Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 3
  6. अध्यायः १७

विष्णुपुराणम् · Amsha 3

अध्यायः १७

संस्कृतEnglish
Ask AI

पराशार उवाच ।इत्याह भगवानौर्वः सगराय महात्मने ।सदाचारीन् पुरा सम्याङ् मैत्रेय! परिपृच्छते ।। १ ।।

मयाप्येतदशेषेणा कथितं भवते द्रिज ।समुल्लङू ध्य सदाचारं कश्विन्नाप्रोति शोभनम् ।। २ ।।

मैत्रेय उवाच ।षणढापबिद्धप्रमुखा विदिता भगवन । मया ।उदक्याद्याश्व ये सर्वे नग्रामिच्छामि वेदितु म् ।। ३ ।।

को नग्रः किं समाचारो नग्रसंज्ञां नरो लभेत् ।नग्रस्वरूपमिच्छामि यथावद् गदितं त्वया ।(श्रोतु धर्मभृता श्रेष्ठ! न ह्मस्त्यविदितं तव) ।। ४ ।।

पराशर उवाच ।ऋगूयजुः सामरांज्ञयं त्रयो वर्णावृतिर्द्रिज ।एतामुज्झति यो मोहात् स नग्रः पातकी स्मृतः ।। ५ ।।

त्रयी समस्तवर्णानां द्रिज !संवरणं यतः ।नग्रो भवत्युज्झितायामतस्तस्यां न संशयः ।। ६ ।।

इदञ्च श्रूयतामन्यद भीष्माय सुमहात्मने ।कथयामास धर्मज्ञो वसिष्ठोऽस्मत्पितामहः ।। ७ ।।

मयापि तस्य गदतः श्रुतमेतमन्हात्मनः ।नग्रसम्बन्धि मैत्रेय ! यत् पृष्टोऽहमिह त्वया ।। ८ ।।

देवासुरमभूदू युद्ध दिव्यमव्दं पुरा द्रिज ।तस्मिन् पराजिता देवा दैत्यैर्ह्रादपुरोगमैः ।। ९ ।।

क्षीरोदस्योत्तरं कूलं गत्वातप्यन्त वै तपः ।विष्णोराराधनार्थाय जगुश्चैमं स्तवं तदा ।। १० ।।

आरधनाय लोकानां विष्णोरीशस्य यां गिरम् ।वक्ष्यामो भगवानद्यस्तया विष्णुः प्रसीदतु ।। ११ ।।

यतो भूतान्यशेषाणि प्रसूतानि महात्मनः ।यस्मिश्व लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः ।। १२ ।।

तथाप्यारतिविद्वसध्वस्तवीर्या भवार्थिनः ।त्वां स्तोष्यामस्तवोक्तीनां याथार्थ्यनैव गोचरे ।। १३ ।।

त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च ।समस्तमन्तः करणं प्रधानं तत्परः पुमान् ।। १४ ।।

एकं तवैतदू भूतात्मन् ! मूर्त्तामूर्त्तमयं वपुः ।।आब्रह्मस्तम्बपर्यन्तं स्थानकालविभेदवत् ।। १५ ।।

तत्रेश!तव यत्पूर्वं त्वन्नाभिकमलोद्भवम् ।रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः ।। १६ ।।

शक्रार्क-रुद्र-वस्वशिव-मरुत्सोमादिभेदवत् ।वयमेयत् स्वरूपं यत् तस्मै देवात्मने नमः ।। १७ ।।

दम्भप्रायमसम्बोधि तितिक्षा-दमवर्जितम् ।यद्रूपं तव गोविन्द ! तस्मै दैत्यात्मने नमः ।। १८ ।।

नातिज्ञानवहा यस्मिन् नाडयः स्तिमिततेजसि ।शब्दादिलोभि यत्तस्मै तुब्यं यक्षात्मने नमः ।। १९ ।।

क्रौर्यमायामयं घोरं यच्च रूपं तवासितम् ।निशाचरात्मने तस्मै नमस्ते पूरुषोत्तम ।। २० ।।

स्वर्गस्थर्धामसद्धर्म-फलोपकरणां तव ।धर्माख्यञ्च तथा रूपं नमस्तस्मै जनार्दन ।। २१ ।।

हर्षप्रायमसंसर्गिगतिमद् गमनादिषु ।सिद्धाख्यं तव यद्रूपं तस्मै सिद्धात्मने नमः ।। २२ ।।

अतितिक्षाधनं क्रू रमुपभोगमयं हरे ।द्रिजिह्व तव यद्रपूं तस्मै नागात्मने नमः ।। २३ ।।

अवबोधि च यच्छान्तमदोषमपकल्मषम् ।ऋषिरूपात्मने तस्मै विष्णो रूपाय!ते नमः ।। २४ ।।

भक्षयत्यथ कल्पान्ते भूतानि यदावरितम् ।त्वद्रूपं पुण्डरीकाक्ष!तस्मै कालात्मने नमः ।। २५ ।।

सम्भक्ष्य सर्वभूतानि देवादीन्यविशेषतः ।नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः ।। २६ ।।

प्रवृत्त्या रजसो यच्च कर्मणां कारकात्मकम् ।जनार्दन! नमस्तसमै त्वद्रूपाय नरात्मने ।। २७ ।।

अष्टाविंशदूवधोपेतं यद्रूपं तामसं तवा ।उन्मार्गगामि सर्वात्मन् तस्मै ! पश्वात्मने नमः ।। २८ ।।

यज्ञाङ्गबूतं यद्रूपं जगतः सिद्धिसाधनम् ।वृक्षातिदूभेदि तस्मै मुख्यात्मने नमः ।। २९ ।।

तिर्यङू मानुषदेवादि व्योमशब्दादिकञ्च यत् ।रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः ।। ३० ।।

प्रधानबुद्धयादिमयादशेषादू यदन्यदस्मात् परमं परात्मन् ।रूपं तवाद्यं न यदन्यतुल्यं तस्मै नमः कारणकारणाय ।। ३१ ।।

शुक्लादिदीर्घादिघनादिहीन मगोचरे यच्च विशेषणानाम् ।सुद्धातिसुद्ध परमर्षिदृश्यं रूपाय तस्मै भगवन् । नताः स्मः ।। ३२ ।।

यन्नः शरीरेषु यदन्यदेहे ष्वशेषजन्तुष्वजमव्ययं यत् ।यस्माच्च नान्यदूव्यतिरिक्तमस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै ।। ३३ ।।

सकलमिदमजस्य यस्य रूपं परमपदात्मवतः सनातनस्य ।तमनिधनमशेषबीजभूतं प्रभुममलं प्रणताः स्म वासुदेवम् ।। ३४ ।।

स्तात्रस्यास्यावसाने तदे ददृशुः परमेश्वरम् ।शङ्खचक्रगदापाणिं गरुडस्थं सुरा हरिम् ।। ३५ ।।

तमूचुः सकला देवाः प्रणिपातपुरः सरम् ।प्रसीद देव!दैत्येभ्यस्त्राहीति शरणार्थिनः ।। ३६ ।।

त्रैलोक्यं यज्ञाभागश्व दैत्यैर्ह्रादपुरोगमैः ।ह्टतं नो ब्रह्मणोऽप्याज्ञामुल्लङ्घय परमेश्वर ।। ३७ ।।

यद्यप्यशेषभूतस्य वयं ते च तवांशकाः ।तथाप्यविद्याभेदेन भिन्नं पश्यामहे जगत् ।। ३८ ।।

स्ववर्णधर्माभिरता वेदमार्गानुसारिणः ।न शक्यास्तेऽरयो हन्तुमस्माभिस्तपसान्विताः ।। ३९ ।।

तमुपायममेयात्मन्नस्माकं दातुमर्हसि ।येन तानसुरान हन्तु भवेम भगवन् ! क्षमाः ।। ४० ।।

इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः ।तमुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान् ।। ४१ ।।

मायामोहोऽयमखिलान् दैत्यांस्तान्मोहयिष्यति ।ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ।। ४२ ।।

स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः ।ब्रह्मणो येऽधिकारस्य देवदैत्यादिकाः सुराः ।। ४३ ।।

तदूगच्छत न भीः कीर्या मायामोहोऽयमग्रतः ।गच्छत्वद्योपकाराय भवता भवतां सुराः ।। ४४ ।।

इत्युक्ताः प्रणिपत्यैनं ययुर्देवा यथागतम् ।मायामोहोऽपि तैः सार्द्धं ययौ यत्र महासुराः ।। ४५ ।।

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः १६अध्यायः १८

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata