विष्णुपुराणम् · Amsha 4
अध्यायः १२
Ask AI॥ अथ द्वादशोऽध्यायः ॥(यदुपुत्रक्रोष्टृवंशकथनम्)श्रीपराशर उवाचक्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥१॥
ततश्च स्वातिः, ततो रुशङ्कू, रुशङ्कोश्चित्ररथः ॥२॥
तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशः चक्रवर्ती अभवत् ॥३॥
तस्य च शतसहस्रं पत्नीनामभवत् ॥४॥
दशलक्षसंख्याश्च पुत्राः ॥५॥
तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट् पुत्राः प्रधानाः ॥६॥
पृथुश्रवसश्च पुत्रः पृथुतमः ॥७॥
तस्मादुशना यो वाजिमेधानां शतमाजहार ॥८॥
तस्य च शितपुर्नाम पुत्रोऽभवत् ॥९॥
तस्यापि रुक्मकवचस्ततः परवृत् ॥१०॥
परावृतो रुक्मेषु-पृथु-ज्यामघ-वलित-हरित-संज्ञास्तस्य पञ्चात्मजा बभूवुः ॥११॥
तस्यायमद्यापि ज्यामघस्य श्लोको गीयते ॥१२॥
भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः ।तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ॥१३॥
अपुत्रा तस्य सा पत्नी शैव्या नाम तथाप्यसौ ।अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत ॥१४॥
स त्वेकदा प्रभूतरथतुरगगजसम्मर्दातिदारुणे महाहवे युद्ध्यमानः सकलमेव अरिचक्रमजयत् ॥१५॥
तच्च अरिचक्रम् अपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रति विद्रुतम् ॥१६॥
तस्मिंश्च विद्रुतेऽतित्रासलोलायतलोचनयुगलं “त्राहि त्राहि मां ताताम्ब भ्रतः” इत्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥१७॥
तद्दर्शनाच्च तस्यामनुरागानुगतान्तरात्मा स नृपोऽचिन्तयत् ॥१८॥
“साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिना अपत्यकारणं कन्यारत्नम् उपपादितम् ॥१९॥
तदेतत्समुद्वहामि” इति ॥२०॥
“अथवैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥२१॥
तयैव देव्या शैव्ययाहमनुज्ञातः समुद्वहामि” इति ॥२२॥
अथैनां रथमारोप्य स्वनगरमगच्छत् ॥२३॥
विजयिनं च राजानम् अशेषपौरभृत्यपरिजनामात्यसमेता शैव्या द्रष्टुम् अधिष्ठनद्वारमागता ॥२४॥
सा चावलोक्य राज्ञः सव्यपार्श्ववर्त्तिनीं कन्याम् ईषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥२५॥
“अतिचपलचित्तात्र स्यन्दने केयमारोपिता” इति ॥२६॥
असावपि अनालोचितोत्तरवचनः अतिभयात् तामाह “स्नुषा ममेयम्” इति ॥२७॥
अथैनं शैव्योवाच ॥२८॥
नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत् तव ।स्नुषासम्बन्धता ह्येषा कतमेन सुतेन ते ॥२९॥
श्रीपराशर उवाचइत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तपरिहारार्थम् इदमवनीपतिराह ॥३०॥
“यस्ते जनिष्यत आत्मजः तस्येयमनागतस्यैव भार्या निरूपिता” इत्याकर्ण्य उद्भूतमृदुहासा तथेत्याह ॥३१॥
प्रविवेश च राज्ञा सहाधिष्ठानम् ॥३२॥
अनन्तरं च अतिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मलाभगुणाद्वयसः परिणामम् उपगतापि शैव्या स्वल्पैरेवाहोभिः गर्भमवाप ॥३३॥
कालेन च कुमारमजीजनत् ॥३४॥
तस्य च विदर्भ इति पिता नाम चक्रे ॥३५॥
स च तां स्नुषामुपयेमे ॥३६॥
तस्यां चासौ क्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥३७॥
पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनत् यो नारदादवाप्तज्ञानवान् अभवत् ॥३८॥
रोमपादाद्बभ्रुः, बभ्रोर्धृतिः, धृतेः कैशिकः, कैशिकस्यापि चेदिः पुत्रोऽभवत् यस्य सन्ततौ चैद्या भूपालाः ॥३९॥
क्रथस्य स्नषापुत्रस्य कुन्तिरभवत् ॥४०॥
कुन्तेर्धृष्टिर्धृष्टेर्निधृतिर्निधृतेर्दशार्हस्ततश्च व्योमा, तस्यापि जीमूतस्ततश्च विकृतिस्ततश्च भीभरथः, तस्मान्नवरथस्तस्यापि दशरथस्ततश्च शकुनिः, तत्तनयः करम्भिः करम्भेर्देवरातोऽभवत् ॥४१॥
तस्माद्देवक्षत्रस्तस्यापि मधुर्मधोः कुमारवंशः कुमारवंशादनुरनोः पुरुमित्रः पृथिवीपतिरभवत् ॥४२॥
ततश्चांशुस्तस्माच्च सत्वतः ॥४३॥
सत्वतादेते सात्वताः ॥४४॥
इत्येतां ज्यामघस्य सन्ततिं सम्यक् श्रद्धासमन्वितः श्रुत्वा पुमान् मैत्रेय स्वपापैः प्रमुच्यते ॥४५॥
॥ इति श्रीविष्णुपुराणे चतुर्थेंऽशे द्वादशोऽध्यायः ॥
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.