विष्णुपुराणम् · Amsha 3
अध्यायः ३
Ask AI1मैत्रेय उवाच।ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् ।विष्णुर्विष्णौ विष्णुतश्च न परं विद्यते ततः १ ।
2एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना ।वेदव्यासस्वरूपेण यथा तेन युगेयुगे २ ।
3यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने ।तंतमाचक्ष्व भगवञ्छाखाभेदांश्च मे वद ३ ।
4श्रीपराशर उवाच ।वेदद्रु मस्य मैत्रेय शाखाभेदास्सहस्रशः ।न शक्तो विस्तराद्वक्तुं संक्षेपेण शृणुष्व तम् ४ ।
5द्वापरेद्वापरे विष्णुर्व्यासरूपी महामुने ।वेदमेकं सुबहुधा कुरुते जगतो हितः ५ ।
6वीर्यं तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च ।हिताय सर्वभूतानां वेदभेदान्करोति सः ६ ।
7ययासौ कुरुते तन्वा वेदमेकं पृथक्प्रभुः ।वेदव्यासाभिधाना तु सा च मूर्तिर्मधुद्विषः ७ ।
8यस्मिन्मन्वंतरे व्यासा येये स्युस्तान्निबोध मे ।यथा च भेदश्शाखानां व्यासेन क्रियते मुने ८ ।
9अष्टविंशतिकृत्वो वै वेदो व्यस्तो सहर्षिभिः ।वैवस्वतेंतरे तस्मिन्द्वापरेषु पुनःपुनः ९ ।
10वेदव्यासा व्यतीता ये ह्यष्टाविंशति सत्तम ।चतुर्धा यैः कृतो वेदो द्वापरेषु पुनःपुनः १० ।
11द्वापरे प्रथमे व्यस्तस्स्वयं वेदः स्वयंभुवा ।द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ११ ।
12तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः ।सविता पंचमे व्यासः षष्ठे मृत्युस्समृतः प्रभुः १२ ।
13सप्तमे च तथैवेंद्रो वसिष्ठश्चाष्टमे स्मृतः ।सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः १३ ।
14एकादशो तु त्रिशिखो भरद्वाजस्ततः परः ।त्रयोदशो चांतरिक्षो वर्णी चापि चतुर्दशो १४ ।
15त्रय्यारुणः पंचदशो षोडशो तु धनंजयः ।क्रतुंजयः सप्तदशो तदूर्ध्वं च जयस्स्मृतः १५ ।
16ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः ।गौतमादुत्तरो व्यासो हर्य्यात्मा योभिधीयते १६ ।
17अथ हर्य्यात्मनॐते च स्मृतो वाजश्रवा मुनिः ।सोमशुष्कायणस्तस्मात्तृणबिंदुरिति स्मृतः १७ ।
18ऋक्षोभूद्भार्गवस्तस्माद्वाल्मीकिर्योभिधीयते ।तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने १८ ।
19जातुकर्णोभवन्मत्तः कृष्णद्वैपायनस्ततः ।अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः १९ ।
20एको वेदश्चतुर्द्धा तु तैः कृतो द्वापरादिषु २० ।
21भविष्ये द्वापरे चापि द्रौ णिर्व्यासो भविष्यति ।व्यतीते मम पुत्रेस्मिन् कृष्णद्वैपायने मुने २१ ।
22ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् ।बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्येत्यभिधीयते २२ ।
23प्रणवावस्थितं नित्यं भूर्भुवस्स्वरितीर्य्यते ।ऋग्यजुस्सामाथर्वाणो यत्तस्मै ब्रह्मणे नमः २३ ।
24जगतः प्रलयोत्पत्त्योर्यत्तत्कारणसंज्ञितम् ।महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः २४ ।
25अगाधापारमक्षय्यं जगत्संमोहनालयम् ।स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् २५ ।
26संख्यज्ञानवतां निष्ठा गतिश्शमदमात्मनाम् ।यत्तदव्यक्तममृतं प्रवृत्तिर्ब्रह्म शाश्वतम् २६ ।
27प्रधानमात्मयोनिश्च गुहासंस्थं च शब्द्यते ।अविभागं तथा शुक्रमक्षयं बहुधात्मकम् २७ ।
28परमब्रह्मणे तस्मै नित्यमेव नमोनमः ।यद्रू पं वासुदेवस्य परमात्मस्वरूपिणः २८ ।
29एतद्ब्रह्म त्रिधा भेदमभेदमपि स प्रभुः ।सर्वभेदेष्वभेदोसौ भिद्यते भिन्नबुद्धिभिः २९ ।
30स ऋङ्मयस्साममयः सर्वात्मा स यजुर्मयः ।ऋग्यजुस्सामसारात्मा स एवात्मा शरीरिणाम् ३० ।
31स भिद्यते वेदमयस्स्ववेदं करोति भेदैर्बहुभिस्सशाखम् ।शाखाप्रणेता स समस्तशाखाज्ञानस्वरूपो भगवानसंगः ३१ ।
इति श्रीविष्णुमहापुराणे तृतीयांशो! तृतीयोऽध्यायः ३।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.