विष्णुपुराणम् · Amsha 4
अध्यायः १०
Ask AI॥ अथ दशमोऽध्यायः ॥(नहुषवंशवर्णनम्, ययातेरुपाख्यानञ्च)श्रीपराशर उवाचयति-ययाति-संयाति-आयाति-वियाति-कृतिसंज्ञा नहुषस्य षट् पुत्रा महाबलपराक्रमा बभूवुः ॥१॥
यतिस्तु राज्यं नैच्छत् ॥२॥
ययातिस्तु भूभृदभवत् ॥३॥
उशनसश्च दुहितरं देवयानीं वार्षपर्वणीं च शर्मिष्ठामुपयेमे ॥४॥
अत्रानुवंशश्लोको भवति ॥५॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥६॥
काव्यशापाच्चाकालेनैव ययातिर्जरामवाप ॥७॥
प्रसन्नशुक्रवचनाच्च स्वजरां सङ्क्रामयितुं ज्येष्ठं पुत्रं यदुमुवाच ॥८॥
“वत्स त्वन्मातामहशापादियमकालेनैव जरा ममोपस्थिता तामहं तस्यैवानुग्रहाद्भवतः सञ्चारायामि ॥९॥
एकं वर्षसहस्रमतृप्तोऽस्मि विषयेषु त्वद्वयसा विषयानहं भोक्तुमिच्छामि ॥१०॥
नात्र भवता प्रत्याख्यानं कर्तव्यम्” इत्युक्तः स यदुर्नैच्छत्तां जरामादातुम् ॥११॥
तं च पिता शशाप “त्वत्प्रसूतिर्न राज्यार्हा भविष्यति” इति ॥१२॥
अनन्तरञ्च तुर्वसुं द्रुह्युमनुं च पृथिवीपतिर्जराग्रहणार्थं स्वयौवनप्रदानाय चाभ्यर्थयामास ॥१३॥
तैरप्येककैकेन प्रत्याख्यातस्ताञ्छशाप ॥१४॥
अथ शर्मिष्ठातनयमशेषकनीयांसं पूरुं तथैवाह ॥१५॥
स चातिप्रवणमतिः सबहुमानं पितरं प्रणम्य “महाप्रसादोऽयमस्माकम्” इत्युदारमभिधाय जरां जग्राह ॥१६॥
स्वकीयं च यौवनं स्वपित्रे ददौ ॥१७॥
सोऽपि पौरवं यौवनमासाद्य धर्माविरोधेन यथाकामं यथाकालोपपन्नं यथोत्साहं विषयांश्चचार ॥१८॥
सम्यक् च प्रजापालनमकरोत् ॥१९॥
विश्वाच्या देवयान्या च सहोपभोगं भुक्त्वा कामानामन्तं प्राप्स्यामीत्यनुदिनम् उन्मनस्को बभूव ॥२०॥
अनुदिनं चोपभोगतः कामानतिरम्यान् मेने ॥२१॥
न जातु कामः कामानामुपभोगेन शाम्यति ।हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥२३॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।एकस्यापि न पर्याप्तं तस्मात् तृष्णां परित्यजेत् ॥२४॥
यदा न कुरुते भावं सर्वभूतेषु पापकम् ।समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥२५॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।तां तृष्णां सन्त्यजेत् प्राज्ञः सुखेनैवाभिपूर्यते ॥२६॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।धनाशा जीविताशा च जीर्यतोऽपि न जीर्यतः ॥२७॥
पूर्णां वर्षसहस्रं मे विषयासक्तचेतसः ।तथाप्यनुदिनं तृष्णा मम तेषूपजायते ॥२८॥
तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् ।निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैस्सह ॥२९॥
श्रीपराशर उवाचपूरोस्सकाशादादाय जरां दत्त्वा च यौवनम् ।राज्येऽभिषिच्य पूरुञ्च प्रययौ तपसे वनम् ॥३०॥
दिशि दक्षिणपूर्वस्यां तुर्वसुं च समादिशत् ।प्रतीच्यां च तथा द्रुह्युं दक्षिणायां ततो यदुम् ॥३१॥
उदीच्याञ्च तथैवानुं कृत्वा मण्डलिनो नृपान् ।सर्वपृथ्वीपतिं पूरुं सोऽभिषिच्य वनं ययौ ॥३२॥
॥ इति श्रीविष्णुपुराणे चतुर्थेंशे दशमोऽध्यायः ॥१०॥
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.