Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 3
  6. अध्यायः १८

विष्णुपुराणम् · Amsha 3

अध्यायः १८

संस्कृतEnglish
Ask AI

श्रीपराशर उवाच ।तपस्यभिरतान् सोऽथ मायामोहो महासुरान् ।मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रितान् ॥१॥

ततो दिगम्बरो मुण्डो बर्हिपिच्छधरो द्विज ।मायामोहोऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत् ॥२॥

हे दैत्यपतयो ब्रूत यदर्थं तप्यते तपः ।ऐहिकं वाथ पारत्र्यं तपसः फलमिच्छथ ॥३॥

असुरा ऊचुःपारत्र्यफललाभाय तपश्वर्या महामते ।अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥४॥

मायामोह उवाचकुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ ।अर्हध्वमेनं धर्मञ्च मुक्तिद्वारमसंवृतम् ॥५॥

धर्मो विमुक्तेरर्होऽयं नैतस्मादपरो वरः ।अत्रैव संस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥६॥

अर्हध्वं धर्ममेतञ्च सर्वे यूयं महाबलाः ॥७॥

श्रीपराशर उवाचएवं प्रकारैर्बहुभिर्युक्तिदर्शनचर्चितैः ।मायामोहन ते दैत्या वेदमार्गादपाकृताः ॥८॥

धर्मायैतदधर्माय सदेतन्न सदित्यपि ।विमुक्तये त्विदं नैतद् विमुक्तिं सम्प्रयच्छति ॥९॥

परमार्थोऽयमत्यर्थं परमार्थो न चाप्ययम् ।कार्यमेतदकार्यञ्च नैतदेवं स्पुटं त्विदम् ॥१०॥

दिग्वाससामयं धर्मो धर्मोऽयं बहुवाससाम् ॥११॥

इत्यनैकान्तवादञ्च मायामोहेन नैकधा ।तेन दर्शयता दैत्याः स्वधर्मं त्याजिता द्विज ॥१२॥

अर्हतैतं महाधर्मं मायामोहेन ते यतः ।प्रोक्तास्तमाश्रिता धर्ममार्हतास्तेन तेऽभवन् ॥१३॥

त्रयीधर्मसमुत्सर्गं मायामोहेन तेऽसुराः ।कारितास्तन्मया ह्मासंस्ततोऽन्ये तत्प्रचोदिताः ॥१४॥

तैरप्यन्ये परे तैश्च तैरप्यन्ये परे च तैः ।अल्पैरहोभिः सन्तयक्ता तैर्दैत्यैः प्रायशस्त्रयी ॥१५॥

पुनश्च रक्ताम्बरधृङ् मायामोहो जितेन्द्रियः ।अन्यानाहासुरान् गत्वा मृद्वल्पमधुराक्षरम् ॥१६॥

स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थमथासुराः ।तदलं पशुघातादिदुष्टधर्मैर्निबोधत ॥१७॥

विज्ञानमयमेवैतदशेषमवगच्छत ।बुध्यध्वं मे वचः सम्यग् बुधैरेवमिहोदितम् ॥१८॥

जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् ।रागादिदुष्टमत्यर्थं भ्राम्यते भवसङ्कटे ॥१९॥

एवं बुध्यत बुध्यध्वं बुध्यतैवमितीरयन् ।मायामोहः स दैतेयान् धर्ममत्याजयन्निजम् ॥२०॥

नानाप्रकारवचनं स तेषां युक्तियोजितम् ।तथा तथा च त्रयीधर्मं तत्यजुस्ते यथा यथा ॥२१॥

तेऽप्यन्येषां तथैवोचुरन्यैरन्ये तथोदिताः ।मैभेय तत्यजुर्धर्मं वेदस्मृत्युदितं परम् ॥२२॥

अन्यानप्यन्यपाषण्डप्रकारैर्बहुभिर्द्विज ।दैतेयान् मोहयामास मायामोहोऽतिमोहकृत् ॥२३॥

स्वल्पेनैव हि कालेन मायामोहेन तेऽसुराः ।मोहितास्तत्यजुः सर्वां त्रयीमार्गाश्रितां कथाम् ॥२४॥

केचिद्विनिन्दां वेदानां देवानामपरे द्विज ।यज्ञकर्मकलापस्य तथान्ये च द्विजन्मनाम् ॥२५॥

नैतद्युक्तिसहं वाक्यं हिंसा धर्माय नेष्यते ।हवींष्यनलदग्धानि फलायेत्यर्भकोदितम ॥२६॥

यज्ञैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते ।शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक् पशु ॥२७॥

निहतस्य पशोर्यज्ञे स्वर्गप्रात्पिर्यदीष्यते ।स्वपिता यजमानेन किन्नु तस्मान्न हन्यते ॥२८॥

तृत्पये जायते पुंसो भुक्तमन्येन चेत्ततः ।कुर्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥२९॥

जनश्रद्धेयमित्येतदवगम्य ततोऽत्र वः ।उपेक्षा श्रेयसे वाक्यं रोचतां यन्मयेरितम् ॥३०॥

न ह्माप्तवादा नभसो निपतन्ति महासुराः ।युक्तिमद् वचनं ग्राह्यं मयान्यैश्च भवद्विधैः ॥३१॥

मायामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा ।व्युत्थापिता यथा नैषां त्रयीं कश्विदरोचयत् ॥३२॥

इत्थमुन्मार्गयातेषु तेषु दैत्येषु तेऽमराः ।उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः ॥३३॥

ततो देवासुरं युद्धं पुनरेवाभवद् द्विज ।हताश्च तेऽसुरा देवैः सन्मार्गपरिपन्थिनः ॥३४॥

स्वधर्मकवचं तेषामभूदू यत्प्रथमं द्विज ।तेन रक्षाभवत् पूर्वं नेशुर्नष्टे च तत्र ते ॥३५॥

ततो मैत्रेय तन्मार्गवर्त्तिनो येऽभवञ्जनाः ।नग्नास्ते तैर्यतस्त्यक्तं त्रयीसंवरणां वृथा ॥३६॥

ब्रह्मचारी गृहस्थश्च वानप्रस्थस्तथाश्रमी ।परिव्राड् वा चतुर्थोऽत्र पञ्चमो नोपपद्यते ॥३७॥

यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते ।परिव्राट् चापि मैत्रेय स नग्नः पापकृन्नरः ॥३८॥

नित्यानां कर्मणां विप्र तस्य हानिरहर्निशम् ।अकुर्वन् विहितं कर्म शक्तः पतति तद्दिने ॥३९॥

प्रायश्वित्तेन महता शुद्धिमाप्रोत्यनापदि ।पक्षं नित्यक्रियाहानेः कर्त्ता मैत्रेय मानवः ॥४०॥

संवत्सरं क्रियाहानिर्यस्य पुंसोऽभिजायते ।तस्यावलोकनात् सूर्यो निरीक्ष्यः साधुभिः सदा ॥४१॥

स्पृष्टे स्त्रानं सचैलस्य शुद्धेर्हेतुर्महामते ।पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ॥४२॥

देवर्षिपितृभूतानि यस्य निः श्वस्य वेश्मनि ।प्रयान्त्यनर्चितान्यत्र लोके तस्मान्न पापकृत् ॥४३॥

सम्भाषणानुप्रश्नादि सहास्यां चैव कुर्वतः ।जायते तुल्यता तस्य तेनैव द्विज वत्सरात् ॥४४॥

देवादिनिः श्वासहतं शरीरं यस्य वेश्म च ।न तेन सङ्करं कुर्याद् गृहासनपरिच्छदैः ॥४५॥

अथ भुङ्क्ते गृहे तस्य करोत्यास्मां तथासने ।शेते चाप्येकशयने स सद्यस्तत्समो भवेत् ॥४६॥

देवतापितृभूतानि तथानभ्यर्च्य योऽतिथीन् ।भुङ्क्ते स पातकं भुङ्क्ते निष्कृतिस्तस्य नेष्यते ॥४७॥

ब्राह्मणाद्यास्तु ये वर्णाः स्वधर्मादन्यतोमुखाः ।यान्ति ते नग्नसंज्ञां तु हीनकर्मस्ववस्थिताः ॥४८॥

चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसङ्करः ।तत्रास्या साधुवृत्तीनामुपघाताय जायते ॥४९॥

अनभ्यर्च्य ऋषीन् देवान् पितॄन् भूतातिथींस्तथा ।यो भुङ्क्ते तस्य सँल्लापात् पतन्ति नरके नराः ॥५०॥

तस्मादेतान्नरो नग्नांस्त्रयीसन्त्यागदूषितान् ।सर्वदा वर्जयेत् प्राज्ञ आलापस्पर्शनादिषु ॥५१॥

श्रद्धावद्भिः कृतं यत्नाद्देवान् पितृपितामहान् ।न प्रीणयति तच्छ्राद्धं यद्योभिरवलोकितम् ॥५२॥

श्रूयते च पुरा ख्यातो राजा शतधनुर्भुवि ।पत्नी च शैव्या तस्याभूदतिधर्मपरायणा ॥५३॥

पतिव्रता महाभागा सत्यशौचदयान्विता ।सर्वलक्षणसम्पन्ना विनयेन नयेन च ॥५४॥

स तु राजा तया सार्द्धं देवदेवं जनार्दनम् ।आराधयामास विभुं परमेण समाधिना ॥५५॥

होमैर्जपैस्तथा दानैरुपवासैश्च भक्तितः ।पूजाभिश्चानुदिवसं तन्मना नान्यमानसः ॥५६॥

एकदा तु समं स्नातौ तौ तु भार्यापती जले ।भगीरथ्याः समुत्तीर्णौ कार्त्तिक्यां समुपोषितौ ।पाषण्डिनमपश्येतामायान्तं सम्मुखं द्विज ॥५७॥

चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः ।अतस्तद्गौरवात्तेन सखाभावमथाकरोत् ॥५८॥

न तु सा वाग्यता देवी तस्य पत्नी पतिव्रता ।उपोषितास्मीति रविं तस्मिन् दृष्टे ददर्श च ॥५९॥

समागम्य यथान्यायं दम्पती तौ यथाविधि ।विष्णोः पूजादिकं सर्वं कृतवन्तौ द्विजोत्तम ॥६०॥

कालेन गच्छता राजा ममारासौ सपत्नजित् ।अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम् ॥६१॥

स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः ।उपोषितेन पाषण्जसंल्लापी यत्कृतोऽभवत् ॥६२॥

सा तु जातिस्मरा जज्ञे काशीराजसुता शुभा ।सर्वविज्ञानमम्पूर्णा सर्वलक्षणपूजिता ॥६३॥

तां पिता दातुकामोऽभूद् वराय विनिवारितः ।तयैव तन्व्या विरतो विवाहारम्भतो नृपः ॥६४॥

ततः सा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम् ।विदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम् ॥६५॥

तं दृष्ट्वैव महाभागं श्वभूतं तु पतिं तथा ।ददौ तस्मै वराहारं सत्कारप्रवणं शुभा ॥६६॥

भुञ्जन् दत्तं तया सोऽन्नमतिमृष्टमभीप्सितम् ।स्वजातिललितं कुर्वन् बहु चाटु चकार वै ॥६७॥

अतीव व्रीडिता बाला कुर्वता चाटु तेन सा ।प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम् ॥६८॥

स्मर्यतां तन्महाराज दाक्षिण्यललितं त्वया ।येन श्वयोनिमापन्नो मम चाटुकरो भवान् ॥६९॥

पाषण्डिनं समाभाष्य तीर्थस्नानादनन्तरम् ।प्राप्तोऽसि कुत्सितां योनिं किं न स्मरसि तत्प्रभो ॥७०॥

श्रीपराशर उवाचतयैवं स्मारिते तस्मिन् पूर्वजातिकृते तदा ।दध्यौ चिरमथावाप निर्वेदमतिदुर्लभम् ॥७१॥

निर्विण्णचित्तस्स ततो निर्गम्य नगराद्बहिः ।मरुप्रपतनं कृत्वा शार्गालीं योनिमागतः ॥७२॥

सापि द्वितीये सम्प्राप्ते वीक्ष्य दित्येन चक्षुषा ।ज्ञात्वा शृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम् ॥७३॥

तत्रापि दृष्ट्वा तं प्राह शार्गालीं योनिमागतम् ।भर्त्तारमपि चार्वङ्गी तनया पृथिवीक्षितः ॥७४॥

अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन्मया ।प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम् ॥७५॥

पुनस्तयोक्तं स ज्ञात्वा सत्यं सत्यवतां वरः ।कालेन स निराहारस्तत्याज स्वं कलेवरम् ॥७६॥

भूयस्ततो वृको जज्ञे गत्वा तं निर्जने वने ।स्मारयामास भर्त्तारं पूर्ववृत्तमनिन्दिता ॥७७॥

न त्वं वृको महभाग राजा शतधनुर्भवान् ।श्वा भूत्वा त्वं शृगालोऽभूर्वृकत्वं साम्प्रतं गतः ॥७८॥

स्मारितेन यदा त्यक्तस्तेनात्मा गृध्रतां गतः ।अपापा सा पुनश्चैनं बोधयामास भाविनी ॥७९॥

नरेन्द्र स्मर्यतामात्मा ह्मलं ते गृध्रचेष्टया ।पाषण्डालापजातोऽयं दोषो यद्गृध्रतां गतः ॥८०॥

ततः काकत्वमापन्नं समनन्तरजन्मति ।उवाच तन्वी भर्त्तारमुपलभ्यात्मयोगतः ॥८१॥

अशेषभूभृतः पूर्वं वश्या यस्मै बलिं ददुः ।स त्वं काकत्वमापन्नो जातोऽद्य बलिभुक् प्रभो ॥८२॥

एवमेव च काकत्वे स्मारितस्य पुरातनम् ।तत्याज भूपतिः प्राणान् मयूरत्वमवाप च ॥८३॥

मयूरत्वे ततस्सा वै चकारानुगतिं शुभा ।दत्तैः प्रतिक्षणां भोज्यैर्बाला तज्जातिभोजनेः ॥८४॥

ततस्तु जनको राजा वाजिमेधं महाक्रतुम् ।चकार तस्यावभृथे स्नापयामास तं तदा ॥८५॥

सस्नौ स्वयं च तन्वङ्गी स्मारयामास चापि तम् ।यथासौ श्वशृगालादियोनिं जग्राह पार्थिवः ॥८६॥

स्मृतजन्मक्रमः सोऽथ तत्याज स्वकलेवरम् ।जज्ञे स जनकस्यैव पुत्रोऽसौ सुमहात्मनः ॥८७॥

ततः सा पितरं तन्वी विवहार्थमचोदयत् ।स चापि कारयामास तस्या राजा स्वयंवरम् ॥८८॥

स्वयंवरे कृते सा तं सम्प्राप्तं पतिमात्मनः ।वपरयामास भूयोऽपि भर्त्तृभावेन भामिनी ॥८९॥

बुभुजे च तया सार्द्धं सम्भोगान्नृपनन्दनः ।पितर्युपरते राज्यं विदेहेषु चकार सः ॥९०॥

इयाज यज्ञान् सुबहून् ददौ दानानि चार्थिनाम् ।पुत्रानुत्पादयामास युयुधे च सहारिभिः ॥९१॥

राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुन्धराम् ।तत्याज स प्रियान् प्राणान् संग्रामे धर्मतो नृपः ॥९२॥

ततश्चितास्थं तं भूयो भर्त्तारं सा शुभेक्षणा ।अन्वारुरोह विधिवद् यथापूर्वं मुदान्विता ॥९३॥

ततोऽवाप तया सार्द्धं राजपुत्र्या स पार्थिवः ।ऐन्द्रानतीत्य वै लोकाँल्लोकान् प्राप तदाक्षयान् ॥९४॥

स्वर्गाक्षयत्वमतुलं दाम्पत्यमतिदुर्लभम् ।प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम ॥९५॥

एष पाषण्डसम्भाषाद्दोषः प्रोक्तो मया द्विज ।तथाऽश्वमेधावभृथस्नानमाहात्म्यमेव च ॥९६॥

तस्मात् पाषण्डिभिः पापैरालापस्पर्शनं त्यजेत् ।विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥९७॥

क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते ।तस्यावलोकनात् सूर्यं पश्येत मतिमान् नरः ॥९८॥

किं पुनर्यैस्तु सन्त्यक्ता त्रयी सर्वात्मना द्विज ।पाषण्डभोजिभिः पापैर्वेदवादविरोधिभिः ॥९९॥

सहालापस्तु संसर्गः सहास्या चातिपापिनी ।पाषण्डिभिर्दुराचारैस्तस्मात्तान् परिवर्जयेत् ॥१००॥

पाषण्डिनो विकर्मस्थान् वैडालव्रतिकाञ्छठान् ।हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥१०१॥

दूरतस्तैस्तु सम्पर्कः त्याज्यश्चाप्यतिपापिभिः ।पाषण्डिभिर्दुराचारैस्तस्मात्तान् परिवर्जयेत् ॥१०२॥

एते नग्नास्तवाख्याता दृष्ट्या श्राद्धोपघातकाः ।येषां सम्भाषणात् पुंसां दिनपुण्यं प्रणश्यति ॥१०३॥

एते पाषणिडनः पापा न ह्येतानालपेद् बुधः ।पुण्यं नश्यति सम्भाषादेतेषां तद्दिनोद्भवम् ॥१०४॥

पुंसां जटाधरणमौण्ड्यवतां वृथैवमोघाशिनामखिलशौचनिराकृतानाम् ।तोयप्रदानपितृपिण्डबहिष्कृतानांसम्भाषणादपि नरा नरकं प्रयान्ति ॥१०५॥

इति श्रीविष्णुमहापुराणे तृतीयांशे अष्टादशोऽध्यायः (१८)इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायकेश्रीमति विष्णुमहापुराणे तृतीयोंऽशः समाप्तः ।

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः १७अध्यायः १

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata