विष्णुपुराणम् · Amsha 3
अध्यायः ४
Ask AIपराशर उवाच ।आद्यो वेदश्चतुष्पादः शतसाहस्त्रसम्मितः ।ततो दशगुणः कृत्स्नो यज्ञोऽयं सर्वसामधुक् ।। १ ।।
ततोऽत्र मत्सुतो व्यासो ह्मष्टाविंशतिमेऽन्तरे ।वदमेकं चतुष्पादं चतुर्धा व्यभजत् प्रबुः ।। २ ।।
यथा तु तेन वै व्यस्ता वेदव्यासेन धीमता ।वेदास्तथ समस्तैस्तेर्व्यस्ता व्यासैस्तथा मया ।। ३ ।।
तदनेनैव वेदानां शाखाभेदान् द्रिजोत्तम ।चतुर्युगेष्वारचितान् समस्तेष्वववधारय ।। ४ ।।
कृष्णदू पायनं व्यासं विद्धि नारायणं प्रबुम् ।कोऽन्यो हि भुवि मैत्रेय ! महाभारतकृदू भवेत् ।। ५ ।।
तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना ।द्रापरे ह्मत्र मैत्रेय! तस्मिन् श्वृणु यथार्थतः ।। ६ ।।
ब्रह्मणा चोदितो व्यासो वेदान् व्यस्तुं प्रचक्रमे ।अथ शिष्यान् स जग्राह चतुरो वेदपारगान् ।। ७ ।।
ऋगुवेदश्वावकं पैलं जग्राह स महामुनिः ।वैशम्पायननामानं यजूर्वेदस्य चाग्रहीत् ।। ८ ।।
जैमिनि सामवेदस्य तथैवाथर्ववेदवित् ।सुमन्तुस्तस्य शिष्योऽबूदू वेदव्यासस्य धीमतः ।। ९ ।।
रोमहर्षणनामानं महाबुद्धिं महामुनिः ।सूतं जग्राह शिष्यं स इतिहास-पुराणयोः ।सूतं जग्राह शिष्यं स इतिहास-पुराणयोः ।। १० ।।
एक आसीदू यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।चातुर्होत्रमभूदू यस्मिस्तन यज्ञमथाकरोत् ।। ११ ।।
आध्वर्यवं यजुभिंस्तु ऋगूभिर्होत्रं तथा मुनिः ।औदूगात्रं सामभिश्चक्र ब्रह्मत्वं चाप्यथर्वभिः ।। १२ ।।
ततः स ऋचमुद्ध त्य ऋग्वेदं तृतवान् मुनिः ।यजूषि च यजुर्वेदं सामवेदञ्च सामभिः ।। १३ ।।
राज्ञस्त्वथर्ववेदेन सर्वकर्माणि च प्रभुः ।कारयामास मैत्रेय! ब्रह्मत्वञ्च यथास्थिति ।। १४ ।।
सोऽयमेको महावेदस्तरुस्तेन पृथकूकृतः ।चतुधा तु ततो जातं वेदपादपकाननम् ।। १५ ।।
बिभेद प्रथमं विप्र! पैल ऋगूवेदपादपम् ।इन्द्रप्रमितये प्रादाद बास्कलाय चसंहिते ।। १६ ।।
चतुर्धा स बिभेदाथ बास्कलिद्रिज!संहिताम् ।बौध्यादिब्यो ददौ तास्तु शिष्येभ्यः स महामुनिः ।। १७ ।।
बौध्याग्रिमाठरौ तदूदू याज्ञवल्क्यपराशरौ ।प्रतिशाखास्तु शाखायास्तसायास्त जगृहुमुने ।। १८ ।।
इन्द्रप्रमतिरेकान्तु संहितां स्वसुतं ततः ।माण्डूकयं महात्मानं मैत्रयाध्यापयत् तदा ।। १९ ।।
तस्य शिष्यप्रशिष्येभ्यःसंहितां तामधीतवान ।। २० ।।
चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः ।तस्य शिष्यास्तु ये पञ्च तेषां नामानि मे श्वृणा ।। २१ ।।
मुदूगलो गोमुखश्चैव वात्स्यः शालीय एब च।शिशिरः पञ्चमश्चासीन्मत्रेय! सुमहामुनिः ।। २२ ।।
संहितात्रितयं चक्र शाकपूर्णिरथतरम ।निरुक्तमकरोत् तदूज्वतुर्थं मुनिसत्तम ।। २३ ।।
क्रौञ्चो वैतालिकस्तदूदू बलाकश्व महामतिः ।निरुक्तकृज्वतुर्थोऽभूदू वेदवेदाङ्गपारगः ।। २४ ।।
इत्येताः प्रतिशाखाभ्योऽप्यनुशाखा द्रिजोत्तम !बास्कलिश्चापरास्तिस्त्रः संहिताः कृतवान द्रिज ।। २५ ।।
शिष्यः कालायनिर्गार्ग्यस्तृतीयश्च कथाजवः ।इत्येत बहुधा प्रोक्ताः संहिता यैः प्रवर्तिताः ।। २६ ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.