विष्णुपुराणम् · Amsha 3
अध्यायः ६
Ask AIसामवेदतरोः शाशा व्यासशिष्यः स जैमिनिः ।क्रमेण येन मैत्रेय! बिभेद श्वृणु तन्मम ।। १ ।।
सुमन्तुस्तस्य पुत्रोऽभूत् सुकर्मास्याप्यभूत् सुतः ।अधीतवन्तावेकैकां संहितां तौ महामुनी ।। २ ।।
साहस्त्रं संहिताभेदं सुकर्मा तत्सुतस्ततः ।चकार तञ्च तिच्छिष्यौ जगृहाते महामती ।। ३ ।।
हिरण्यनाभः कौशल्यः पौष्पिञ्जिश्व द्रिजोत्तम ।उदीच्यसामगाः शिष्यास्तेब्यः पञ्चदशा स्मृताः ।। ४ ।।
हिरणयनाभात् तावत्यः संहिता यैर्द्रिजोत्तमैः ।गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः ।। ५ ।।
लोकाक्षिः कुथमिश्चैव कुसीदिर्लाङ्गलिस्तथा ।पौष्पिञ्जिशिष्यास्तद्भदैः संहिता बहूलीकृताः ।। ६ ।।
हिरण्यनाभशिष्यश्च चतुर्विशंतिसंहिताः ।प्रोवाच कृतिनामासौ शिष्येभ्यः स महामतिः ।। ७ ।।
तैश्वापि सामवेदोऽसौ शाखाभिकर्बहुलीकृतः ।अथर्वणामथो वक्ष्ये संहितानां समुज्वयम् ।। ८ ।।
शिष्यमध्यापयामास कबन्धं सोऽपि तं द्रिधा ।कृता तु देवदर्शाय तथा पथ्याय दत्तवान् ।। ९ ।।
अथर्ववेदं स मुनिः सुमन्तुरमितद्युतिः ।देवदर्शस्य शिष्यास्तु मौदगो ब्रह्मबलिस्तथा ।शौक्यायनिः पिप्पलादस्तथान्यो मुनिसत्तमः ।। १० ।।
पथ्यस्यापि त्रयः शिष्याः कूता यैर्द्रिज! संहिताः ।तजाजालिः कुमुदादिश्व तृतीयः शौनको द्रिज ।। ११ ।।
शौनकस्तु द्रिधा कृत्वा ददावेकन्तु बभ्रवे ।द्रितीयां संहिता प्रादात् सौन्धवायनसंज्ञिने ।। १२ ।।
सैन्धवा मूञ्जिकेशाश्व द्रिधा भिन्नास्त्रिधा पुनः ।नक्षत्रकल्पो वेदानां संहितानां तथैव च ।। १३ ।।
चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्व पञ्चमःश्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ।। १४ ।।
आख्यानेश्चाप्युपाख्यानैर्गाथाभिः कल्पसिद्धिभिः ।पुराणसंहितां चक्र पुराणार्थविशारदः ।। १५ ।।
प्रख्यातो व्यासशिष्योऽभूत् सूतो वै रोमहर्षणः ।पुराणसंहितां तस्मै ददौ व्यासो महामुनिः ।। १६ ।।
सुमतिश्चाग्रिवर्जाश्च मित्रायुः शांशपायनः ।अकृतव्रणः सावर्णिः षट् शिष्यास्तस्य चाभवन् ।। १७ ।।
काश्यपः संहिताकर्ता सावर्णिः शाशपायनः ।रोमहर्षणिका चान्या तिसृणां मूलसंहिताः ।। १८ ।।
चतुष्टयेनाप्येतेन संहितानामिदं मुने ।आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते ।। १९ ।।
अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते ।ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतं तथा ।। २० ।।
अथान्यन्नारदीयञ्च मार्कण्डेयञ्च सप्तमम् ।आग्नेयमष्टमञ्चैव भविष्यं नवमं तथा ।। २१ ।।
दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं स्मृतम् ।वाराहं द्वादशञ्चैव स्कान्दञ्चात्र त्रयोदशम् ।। २२ ।।
चतुर्दशं वामनञ्च कौर्मं पञ्चदशं स्मृतम् ।मात्स्यञ्च गारुड़ञ्चैव ब्रह्माण्डञ्च ततः परम ।। २३ ।।
तथा चोपपुराणानि मुनिभिः कथितानि च ।महापुराणान्येतानि ह्मष्टादश महामुने ।। २४ ।।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।सर्वेष्वेतेषु कथ्यन्ते वंशामनुचरितञ्च यत् ।। २५ ।।
यदेतत् तव मैत्रेय! पुराणां कथ्यते मया।एतदू वैष्णवसंज्ञ वै पाह्मस्य समनन्तरम् ।। २६ ।।
सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु ।कथ्यते भगवान् विष्णुरशेषेष्वेव सत्तम ।। २७ ।।
अह्गानि चतुरो वेदा मीमांसा न्यायविस्तरः ।पुराणां धर्मशास्त्रञ्च विद्या ह्म ताश्चतुर्दश ।। २८ ।।
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः ।अर्थशास्त्र चतुर्थन्तु विद्या ह्मष्टादशैव ताः ।। २९ ।।
ज्ञेया ब्रह्मर्षयः पूर्व तेभ्यो देवर्षयः पुनः ।राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः ।। ३० ।।
इति शाखाः प्रसंख्याताः शाखाभदास्तथैव च ।कर्तारश्चैव शाखानां बेदहेतुस्तथोदितः ।। ३१ ।।
सर्वमन्वन्तरेष्वेव शाखाभेदाः समाः समृताः ।प्राजापत्या श्रुतिनित्या तद्रिकल्पास्त्विमे द्रिज ।। ३२ ।।
एतत् तवोदितं सर्वं यत् पृष्टोऽहमिह त्वया ।मैत्रेय! वेदसम्बद्ध किमन्यत् तथामि ते ।। ३३ ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.