विष्णुपुराणम् · Amsha 2
अध्यायः ९
Ask AIश्रीपारशर उवाचतारामयं भगवतः शिशुमाराकृति प्रभोः ।दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ २,९.१ ॥
सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् ।भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २,९.२ ॥
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ २,९.३ ॥
शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि ।नारायणोऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥ २,९.४ ॥
उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् ।स तारा शिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ २,९.५ ॥
आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः ।ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥ २,९.६ ॥
तदाधारं जगच्चेदं सदेवासुरमानुषम् ॥ २,९.७ ॥
येन विप्रविधानेन तन्ममैकमनाः शृणु ।विवस्वानष्टभिर्मासैरादायापो रसात्मिकाः ।वर्षत्यम्बुततश्चान्नमन्नादप्यखिलं जगत् ॥ २,९.८ ॥
विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् ।सोमं पुष्णात्यथेन्दुश्च वायुनाडीमयैर्दिवि ।नालैर्विक्षिपतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥ २,९.९ ॥
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ।अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥ २,९.१० ॥
सरित्समुद्रभौमास्तु तथापः प्राणिसम्भवाः ।चतुष्प्रकारा भगवानादत्ते सविता मुने ॥ २,९.११ ॥
आकाशगङ्गासलिलं तथादायगभस्तिमान् ।अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ २,९.१२ ॥
तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम ।न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ २,९.१३ ॥
दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर्विना दिवः ।आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥ २,९.१४ ॥
कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः ।दृष्टार्कपतितं ज्ञेयं तद्गाङ्गं दिग्गजोज्झितम् ॥ २,९.१५ ॥
युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः ।तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते ॥ २,९.१६ ॥
उभयं पुण्यमत्यर्थं नृणां पापभयापहम् ।आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥ २,९.१७ ॥
यत्तु मैघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज ।पुष्णात्यौषधयः सर्वा जीवनायामृतं हि तत् ॥ २,९.१८ ॥
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः ।साधकः फलपाकन्तः प्रजानां द्विज जायते ॥ २,९.१९ ॥
तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः ।कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्तिते ॥ २,९.२० ॥
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः ।सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥ २,९.२१ ॥
वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया ।सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥ २,९.२२ ॥
आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम ।ध्रुवस्य शिशुपारोऽसौ सोऽपि नारायणात्मकः ॥ २,९.२३ ॥
हृदि नारायणस्तस्य शिशुमारस्यं संस्थितः ।बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २,९.२४ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे नवमोऽध्यायः (९)
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.