् अनिलरंहसाम् अश्वानां सहस्रं कन्याशुल्कम् अयाचत ॥१४॥

तेनापि ऋषिणा वरुणसकाशात् उपलभ्य अश्वतीर्थोत्पन्नं तादृशाश्वसहस्रं दत्तम् ॥१५॥

ततः ताम् ऋचीकः कन्याम् उपयेमे ॥१६॥

ऋचीकश्च तस्याः चरुम् अपत्यार्थं चकार ॥१७॥

तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरुमपरं साधयामास ॥१८॥

“एष चरुः भवत्या, अयमपरः चरुः त्वन्मात्रा सम्यगुपयोज्य” इत्युक्त्वा वनं जगाम ॥१९॥

उपयोगकाले च तां माता सत्यवतीमाह ॥२०॥

“पुत्रि, सर्व एव आत्मपुत्रम् अतिगुणम् अभिलषति, न आत्म-जाया-भ्रातृ-गुणेषु अतीव आदृतो भवतीति ॥२१॥

अतोऽर्हसि ममात्मीयं चरुं दातुं मदीयं चरुम् आत्मना उपयोक्तुम् ॥२२॥

मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं, कियद्वा ब्राह्मणस्य बलवीर्यसम्पदा” इत्युक्ता सा स्वचरुं मात्रे दत्तवती ॥२३॥

अथ वनादागत्य सत्यवतीम् ऋषिरपश्यत् ॥२४॥

आह चैनाम् “अतिपापे, किमिदमकार्यं भवत्या कृतमतिरौद्रं ते वपुर्लक्ष्यते ॥२५॥

नूनं त्वया त्वन्मातृसात्कृतः चरुः उपयुक्तो न युक्तमेतत् ॥२६॥

मया हि तत्र चरौ सकलैश्वर्यवीर्यशौर्यबलसम्पद् आरोपिता त्वदीयचरौ अपि अखिलशान्तिज्ञानतितिक्षादिब्राह्मणगुणसम्पत् ॥२७॥

तच्च विपरीतं कुर्वत्याः तव अतिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति, तस्याश्च उपशमरुचिः ब्राह्मणाचार” इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥२८॥

प्रणिपत्य चैनमाह ॥२९॥

“भगवन् मया एतदज्ञानादनुष्ठितं, प्रसादं मे कुरु, मैवंविधः पुत्रो भवतु, काममेवंविधः पौत्रो भवतु” इत्युक्ते मुनिरप्याह ॥३०॥

“एवमस्तु” इति ॥३१॥

अनन्तरञ्च सा जमदग्निम् अजीजनत् ॥३२॥

तन्माता च विश्वामित्रं जनयामास ॥३३॥

सत्यवत्यपि कौशिकी नाम नदी अभवत् ॥३४॥

जमदग्निः इक्ष्वाकुवंशोद्भवस्य रेणोः तनयां रेणुकाम् उपयेमे ॥३५॥

तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतः सकललोकगुरोः नारायणस्यांशं जमदग्निः अजीजनत् ॥३६॥

विश्वामित्रपुत्रस्तु भार्गव एव शुनश्शेपो देवैर्दत्तः, ततश्च देवरातनामाभवत् ॥३७॥

ततश्च अन्ये मधुच्छन्दो धनञ्जयकृतदेवाष्टक-कच्छप-हारीतकाख्याः विश्वामित्रपुत्राः बभूवुः ॥३८॥

तेषां च बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यानि अभवन् ॥३९॥

॥ इति श्रीविष्णुमहापुराणे चतुर्थांशो सप्तमोऽध्यायः ॥

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ६अध्यायः ८

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata