विष्णुपुराणम् · Amsha 3
अध्यायः १५
Ask AIऔव उवाच ।ब्राह्मणान् भोजयेच्छ्राद्धे यद्गुणांस्तान्निबोध मे ॥१॥
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णष्षडङ्गवित् ।वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः ॥२॥
ऋत्विक् स्वस्रेयदौहित्रजामातृश्वशुरास्तथा ।मातुलोऽथ तपोनिष्ठः पञ्चाग्न्यभिरतस्तथा ।शिष्याः सम्बन्धिनश्चैव मातापितृरतश्च यः ॥३॥
एतान्नियोजयेच्छ्राद्धे पूर्वोक्तान् प्रथमे नृप ।ब्राह्मणान् पितृतुष्ट्यर्थमनुकल्पेष्वनन्तरान् ॥४॥
मित्रध्रुक्कुनखी क्लीबः श्यावदन्तस्तथा द्विजः ।कन्यादूषयिता वह्निवेदोज्झः सोमविक्रयी ॥५॥
अभिशस्तस्तथा स्तेनः पिशुनो ग्रामयाजकः ।भृतकाध्यापकस्तद्वद् भृतकाध्यापितश्च यः ॥६॥
परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः ।वृषलीसूतिपोष्टा च वृषलीपतिरवे च ॥७॥
तथा देवलकश्चैव श्राद्धे नार्हति केतनम् ॥८॥
प्रथमेऽह्नि बुधः शस्ताञ्छोत्रियादीन् निमन्त्रयेत् ।कथयेच्च तथैवैषां नियोगान् पितृदैविकान् ॥९॥
ततः क्रोधव्यवायादीनायासं तैर्द्विजैस्सह ।यजमानो न कुर्वीत दोषस्तत्र महानयम् ॥१०॥
श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च ।व्यवायी रेतसो गर्त्ते मज्जयत्यात्मनः पितॄन् ॥११॥
तस्मात् प्रथममत्रोक्तं द्रिजाग्र्याणं निमन्त्रणम् ।अनिमन्त्र्य द्विजानेवमागतान् भोजयेद् यतीन् ॥१२॥
पादशौचादिना गेहमागतान् पूजयेद् द्विजान् ॥१३॥
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ।पितॄणामयुजो युग्मान् देवानामिच्छया द्विजान् ॥१४॥
देवानामेकमेकं वा पितॄणाञ्च नियोजयेत् ॥१५॥
तथा मातामहश्वाद्धं वैश्वदेवसमन्वितम् ।कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदैविकम् ॥१६॥
प्राङमुखान् भोजयेद् विप्रान् देवानामुभयात्मकान् ।पितृमातामहानाञ्च भोजयेच्चाप्युदङ्मुखान् ॥१७॥
पृथक् तयोः केचिदाहुः श्राद्धस्य करणां नृप ।एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ॥१८॥
विष्टरार्थं कुशं दत्त्वा सम्पूज्यार्ध्यं विधानतः ।कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ॥१९॥
यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् ।स्रग्गन्धधूपदीपांश्च तेभ्यो दद्याद्यथाविधि ॥२०॥
पितॄणामपसव्यं तत् सर्वमेवोपकल्पयेत् ।अनुज्ञाञ्च ततःप्राप्य दत्त्वा दर्भान् द्विधाकृतान् ॥२१॥
मन्त्रपूर्वं पितॄणान्तु कृर्याच्चावाहनं बुधः ।तिलाम्बुना चापसव्यं दद्यादर्घ्यादिकं नृप ॥२२॥
काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् ।ब्रह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत् ॥२३॥
योगिनो विविधै रूपैर्नराणामुपकारिणः ।भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणाः ॥२४॥
स्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथिं बुधः ।श्राद्धक्रियाफलं हन्ति नरेन्द्रापूजितोऽतिथिः ॥२५॥
जुहुयाद् व्यञ्जनक्षारवर्जमन्नं ततोऽनले ।अनुज्ञातो द्रिजैस्तैस्तु त्रिकृत्वः पुरुषर्षभ ॥२६॥
अग्नये कव्यवाहाय स्वाहेत्यादौ नृपाहुतिः ।सोमाय वै पितृमते दातव्या तदनन्तरम् ॥२७॥
वैवस्वताय चैवान्या तृतीया दीयते ततः ।हुतावशिष्टमल्पान्नं पितृपात्रेषु निर्वपेत् ॥२८॥
ततोऽन्नं मुष्टमत्यर्थमभीष्टमतिसंस्कृतम् ।दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ॥२९॥
भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् ।अक्रुद्ध्यता चात्वरता देयं तेनापि भक्तितः ॥३०॥
रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः ।कृत्वा ध्येयाः स्वपितरस्त एव द्विजसत्तमाः ॥३१॥
पिता पितामहश्चैव तथैव प्रपितामहः ।मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ॥३२॥
पिता पितामहश्चैव तथैव प्रपितामहः ।मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्तयः ॥३३॥
पिता पितामहश्चैव तथैव प्रपितामहः ।तृप्तिं प्रयान्तु पिष्डेन मया दत्तेन भूतले ॥३४॥
पिता पितामहश्चैव तथैव प्रपितामहः ।तृप्तिं प्रयान्तु मे भक्त्या मयैतत्समुदाहृतम् ॥३५॥
मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः ।विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥३६॥
यज्ञेश्वरो हव्यसमस्तकव्य-भोक्ताव्ययात्वा हरीरीश्वरोऽत्र ।तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वै ॥३७॥
तृप्तिष्वेतेषु विकिरेदन्नं विप्रेषु भूतले ।दद्यादाचमनार्थाय तेब्यो वारि सकृत्सकृत् ॥३८॥
सुतृप्तैस्तैरनुज्ञातः सर्वेणान्नेन भूतले ।सतिलेन ततः पिम्डान् सम्यग्दद्यात्समाहितः ॥३९॥
पितृतीर्थेन सतिलं तथैव सलिलाञ्जलिम् ।मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत् ॥४०॥
दीक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् ।स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ॥४१॥
पितामहाय चैवान्यं तत्पित्रे च तथापरम् ।दर्भभूले लेपभुजः प्रीणयेल्लेपघर्षणैः ॥४२॥
पिण्डैर्मातामहांस्तद्वद् गन्धमाल्यादिसंयुतैः ।पूजयित्वा द्विजाग्र्याणां दद्याच्चाचमनं ततः ॥४३॥
पितृभ्यः प्रथमं भक्त्या तन्मनस्को नरेश्वर ।सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दिक्षिणाम् ॥४४॥
दत्त्वा च दक्षिणां तेभ्यो वाचयेद्वैश्वदेविकान् ।प्रीयन्तामिह ये विश्वेदेवास्तेन इतीरयेत् ॥४५॥
तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः ।पश्वाद्विसर्जयेद् दिवान् पूर्वं पित्र्यान्महीपते ॥४६॥
मातामहानामप्येवं सह देवैः क्रमः स्मृतः ।भोजने ज ण्वशक्त्या च दाने तद्वद्विसर्जने ॥४७॥
आपादशौचनात् पूर्वं कुर्याद् देवद्विजन्मसु ।विसर्जनं तु प्रथमं पैत्रमातामहेषु वै ॥४८॥
विसर्जयेत् प्रीतिवचः सम्मानाभ्यचितांस्ततः ।निवर्त्तेताभ्यनुज्ञात आद्वारं ताननुव्रजेत् ॥४९॥
ततस्तु वैश्वदेवाख्यं कुर्यान्नित्यक्रियां बुधः ।भुञ्जीयाच्च समं पूज्यभृत्यबन्धुभिरात्मनः ॥५०॥
एवं श्राद्धं बुधः कुर्यात्पित्र्यं मातामहं तथा ।श्राद्धैराप्यायिता दद्युः सर्वान् कामान् पितामहाः ॥५१॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।रजतस्य तथा दानं कथासङ्कीर्तनादिकम् ॥५२॥
वर्ज्यानि कुर्वता श्राद्धं क्रोधोऽध्वगमनं त्वरा ।भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते ॥५३॥
विश्वेदेवाः सपितरस्तथा मातामहा नृप ।कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ॥५४॥
सोमाधारः पितृगणो यागाधारश्च चन्द्रमाः ।श्राद्धे योगिनियोगस्तु तस्माद्भूपाल शस्यते ॥५५॥
सहस्त्रस्यापि विप्राणां यौगी चेत्पुरतः स्थितः ।सर्वान् भोक्तॄंस्तारयति यजमानं तथा नृप ॥५६॥
इति श्रीविष्णुमहापुराणे तृतीयांशे पञ्चदशोऽध्यायः (१५)
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.