विष्णुपुराणम् · Amsha 3
अध्यायः ५
Ask AIपराशर उवाच ।यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः ।वैशम्पायननामासौ व्यासशिष्यश्चकार वै ।। १ ।।
शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् ।याज्ञवल्क्यस्तु तत्राभूद् ब्रह्मरातसुतो द्रिजः ।। २ ।।
शिष्यः परधर्मज्ञो गुरुवृत्तिपरः सदा ।ऋषिर्योऽद्य महामेरौः समाजे नागमिष्यति ।। ३ ।।
तस्य वै सप्तरात्रात्तु ब्रह्महत्या भविष्यति ।पूर्वमेवं मुनिगणैः समयोऽभूत् कृतो द्रिज ।। ४ ।।
वैशम्पायन एकस्तु तं व्यतिक्रान्तवांस्तदा ।स्वस्त्रीयं बालकं रोऽथ पदास्पृष्टमघातयत् ।। ५ ।।
शिष्यानाह स भोः शिष्य! ब्रह्महत्यापहं ब्रतम् ।चरध्व मत्कृते सर्वे न विचार्यमिदं तथा ।। ६ ।।
अथाह याज्ञबल्क्यस्तु किमेभिर्भगवन् ! द्रिजैः ।क्लेशितैरल्पतेजोभिश्वरिष्येऽहमिदं व्रतम् ।। ७ ।।
ततः क्रु द्धो गुरुः प्राह याज्ञवल्क्यं महामतिः ।मुच्यतां यत् त्वयाधात मत्तो विप्रावमानक ।। ८ ।।
निस्तेजसो वदस्येनान् यस्त्वं ब्राह्मणपुङ्गवान् ।तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा ।। ९ ।।
याज्ञवल्क्यस्ततः प्राह भत्तयैतत्ते मयोदितम् ।ममाप्यलं त्वयाधीतं यन्मया तदिदं द्रिज ।। १० ।।
इत्युक्तो रुधिराक्तानि सरूपाणि यजू षि सः ।छर्दयित्वा ददौ तस्मै ययौ स स्वेच्छया मुनिः ।। ११ ।।
यजू ष्यथ विसृष्टानि याज्ञवल्क्येन वै द्रिज ।जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ।। १२ ।।
ब्रह्महत्याव्रतं चीर्णं गुरुणा चोदितैस्तु यैः ।चरकाध्वर्यवस्ते तु चरणान्मुनिसत्तम ।। १३ ।।
याज्ञवल्क्योऽपि मैत्रेय! प्रामायामपरायणः ।तुष्टाव प्रयतः सूर्यं यजूष्यबिलषंस्ततः ।। १४ ।।
नमः सवित्रे द्राराय विमुक्तेः सिततेजसे ।ऋगूयजुः सामभूताय त्रयीधामवते नमः ।। १५ ।।
नमोऽग्रीषोमभूताय जगतः कारणात्मने ।भास्कराय परं तेजः सौषुम्नमुरु बिभ्रते ।। १६ ।।
कलाकाष्ठानिमेषादिकालज्ञानात्मने नमः ।ध्येयाय विष्णुरूपाय परमाक्षररूपिणे ।। १७ ।।
बिभर्त्ति यः सुरगणानाप्याय्येन्दु खरश्मिभिः ।सुधामृतेन च पितॄ स्तस्मै तृप्तात्मने नमः ।। १८ ।।
हिमाम्बुघर्मवृष्टीनां कर्ता हर्ता च यः प्रभुः ।तस्मै त्रिकालरूपाय नमः सूर्य्याय वेधसे ।। १९ ।।
यो हन्ति तिमिराण्येको जगतोऽस्य जगर्त्पातः ।सत्त्वधामधरो देवो नमस्तस्मै विवस्वते ।। २० ।।
सत्कर्मयोग्यो न जनो नैवापः सौचकारणम् ।यस्मिन्ननुदिते तस्मै नमो देवाय वेधसे ।। २१ ।।
स्पृष्टो यदंशुबिर्लोकः क्रियायोग्योऽभिजायते ।पवित्रताकारणाय तस्मै शुद्धात्मने नमः ।। २२ ।।
नमः सवित्रे सूर्याय भास्कराय विवस्वते ।आदित्यायादिबूताय देवादीनां नमो नमः ।। २३ ।।
हिरण्मयं रथं यस्य केतवोऽमृतधायिनः ।वहन्ति बुवनालोकिचक्षुषं तं नमाम्यहम् ।। २४ ।।
इत्येवमादिभिस्तेन स्तूयमानः स्तवै रविः ।वाजिरूपधरः प्राह व्रियतामिति वाच्छितम् ।। २५ ।।
याज्ञवल्कयस्तदा प्राह प्रणिपत्य दिवाकरम् ।यजूषि तानि मे देहि यानि सन्ति न मे गुरौ ।। २६ ।।
एवमुक्तो ददौ तस्मै यजूषि भगवान् रविः ।अयातयामसंज्ञानि यानि वेत्ति न तदगुरुः ।। २७ ।।
यजूषि यैरधीतानि तानि विप्रैर्द्रिजोत्तम ।वाजिनस्ते समाख्याताः सूर्याश्वः सोऽभवद यतः ।। २८ ।।
शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् ।काण्वाद्यास्तु महाभाग! याज्ञवल्क्या-प्रवर्तिताः ।। २९ ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.