Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 4
  6. अध्यायः १३

विष्णुपुराणम् · Amsha 4

अध्यायः १३

संस्कृतEnglish
Ask AI

1श्रीपराशर उवाच ।भजनभजमानदिव्यांधकदेवावृधमहाभोजवृष्णिसंज्ञास्सत्वतस्य पुत्रा बभूवुः १ ।

2भजमानस्य निमिकृकणवृष्णयस्तथान्ये द्वैमात्राः शतजित्सहस्रजिदयुतजित्संज्ञास्त्रयः २ ।

3देवावृधस्यापि बभ्रुः पुत्रोऽभवत् ३ ।

4तयोश्चायं श्लोको गीयते ४ ।

5यथैव शृणुमो दूरात्संपश्यामस्तथांतिकात् ।बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधस्समः ५ ।

6पुरुषाः षट् च षष्टिश्च सहस्राणि तथाऽष्ट ये ।तेऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ६ ।

7महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्तिकावरपुरनिवासिनो मार्त्तिकावरा बभूवुः ७ ।

8वृष्णे सुमित्रो युधाजिच्च पुत्रावभूताम् ८ ।

9ततश्चानमित्रः तथानमित्रान्निघ्नः ९ ।

10निघ्नस्य प्रसेन सत्राजितौ १० ।

11तस्य च सत्राजितो भगवानादित्यः सखाऽभवत् ११ ।

12एकदा त्वंभोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्थौ १२ ।

13ततस्त्वस्पष्टमूर्त्तिधरं चैनमालोक्य सत्राजित्सूर्यमाह १३ ।

14यथैव व्योम्नि वह्निपिंडोपमं त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किंचिन्न प्रसादीकृतं विश्षोमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकंठादुन्मुच्य स्यमंतकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम् १४ ।

15ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिंगलनयनमादित्यमद्रा क्षीत् १५ ।

16कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यस्सहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति १६ ।

17स च तदेव मणिरत्नमयाचत १७ ।

18स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्ण्यमारुरोह १८ ।

19सत्राजितोऽप्यमलमणिरत्नसनाथकंठतया सूर्य इव तेजोभिरश्षोदिगंतराण्युद्भासयन् द्वारकां विवेश १९ ।

20द्वारकावासी जनस्तु तमायांतमवेक्ष्य भगवंतमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांश्नो मानुषरूपधारिणं प्रणिपत्याह २० ।

21भगवन् भवंतं द्र ष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच २१ ।

22भगवान्नायमादित्यः सत्राजितोऽयमादित्यदत्तस्यमंतकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति २२ ।

23तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः २३ ।

24स च तं स्यमंतकमणिमात्मनिवेशने चक्रे २४ ।

25प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान्स्त्रवति २५ ।

26तत्प्रभावाच्च सकलस्यैव राष्ट्रस्योपसर्गानावृष्टिव्यालाग्नितो यद्दुर्भिक्षादिभयं न भवति २६ ।

28अच्युतोऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे २७ गोत्रभेदभयाच्छक्तोपि न जहार २८ ।

29सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्र त्नमदात् २९ ।

30तच्च शुचिना ध्रियमाणमश्षोमेव सुवर्णस्रवादिकं गुणजातमुत्पादयति अन्यथा धारयंतमेव हंतीत्यजानन्नसावपि प्रसेनस्तेन कंठसक्तेन स्यमंतकेनाश्वमारुह्याटव्यां मृगयामगच्छत् ३० ।

31तत्र च सिंहाद्वधमवाप ३१ ।

32साश्वं च तं निहत्य सिंहोप्यमलमणिरत्नमास्याग्रेणादाय गंतुमभ्युद्यतः ऋक्षाधिपतिना जांबवता दृष्टो घातितश्च ३२ ।

33जांबवानप्यमलमणिरत्नमादाय स्वबिलं प्रविवेश ३३ ।

34सुकुमारसंज्ञाय बालकाय च क्रीडनकमकरोत् ३४ ।

35अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तनान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्णाकर्ण्याऽकथयत् ३५ ।

36विदितलोकापवादवृत्तांतश्च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार ३६ ।

37ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम् ३७ ।

38अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धः सिंहपदमनुससार ३८ ।

39ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्च तद्र त्नगौरवादृक्षस्यापि पदान्यनुययौ ३९ ।

40गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश ४० ।

41अन्तः प्रविष्टश्च धात्र्! याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव ४१ ।

42अत्र श्लोकः।सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ।सुकुमारकमा रोदीस्तव ह्येष स्यमंतकः ४२ ।

43इत्याकर्ण्योपलब्धस्यमंतकॐतःप्रविष्टः कुमारक्रीडनकीकृतं च धात्र्! या हस्ते तेजोभिर्जाज्वल्यमानं स्यमंतकं ददर्श ४३ ।

44तं च स्यमंतकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार ४४ ।

45तदार्त्तरवश्रवणानंतरं चामर्षपूर्णहृदयः स जांबवानाजगाम ४५ ।

46तयोश्च परस्परमुद्धतामर्षयोर्युद्धमेकविंशतिदिनान्यभवत् ४६ ।

47ते च यदुसैनिकास्तत्र सप्ताष्टादिनानि तन्निष्क्रांतिमुदीक्षमाणास्तस्थुः ४७ ।

48अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिलेऽत्यंतं नाशमवाप्तो भविष्यत्यन्यथा तस्य जीवतः कथमेतावंति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः ४८ ।

49तद्बांधवाश्च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः ४९ ।

50ततश्चास्य युद्ध्यमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टिरभूत् ५० ।

51इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीडिताखिलावयवस्य निराहारतया बलहानिरभूत् ५१ ।

52निर्जितश्च भगवता जांबवान्प्रणिपत्य व्याजहार ५२ ।

53सुरासुरगंधर्वयक्षराक्षसादिभिरप्यखिलैर्भवान्न जेतुं शक्यः किमुतावनिगोचरैरल्पवीर्यैर्नरैर्नरावयवभूतैश्च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैरवश्यं भवताऽस्मत्स्वामिना रामेणेव नारायणस्य सकलजगत्परायणस्यांश्नो भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे ५३ ।

54प्रीत्यभिव्यंजितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ५४ ।

55स च प्रणिपत्य पुनरप्येनं प्रसाद्य जांबवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास ५५ ।

56स्यमंतकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ ५६ ।

57अच्युतोप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनाय जग्राह ५७ ।

58सह जांबवत्या स द्वारकामाजगाम ५८ ।

59भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णावलोकनात्तत्क्षणमेवातिपरिणतवयसोपि नवयौवनमिवाभवत् ५९ ।

60दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश्च सभाजयामासुः ६० ।

61भगवानपि यथानुभूतमश्षॐ यादवसमाजे यथावदाचचक्षे ६१ ।

62स्यमंतकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप ६२ ।

63जांबवतीं चांतःपुरे निवेशयामास ६३ ।

64सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसंत्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ ६४ ।

65तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः ६५ ।

66ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबंधं चक्रुः ६६ ।

67अक्रूरकृतवर्मप्रमुखाश्च शतधन्वानमूचुः ६७ ।

68अयमतीव दुरात्मा सत्राजितो योऽस्माभिर्भवता च प्रार्थितोऽप्यात्मजामस्मान् भवंतं चाविगणय्य कृष्णाय दत्तवान् ६८ ।

69तदलमनेन जीवता घातयित्वैनं तन्महारत्नं स्यमंतकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबंधं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह ६९ ।

70जतुगृहदग्धानां पांडुतनयानां विदितपरमार्थोऽपि भगवान् दुर्योधनप्रयत्नशैथिल्यकरणार्थं पार्थानुकूल्यकरणाय वारणावतं गतः ७० ।

71गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात् ७१ ।

72पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यंदनमारूढा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेत्यक्षांतिमता शतधन्वनाऽस्मत्पिता व्यापादितः तच्च स्यमंतकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति ७२ ।

73तदियं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह ७३ ।

74तया चैवमुक्तः परितुष्टांतः करणोऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह ७४ ।

75सत्ये सत्यं ममैवैषापहासना नाहमेतां तस्य दुरात्मनस्सहिष्ये ७५ ।

76न ह्यनुल्लंघ्य परपादपं तत्कृतनीडाश्रयिणो विहंगमा वध्यंते तदलममुनास्मत्पुरतः सौकप्रोरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्यैकांते बलदेवं वासुदेवः प्राह ७६ ।

77मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान ७७ ।

78सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः ७८ ।

79तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति ७९ ।

80तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विच्छितवान् ८० ।

81कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरणकर्मनिमित्तमचोदयत् ८१ ।

82आह चैनं कृतवर्मा ८२ ।

83नाऽहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत् ८३ ।

84असावप्याह ८४ ।

85न हि कश्चिद्भगवता पादप्रहारपरिकंपितजगत्त्रयेण सुररिषुवनितावैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदितनयनावलोकनाखिलनिशातनेनातिगुरुवैरिवारणापकर्षणा-विकृतमहिमोरुसीरेम सीरिणा च सह सकलजगद्वंद्यानाममरवराणामपि योद्धुं समर्थः ८५ ।

86किमुताहं तदन्यश्शरणमभिलष्यतामित्युक्तश्शतधनुराह ८६ ।

87यद्यस्मत्परित्राणासमर्थं भवानात्मानमधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्य रक्ष्यतामिति ८७ ।

88एकमुक्तः सोऽप्याह ८८ ।

89यद्यंत्ययामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति ८९ ।

90तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह ९० ।

91शतधनुरप्य तुलवेगां शतयोजनवाहिनीं वडवामारुह्यापक्रांतः ९१ ।

92शैव्यसुग्रीवमेघपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवौ तमनुप्रयातौ ९२ ।

93सा च वडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशो! प्राणानुत्ससर्ज ९३ ।

94शतधनुरपि तां परित्यज्य पदातिरेवाद्र वत् ९४ ।

95कृष्णोपि बलभद्र माह ९५ ।

96तावदत्र स्यंदने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्घातयामि अत्र हि भूभागे दृष्टदोषास्सभया अतो नैतेश्वा भवतेमं भूमिभागमुल्लंघनीयाः ९६ ।

97तथेत्युक्त्वा बलदेवो रथ एव तस्थौ ९७ ।

98कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषश्शिरश्चिच्छेद ९८ ।

99तच्छरीरांबरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमंतकमणिं नावाप पदा तदोपगम्य बलभद्र माह ९९ ।

100वृथैवास्माभिः शतधनुर्घातितः न प्राप्तमखिलजगत्सारभूतं तन्महारत्नं स्यमंतकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह १०० ।

101धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षांतं तदयं पंथास्स्वेच्छया गम्यतां न मे द्वारकया न त्वया न चाश्षोबंधुभिः कार्य्यमलमलमेभिर्ममाग्रतोऽलीकशपथैरित्याक्षिप्य तत्कथां कथंचित्प्रसाद्यमानोपि न तस्थौ १०१ ।

102स विदेहपुरीं प्रविवेश १०२ ।

103जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास १०३ ।

104स तत्रैव च तस्थौ १०४ ।

105वासुदेवोऽपि द्वारकामाजगाम १०५ ।

106यावच्च जनकराजगृहे बलभद्रो ऽवतस्थे तावद्धार्त्तराष्ट्रो दुर्योधनस्तत्सकाशाद्गदाशिक्षामशिक्षयत् १०६ ।

107वर्षत्रयांते च बभ्रूग्रसेनप्रभृतिभिर्यादवैर्न तद्र त्नं कृष्णेनाऽपहृतमिति कृतावगतिभिर्विदेहनगरीं गत्वा बलदेवस्संप्रत्याय्य द्वारकामानीतः १०७ ।

108अक्रूरोप्युत्तममणिसमुद्भूतसुवर्णेन भगवद्ध्यानपरोऽनवरतं यज्ञानियाज १०८ ।

109सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्महा भवतीत्येवंप्रकारं दीक्षाकवचं प्रविष्ट एव तस्थौ १०९ ।

110द्विषष्टिवर्षाण्येवं तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभूत् ११० ।

111अथाक्रूरपक्षीयैर्भोजैश्शत्रुघ्ने सात्वतस्य प्रपौत्रे व्यापादिते भोजैस्सहाक्रूरो द्वारकामपहायापक्रान्तः १११ ।

112तदपक्रांतिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्र वा बभूवुः ११२ ।

113अथ यादवा बलभद्रो ग्रसेनसमवेता मंत्रममंत्रयन् ११३ ।

114भगवानुरगारिकेतनः किमिदमेकदैव प्रचुरोपद्र वागमनमेतदालोच्यतामित्युक्तेंधकनामा यदुवृद्धः प्राह ११४ ।

115अस्याक्रूरस्य पितृश्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत् ११५ ।

116काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश्च तत्क्षणाद्देवो ववर्ष ११६ ।

117काशीराजपत्न्याश्च गर्भे कन्यारत्नं पूर्वमासीत् ११७ ।

118सा च कन्या पूर्णेपि प्रसूतिकाले नैव निश्चक्राम ११८ ।

119एवं च तस्य गर्भस्य द्वादशवर्षाण्यनिष्क्रामतो ययुः ११९ ।

120काशीराजश्च तामात्मजां गर्भस्थामाह १२० ।

121पुत्रि कस्मान्न जायसे निष्क्रम्य तामास्यं ते द्र ष्टुमिच्छामि एतां च मातरं किमिति चिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार १२१ ।

122तात यद्येकैकां गां दिनेदिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस्त्रिभिर्वर्षैरस्माद्गर्भात्ततोऽवश्यं निष्क्रमिष्यामीत्येद्वचनमाकर्ण्य राजा दिनेदिने ब्राह्मणाय गां प्रादात् १२२ ।

123सापि तावता कालेन जाता १२३ ।

124ततस्तस्याः पिता गांदिनीति नाम चकार १२४ ।

125तां च गांदिनीं कन्यां श्वफल्कायोपकारिणे गृहमागतायार्घ्यभूतां प्रादात् १२५ ।

126तस्यामयमक्रूरः श्वफल्काज्जज्ञे १२६ ।

127तस्यैवंगुणमिथुनादुत्पत्तिः १२७ ।

128तत्कथमस्मिन्नपक्रान्ते अत्र दुर्भिक्षमारिकाद्युपद्र वा न भविष्यंति १२८ ।

129तदयमत्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यांधकस्यैतद्वचनमाकर्ण्य केशवोग्रसेनबलभद्र पुरोगमैर्यदुभिः कृतापराधतितिक्षुभिरभयं दत्त्वा श्वफल्कपुत्रः स्वपुरमानीतः १२९ ।

130तत्र चागतमात्र एव तस्य स्यमंतकमणेः प्रभावादनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्र वोपशमा बभूवुः १३० ।

131कृष्णश्चिंतयामास १३१ ।

132स्वल्पमेतत्कारणं यदयं गांदिन्यां श्वफल्केनाक्रूरो जनितः १३२ ।

133सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्र वाप्रतिषेधकारी प्रभावः १३३ ।

134तन्नूनमस्य सकाशो! स महामणिः स्यमंतकाख्यस्तिष्ठति १३४ ।

135तस्य ह्येवंविधाः प्रभावाः श्रूयन्ते १३५ ।

136अयमपि च यज्ञादनंतरमन्यत्क्रत्वंतरं तस्यानंतरमन्यद्यज्ञांतरं चाजस्रमविच्छिन्नं यजतीति १३६ ।

137अनल्पोपादानं चास्यासंशयमत्राऽसौ मणिवरस्तिष्ठितीति कृताध्यवसायोऽन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत् १३७ ।

138तत्र चोपविष्टेष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसंगांतरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह १३८ ।

139दानपते जानीम एव वयं यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमंतकं रत्नं भवतः तदश्षोराष्ट्रोपकरकं भवत्सकाशो! तिष्ठति तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रो ऽस्मानाशंकितवांश्तदस्मत्प्रीतये दर्शयस्वेत्यभिधाय जोषं स्थिते भगवति वासुदेवे सरत्नस्सोचिंतयत् १३९ ।

140किमत्रानुष्ठेयमन्यथा चेद्ब्रवीम्यहं तत्केवलांबरतिरोधानमन्विष्यंतो रत्नमेते द्र क्ष्यंति अतिविरोधो न क्षम इति संचिंत्य तमखिलजगत्कारणभूतं नारायणमाहक्रूरः १४० ।

141भगवन्ममैतत्स्यमंतकरत्नं शतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावंतं कालमधारयम् १४१ ।

142तस्य च धारणश्क्लोए!नाहमश्षोओ!पभोगेष्वसंगिमानसो न वेद्मि स्वसुखकलामपि १४२ ।

143एतावन्मात्रमप्यश्षोराष्ट्रोपकारी धारयितुं न शक्नोति भवान्मन्यत इत्यात्मना न चोदितवान् १४३ ।

144तदिदं स्यमंतकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम् १४४ ।

145ततः स्वोदरवस्त्रनिगोपितमतिलघुकनकसमुद्गकगतं प्रकटीकृतवान् १४५ ।

146ततश्च निष्क्राम्य स्यमंतकमणिं तस्मिन्यदुकुलसमाजे मुमोच १४६ ।

147मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम् १४७ ।

148अथाहाक्रुरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति १४८ ।

149तमालोक्य सर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयंत १४९ ।

150तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यस्समन्विच्छित इति कृतस्पृहोऽभूत् १५० ।

151ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयांचकार १५१ ।

152बलसत्यावलोकनात्कृष्णोप्यात्मानं गोचक्रांतरावस्थितमिव मेने १५२ ।

153सकलयादवसमक्षं चाक्रूरमाह १५३ ।

154एतद्धि मणिरत्नमात्मसंशोधनाय एतेषां यदूनां मया दर्शितम् एतच्च मम बलभद्र स्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत् १५४ ।

155एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाणमश्षोराष्ट्रस्योपकारकमशुचिना ध्रियमाणमाधारमेव हंति १५५ ।

156अतोहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यभामा स्वीकरोति १५६ ।

157आर्यबलभद्रेणापि मदिरापानाद्यश्षोओ!पभोगपरित्यागः कार्यः १५७ ।

158तदलं यदुलोकोयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः १५८ ।

159तद्भवानेव धारयितुं समर्थः १५९ ।

160त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानश्षोराष्ट्रनिमित्तमेतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम् १६० ।

161ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यमानेनात्मकंठावसक्तेनादित्य इवांशुमाली चचार १६१ ।

162इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताखिलेंद्रि यश्चाखिलपापमोक्षमवाप्नोति १६२ ।

इति श्रीविष्णुमहापुराणे चतुर्थांशो! त्रयोदशोऽध्यायः १३।

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः १२अध्यायः १४

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata