विष्णुपुराणम् · Amsha 4
अध्यायः ६
Ask AI॥ अथ षष्ठोऽध्यायः ॥(सोमवंशवर्णनम्)मैत्रेय उवाचसूर्यस्य वंश्या भगवन् कथिता भवता मम ।सोमस्याप्यखिलान् वंश्याञ्छ्रोतुमिच्छामि पार्थिवान् ॥१॥
कीर्त्यते स्थिरकीर्तीनां येषामद्यापि सन्ततिः ।प्रसादसुमुखस्तान् मे ब्रह्मन्नाख्यातुमर्हसि ॥२॥
पराशर उवाचश्रूयतां मुनिशार्दूल वंशः प्रथिततेजसः ।सोमस्यानुक्रमात् ख्याता यत्रोर्वीपतयोऽभवन् ॥३॥
अयं हि वंशः अतिबल-पराक्रम-द्युति-शील-चेष्टावद्भिः अतिगुणान्वितैः नहुष-ययाति-कार्तवीर्यार्जुनादिभिः भूपालैः अलङ्कृतः तमहं कथयामि श्रूयताम् ॥४॥
अखिलजगत्स्रष्टुर्भगवतो नारायणस्य नाभिसरोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः ॥५॥
अत्रेः सोमः ॥६॥
तं च भगवान् अब्जयोनिः अशेषौषधीद्विजनक्षत्राणाम् आधिपत्ये अभ्यषेचयत् ॥७॥
स च राजसूयमकरोत् ॥८॥
तत्प्रभावात् अत्युत्कृष्टाधिपत्याधिष्ठातृत्वात् च एनं मद आविवेश ॥९॥
मदावलेपाच्च सकलदेवगुरोः बृस्पतेः तारां नाम पत्नीं जहार ॥१०॥
बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानः सकलैश्च देवर्षिभिः याच्यमानोऽपि न मुमोच ॥११॥
तस्य चन्द्रस्य च बृहस्पतेः द्वेषात् उशना पार्ष्णिग्राहः अभूत् ॥१२॥
अङ्गिरसश्च सकाशात् उपलब्धविद्यो भगवान् रुद्रो बृहस्पतेः सहाय्यमकरोत् ॥१३॥
यतश्चोशना ततो जम्भकुम्भाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः ॥१४॥
बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽभवत् ॥१५॥
एवं च तयोः अतीव उग्रसंग्रामः तारानिमित्तः तारकामयो नामाभूत् ॥१६॥
ततश्च समस्तशस्त्राणि असुरेषु रुद्रपुरोगमा देवा, देवेषु च अशेषदानवा मुमुचुः ॥१७॥
एवं देवासुराहवसंक्षोभक्षुब्धहृदयम् अशेषमेव जगत् ब्रह्माणं शरणं जगाम ॥१८॥
ततश्च भगवान् अब्जयोनिः अपि उशनसं शङ्करम् असुरान् देवांश्च निवार्य, बृहस्पतये ताराम् अदापयत् ॥१९॥
तां च अन्तःप्रसवाम् अवलोक्य बृहस्पतिरपि आह ॥२०॥
“नैष मम, क्षेत्रे भवत्या अन्यस्य सुतो धार्यः, समुत्सृज एनम्, अलमलम् अतिधार्ष्ट्येन” इति ॥२१॥
सा च तेन एवम् उक्ता अतिपतिव्रता भर्तृवचनानन्तरं तम् इषीकास्तम्बे गर्भम् उत्ससर्ज ॥२२॥
स च उत्सृष्टमात्र एव अतितेजसा देवानां तेजांसि आचिक्षेप ॥२३॥
बृहस्पतिम् इन्दुं च तस्य कुमारस्य अतिचारुतया साभिलाषौ दृष्ट्वा, देवाः समुत्पन्नसन्देहाः तारां पप्रच्छुः ॥२४॥
“सत्यं कथय अस्माकम् इति सुभगे सोमस्य, अथ वा बृहस्पतेः अयं पुत्र” इति ॥२५॥
एवं तैरुक्ता सा तारा ह्रिया किञ्चिन्नोवाच ॥२६॥
बहुशोऽप्यभिहिता यदासौ देवेभ्यो नाचचक्षे, ततः स कुमारः तां शप्तुम् उद्यतः प्राह ॥२७॥
“दुष्टेऽम्ब कस्मान्मम तातं नाख्यासि ॥२८॥
अद्यैव ते व्यलीकलज्जावत्याः तथा शास्तिम् अहं करोमि ॥२९॥
यथा च नैवम् अद्यापि अतिमन्थरवचना भविष्यसि” इति ॥३०॥
अथ भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत् तां ताराम् ॥३१॥
“कथय वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा” इत्युक्ता लज्जमानाह “सोमस्य” इति ॥३२॥
ततः प्रस्फुरद्-उच्छ्वासित-अमल-कपोल-कान्तिः भगवान् उडुपतिः कुमारमालिङ्ग्य “साधु साधु वत्स प्राज्ञोऽसि” इति ‘बुध’ इति तस्य च नाम चक्रे ॥३३॥
तदाख्यातमेवैतत्, स च यथा इलायाम् आत्मजं पुरूरवसम् उत्पादयामास ॥३४॥
पुरूरवास्तु अतिदानशीलोऽतियज्वा अतितेजस्वी । यं सत्यवादिनम् अतिरूपवन्तं मनस्विनं “मित्रावरुणशापात् मानुषे लोके मया वस्तव्यम्” इति कृतमतिः ऊर्वशी ददर्श ॥३५॥
दृष्टमात्रे च तस्मिन् अपहाय मानमशेषमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेव उपतस्थे ॥३६॥
सोऽपि च ताम् अतिशयित-सकल-लोक-स्त्री-कान्ति-सौकुमार्य-लावण्य-गति-विलास-हासादि-गुणाम् अवलोक्य तदायत्तचित्तवृत्तिः बभूव ॥३७॥
उभयमपि तन्मनस्कम् अनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनम् अभूत् ॥३८॥
राजा तु प्रागल्भ्यात् तामाह ॥३९॥
“सुभ्रु त्वामहमभिकामोऽस्मि, प्रसीद अनुरागमुद्वह” इत्युक्ता लज्जावखण्डितम् उर्वशी तं प्राह ॥४०॥
“भवत्वेवं यदि मे समयपरिपालनं भवान् करोति” इत्याख्याते पुनरपि तामाह ॥४१॥
“आख्याहि मे समयम्” इति ॥४२॥
अथ पृष्टा पुनरप्यब्रवीत् ॥४३॥
“शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् ॥४४॥
भवांश्च मया न नग्नो द्रष्टव्यः ॥४५॥
घृतमात्रं च ममाहार” इति ॥४६॥
“एवमेव” इति भूपतिरप्याह ॥४७॥
तया सह स चावनिपतिरलकायां चैत्ररथादिवनेषु अमलपद्मखण्डेषु मानसादिसरस्सु अतिरमणीयेषु रममाणः, षष्टिवर्षसहस्राणि अनुदिनप्रवर्धमानप्रमोदः अनयत् ॥४८॥
उर्वशी च तदुपभोगात् प्रतिदिनप्रवर्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार ॥४९॥
विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगन्धर्वाणां च नातिरमणीयोऽभवत् ॥५०॥
ततश्चोर्वशीपुरूरवसोः समयविद्विश्वावसुः गन्धर्वसमवेतो निशि शयनाभ्याशात् एकमुरणकं जहार ॥५१॥
तस्याकाशे नीयमानस्योर्वशी शब्दमशृणोत् ॥५२॥
एवमुवाच च “ममानाथायाः पुत्रः केनापह्रियते, कं शरणमुपयामि” इति ॥५३॥
तदाकर्ण्य राजा “मां नग्नं देवी वीक्ष्यति” इति न ययौ ॥५४॥
अथ अन्यमपि उरणकम् आदाय गन्धर्वा ययुः ॥५५॥
तस्यापि अपह्रियमाणस्य आकर्ण्य शब्दमाकाशे पुनरपि “अनाथास्मि अहम् अभर्तृका कापुरुषाश्रया” इत्यार्तराविणी बभूव ॥५६॥
राजापि अमर्षवशात् अन्धकारमेतदिति खड्गमादाय “दुष्ट दुष्ट हतोऽसि” इति व्याहरन् अभ्यधावत् ॥५७॥
तावच्च गन्धर्वैरपि अतीवोज्ज्वला विद्युज्जनिता ॥५८॥
तत्प्रभया चोर्वशी राजानम् अपगताम्बरं दृष्ट्वा अपवृत्तसमया तत्क्षणादेव अपक्रान्ता ॥५९॥
परित्यज्य तावप्युरणकौ गन्धर्वाः सुरलोकम् उपगताः ॥६०॥
राजापि च तौ मेषावादाय अतिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श ॥६१॥
तां चापश्यन् व्यपगताम्बर एव उन्मत्तरूपो बभ्राम ॥६२॥
कुरुक्षेत्रे च अम्भोजसरसि अन्याभिः चतसृभिः अप्सरोभिः समवेताम् उर्वशीं ददर्श ॥६३॥
ततश्च उन्मत्तरूपो “जाये हे तिष्ठ, मनसि घोरे तिष्ठ, वचसि कपटिके तिष्ठ” इत्येवम् अनेकप्रकारं सूक्तमवोचत् ॥६४॥
आह चोर्वशी ॥६५॥
“महाराज अलमनेन अविवेकचेष्टितेन ॥६६॥
अन्तर्वत्नी अहम् । अब्दान्ते भवतात्र आगन्तव्यम् । कुमारस्ते भविष्यति । एकां च निशामहं त्वया सह वत्स्यामि” इत्युक्तः प्रहृष्टः स्वपुरं जगाम ॥६७॥
तासां चाप्सरसाम् उर्वशी कथयामास ॥६८॥
“अयं स पुरुषोत्कृष्टो येन अहमेतावन्तं कालम् अनुरागाकृष्टमानसा सहोषिता” इति ॥६९॥
एवमुक्ताः ताः च अप्सरस ऊचुः ॥७०॥
“साधु साध्वस्य रूपम् । अप्यनेन सह अस्माकमपि सर्वकालमास्या भवेद्” इति ॥७१॥
अब्दे च पूर्णे स राजा तत्राजगाम ॥७२॥
कुमारं च आयुषम् अस्मै च उर्वशी ददौ ॥७३॥
दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा, पञ्च पुत्रोत्पत्तये गर्भम् अवाप ॥७४॥
उवाच एनं राजानम् “अस्मत्प्रीत्या महाराजाय सर्व एव गन्धर्वा वरदाः संवृत्ताः । व्रियतां च वर” इति ॥७५॥
आह च राजा ॥७६॥
“विजितसकलारातिः अविहतेन्द्रियसामर्थ्यो बन्धुमान् अमितबलकोशोऽस्मि, नान्यदस्माकम् उर्वशीसालोक्यात् प्राप्तव्यमस्ति, तदहमनया सहोर्वश्या कालं नेतुम् अभिलषामि” इत्युक्ते गन्धर्वा राज्ञेऽग्निस्थालीं ददुः ॥७७॥
ऊचुश्चैनम् “अग्निमाम्नायानुसारी भूत्वा, त्रिधा कृत्वा, उर्वशीसलोकतामनोरथम् उद्दिश्य सम्यग्यजेथाः । ततोऽवश्यम् अभिलषितम् अवाप्स्यति” इत्युक्तः तामग्निस्थालीम् आदाय जगाम ॥७८॥
अन्तरटव्याम् अचिन्तयत् “अहो मेऽतीव मूढता किमहम् अकरवम् ॥७९॥
वह्निस्थाली मयैषा आनीता न उर्वशी” इति ॥८०॥
अथ एनाम् अटव्यामेव अग्निस्थालीं तत्याज स्वपुरं च जगाम ॥८१॥
व्यतीतेऽर्धरात्रे विनिद्रश्च अचिन्तयत् ॥८२॥
“मम उर्वशीसालोक्यप्राप्त्यर्थम् अग्निस्थाली गन्धर्वैः दत्ता । सा च मया अटव्यां परित्यक्ता ॥८३॥
तदहं तत्र तदाहरणाय यास्यामि” इत्युत्थाय तत्राप्युपगतो न अग्निस्थालीम् अपश्यत् ॥८४॥
शमीगर्भं च अश्वत्थम् अग्निस्थालीस्थाने दृष्ट्वा अचिन्तयत् ॥८५॥
“मयात्र अग्निस्थाली निक्षिप्ता सा च अश्वत्थः शमीगर्भोऽभूत् ॥८६॥
तदेनमेव अहम् अग्निरूपमादाय, स्वपुरम् अभिगम्य, अरणीं कृत्वा, तदुत्पन्नाग्नेः उपास्तिं करिष्यामि” इति ॥८७॥
एवमेव स्वपुरमभिगम्य अरणिं चकार ॥८८॥
तत्प्रमाणं चाङ्गुलैः कुर्वन् गायत्रीमपठत् ॥८९॥
पठतश्च अक्षरसङ्ख्यानि एव अङ्गुलानि अरणी अभवत् ॥९०॥
तत्राग्निं निर्मथ्य, अग्नित्रयम् आम्नायानुसारी भूत्वा जुहाव ॥९१॥
उर्वशीसालोक्यं फलम् अभिसन्धितवान् ॥९२॥
तेनैव च अग्निविधिना बहुविधान् यज्ञान् इष्ट्वा, गान्धर्वलोकान् अवाप्य, उर्वश्या सह अवियोगम् अवाप ॥९३॥
एकोऽग्निः आदौ अभवत्, एकेन त्वत्र मन्वन्तरे त्रेधा प्रवर्तिताः ॥९४॥
॥ इति श्रीविष्णुमहापुराणे चतुर्थांशे षष्ठोऽध्यायः ॥
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.