Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 2
  6. अध्यायः ८

विष्णुपुराणम् · Amsha 2

अध्यायः ८

संस्कृतEnglish
Ask AI

1श्रीपराशर उवाचव्याख्यातमेतद्ब्रह्माण्डसंस्थानं तव सुव्रतततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मे १

2योजनानां सहस्राणि भास्करस्य रथो नवईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम २

3सार्धकोटिस्तथा सप्त नियुतान्यधिकानि वैयोजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ३

4त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मकेसंवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम् ४

5हयाश्च सप्तच्छन्दांसि तेषां नामानि मे शृणुगायत्री च बृहत्युष्णिग्जगती त्रिष्टुभेव चअनुष्टुप्पंक्तिरित्युक्ता छंदांसि हरयो रवेः ५

6चत्वारिंशत्सहस्रणिद्वितीयोऽक्षो विवस्वतःपञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ६

7अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोह्रस्वोक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य वैद्वितीयेक्षे तु तच्चक्रं संस्थितं मानसाचले ७

8मानसोत्तरशैलस्य पूर्वतो वासवी पुरीदक्षिणे तु यमस्यान्याप्रतीच्यां वरुणस्य चउत्तरेण च सोमस्य तासां नामानि मे शृणु ८

9वस्वौकसारा शक्रस्य याम्या संयमनी तथापुरी सुखाजलेशस्य सोमस्य च विभावरी ९

10काष्ठां गतो दक्षिणतः क्षिप्तेषुरिव सर्पतिमैत्रेय भगवान्भानुर्ज्योतिषां चक्रसंयुतः १०

11अहोरात्रव्यवस्थानकारणं भगवान्रविःदेवयानः परः पन्था योगिनां क्लेशसंक्षये ११

12दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितःसर्वद्वीपेषु मैत्रेय निशार्द्धस्य च सन्मुखः १२

13उदयास्तमने चैव सर्वकालं तु सम्मुखेविदिशासु त्वश्षोआ!सु तथा ब्रह्मन् दिशासु च १३

14यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतःतिरोभावं च यत्रैति तत्रैवास्तमनं रवेः १४

15नैवास्तमनमर्कस्य नोदयः सर्वदा सतःउदयास्तमनाख्यं हि दर्शनादर्शनं रवेः १५

16शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम्विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान्द्वे पुरे तथा १६

17उदितो वर्द्धमानाभिरामध्याह्नात्तपन्रविःततः परं ह्रसन्तीभिर्गोभिरस्तं नियच्छति १७

18उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौयावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः १८

19ऋतेऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम्येये मरीचयोर्कस्य प्रयान्ति ब्रह्मणः सभाम्तेते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै १९

20तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हिसर्वेषां द्वीपवर्षाणां मेरुरुत्तरतो यतः २०

21प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करेविशत्यग्निमतो रात्रौ वह्निर्दूरात्प्रकाशते २१

22वह्नेः प्रभा तथा भानुर्दिनेष्वाविशति द्विजअतीव वह्निसंयोगादतः सूर्यः प्रकाशते २२

23तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणीपरस्परानुप्रवेशादाप्यायेते दिवानिशम् २३

24दक्षिणोत्तरभूम्यर्द्धे समुत्तिष्ठति भास्करेअहोरात्रं विशत्यम्भस्तमः प्राकाश्यशीलवत् २४

25आताम्रा हि भवत्यापो दिवानक्तप्रवेशनात्दिनं विशति चैवांभो भास्करेस्तमुपेयुषितस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् २५

26एवं पुष्करमध्येन यदा याति दिवाकरःत्रिंशद्भागस्तु मेदिन्यास्तदा मौहूर्त्तिकी गतिः २६

27कुलालचक्रपर्यन्ते भ्रमन्नेष दिवाकरःकरोत्यहस्तथा रात्रिं विमुञ्चन्मेदिनीं द्विजः २७

28अयनस्योत्तरस्यादौ मकरं याति भास्करःततः कुम्भं च मीनं च राशो! राश्यंतरं द्विज २८

29त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम्प्रयाति सविता कुर्वन्नहोरात्रं ततः समम् २९

