विष्णुपुराणम् · Amsha 3
अध्यायः १६
Ask AI॥ अथ षोडशोऽध्यायः ॥(श्राद्धकर्मणि विहिताविहितवस्तूनां विचारः)और्व उवाचहविष्यमत्स्यमांसैस्तु शशस्य नकुलस्य च ।सौकरच्छागलैणेयरौरवैर्गवयेन च ॥१॥
औरभ्रगव्यैश्च तथा मासवृद्ध्या पितामहाः ।प्रयान्ति तृप्तिं मांसैस्तु नित्यं वाध्रीणसामिषैः ॥२॥
खड्गमांसमतीवात्र कालशाकं तथा मधु ।शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर ॥३॥
गयामुपेत्य यः श्राद्धं करोति पृथिवीपते ।सफलं तस्य तज्जन्म जायते पितृतुष्टिदम् ॥४॥
प्रशान्तिकास्सनीवाराः श्यामाका द्विविधास्तथा ।वन्यौषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ ॥५॥
यवाः प्रियङ्गवो मुद्गा गोधूमा व्रीहयस्तिलाः ।निष्पावाः कोविदाराश्च सर्षपाश्चात्र शोभनाः ॥६॥
अकृताग्रयणं यच्च धान्यजातं नरेश्वर ।राजमाषानणूंश्चैव मसूरांश्च विसर्जयेत् ॥७॥
अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् ।गान्धारककरम्बादिलवणान्यौषराणि च ॥८॥
आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च ।वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ॥९॥
नक्ताहृतमनुच्छिन्नं तृप्यते न च यत्र गौः ।दुर्गन्धि फेनिलं चाम्बु श्राद्धयोग्यं न पार्थिव ॥१०॥
क्षीरमेकशफानां यदौष्ट्रमाविकमेव च ।मार्गं च माहिषं चैव वर्जयेच्छ्राद्धकर्मणि ॥११॥
षण्ढापविद्धचाण्डालपापिपाषण्डिरोगिभिः ।कृकवाकुश्वननग्नैश्च वानरग्रामसूकरैः ॥१२॥
उदक्यासूतकाशौचिमृतहारैश्च वीक्षिते ।श्राद्धे सुरा न पितरो भुञ्जते पुरुषर्षभ ॥१३॥
तस्मात्परिश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः ।उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत् ॥१४॥
नखादिना चोपपन्नं केशकीटादिभिर्नृप ।न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा ॥१५॥
श्रद्धासमन्वितैर्दत्तं पितृभ्यो नामगोत्रतः ।यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥१६॥
श्रूयते चापि पितृर्भिगीता गाथा महीपते ।इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा ॥१७॥
अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः ।गयामुपेत्य ये पिण्डान् दास्यन्त्यस्माकमादरात् ॥१८॥
अपि नः स कुले जायाद्यो नो दद्यात् त्रयोदशीम् ।पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥१९॥
गौरीं वाप्युद्वहेत् कन्यां नीलं वा वृषमुत्सृजेत् ।यजेत वाश्वमेधेन विधिवद्दक्षिणावता ॥२०॥
॥ इति श्रीविष्णुमहापुराणे तृतीयांशे षोडशोऽध्यायः ॥
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.