विष्णुपुराणम् · Amsha 4
अध्यायः ११
Ask AI॥ अथैकादशोऽध्यायः ॥(यदुवंशस्य सहस्रहस्तार्जुन-चरित्रस्य वर्णनम्)श्रीपराशर उवाचअतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥१॥
यत्राशेषलोकनिवासो मनुष्य-सिद्ध-गन्धर्व-यक्ष-राक्षस-गुह्यक-किंपुरुषाप्सर-उरग-विहग-दैत्य-दानवादित्य-रुद्र-वस्वश्वि-मरुद्-देवर्षिभिः मुमुक्षुभिः धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदा अभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवान् अनादिनिधनो विष्णुरवततार ॥२॥
अत्र श्लोकः ॥३॥
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म निराकृति ॥४॥
सहस्रजित्-क्रोष्टु-नल-नहुष-संज्ञाश्चात्वारो यदुपुत्रा बभूवुः ॥५॥
सहस्रजित्पुत्रः शतजित् ॥६॥
तस्य हैहय-हेहय-वेणुहयाः त्रयः पुत्रा बभूवुः ॥७॥
हैहयपुत्रो धर्मः, तस्यापि धर्मनेत्रः, ततः कुन्तिः, कुन्तेः सहजित् ॥८॥
तत्तनयो महिष्मान् योऽसौ माहिष्मतीं पुरीं निवासयामास ॥९॥
तस्माद्भद्रश्रेण्यः, ततो दुर्दमः, तस्माद्धनको, धनकस्य कृतवीर्य-कृताग्नि-कृतधर्म-कृतौजसः चत्वारः पुत्रा बभूवुः ॥१०॥
कृतवीर्यादर्जुनः सप्तद्वीपाधिपतिः बाहुसहस्रो जज्ञे ॥११॥
योऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यम् आराध्य बाहुसहस्रम् अधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्च अनुपालनम् अरातिभ्योऽपराजयम् अखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान् वरान् अभिलषितवाँल्लेभे च ॥१२॥
तेनेयमशेषद्वीपवती पृथिवी सम्यक् परीपालिता ॥१३॥
दशयज्ञसहस्राणि असौ अयजत् ॥१४॥
तस्य च श्लोकोऽद्यापि गीयते ॥१५॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च ॥१६॥
अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥१७॥
एवं च पञ्चाशीतिवर्षसहस्राणि अव्याहतारोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥१८॥
माहिष्मत्यां दिग्विजयाभ्यागतो नर्मदाजलावगाहनक्रीडातिपानमदाकुलेन अयत्नेनैव तेन अशेषदेवदैत्यगन्धर्वेशजयोद्भूतमदावलेपोऽपि रावणः पशुरिव बद्ध्वा स्वनगरैकान्ते स्थापितः ॥१९॥
यश्च पञ्चाशीतिवर्षसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेण उपसंहृतः ॥२०॥
तस्य च पुत्रशतप्रधानाः पञ्च पुत्रा बभूवुः शूर-शूरसेन-वृषसेन-मधु-जयध्वजसंज्ञाः ॥२१॥
जयध्वजात् तालजङ्घः पुत्रोऽभवत् ॥२२॥
तालजङ्घस्य तालजङ्घाख्यं पुत्रशतम् आसीत् ॥२३॥
एषां ज्येष्ठो वीतिहोत्रस्तथान्यो भरतः ॥२४॥
भरतात् वृषः ॥२५॥
वृषस्य पुत्रो मधुरभवत् ॥२६॥
तस्यापि वृष्णिप्रमुखं पुत्रशतमासीत् ॥२७॥
यतो वृष्णिसंज्ञाम् एतद्गोत्रम् अवाप ॥२८॥
मधुसंज्ञाहेतुश्च मधुरभवत् ॥२९॥
यादवाश्च यदुनामोपलक्षणादिति ॥३०॥
॥ इति श्रीविष्णुपुराणे चतुर्थांशे एकादशोऽध्यायः ॥
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.