30ततो रात्रिः क्षयं याति वर्द्धतेऽनुदिनं दिनम् ३०

31ततश्च मिथुनस्यान्ते परां काष्ठामुपागतःराशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ३१

32कुलालचक्रपर्यंतो यथाशीघ्रं प्रवर्त्ततेदक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्त्तते ३२

33अतिवेगितया कालं वायुवेगबलाच्चरन्तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ३३

34सूर्यो द्वादशभिः शैघ्र्यानमुहूर्त्ते दक्षिणायनेत्रयोदशार्द्धमृक्षाणामह्ना तु चरति द्विजमुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ३४

35कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पतितथोदगयने सूर्यः सर्पते मन्दविक्रमः ३५

36तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्छतिअष्टादशमुहूर्तं यदुत्तरायणपश्चिमम् ३६

37अहर्भवति तच्चापि चरते मन्दविक्रमः ३७

38त्रयोदशार्द्धमह्ना तु ऋक्षाणां चरते रविःमुहूर्त्तैस्तावदृक्षाणि रात्रौ द्वादशभिश्चरन् ३८

39अतो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथामृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ३९

40कुलालचक्रनाभिस्तु यथा तत्रैव वर्ततेध्रुवस्तथा हि मैत्रेय तत्रैव परिवर्तते ४०

41उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तुदिवा नक्तं च सूर्यस्य मन्दा शीघ्रा च वै गतिः ४१

42मन्दाह्नि यस्मिन्नयने शीघ्रा नक्तं तदा गतिःशीघ्रा निशि यदा चास्य तदा मंदा दिवा गतिः ४२

43एक प्रमाणमेवैष मार्गं याति दिवाकरःअहोरात्रेण यो भुंक्ते समस्ता राशयो द्विज ४३

44षडेव राशीन् यो भुंक्ते रात्रावन्यांश्च षड्दिवा ४४

45राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिनेतथा निशायां राशीनां प्रमाणैर्लघुदीर्घता ४५

46दिनादेर्दिर्घह्रस्वत्वं तद्भोगेनैव जायतेउत्तरे प्रक्रमे शीघ्रा निशि मंदा गतिर्दिवा ४६

47दक्षिणे त्वयने चैव विपरीतां विवस्वतः ४७

48उषा रात्रिः समाख्याताव्युष्टिश्चाप्युच्यते दिनम्प्रोच्यते च तथा संध्या उषाव्युष्ट्योर्यदन्तरम् ४८

49संध्याकाले च संप्राप्ते रौद्रे परमदारुणेमन्देहा राक्षसा घोराः सूर्यमिच्छिन्ति खादितुम् ४९

50प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम्अक्षयत्वं शरीराणां मरणं च दिने दिने ५०

51ततः सूर्यस्य तैर्युद्धं भवत्यत्यन्तदारुणम्ततो द्विजोत्तमास्तोयं संक्षिपन्ति महामुने ५१

52ॐकारब्रह्मसंयुक्तं गायत्र्! या चाभिमन्त्रितम्तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा ५२

53अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिःसूर्योज्योतिः सहस्रांशु समा दीप्यति भास्करः ५३

54ॐकारो भगवान्विष्णुस्त्रिधामा वचसां पतिःतदुच्चारणतस्ते तु विनाशं यांति राक्षसाः ५४

55वैष्णुवॐशः परः सूर्यो योन्तर्ज्योतिरसंप्लवम्अभियायक ॐकारस्तस्य तत्प्रेरकं परम् ५५

56तेन संप्रेरितं ज्योतिरॐकारेणाथ दीप्तिमत्दहत्यश्षोरक्षांसि मन्देहाख्यान्यघानि वै ५६

57तस्मान्नोल्लंघनं कार्यं संध्योपासनकर्मणःस हन्ति सूर्यं सन्ध्याया नोपास्तिं कुरुते तु यः ५७

58ततः प्रयाति भगवान्ब्राह्मणैरभिरक्षितःवालखिल्यादिभिश्चैव जगतः पालनोद्यतः ५८

59काष्ठा निमेषा दश पंच चैव त्रिंशच्च काष्ठा गणयेत्कलां चत्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्! यहनी समेते ५९

60ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमम्सन्ध्यामुहूर्त्तमात्रा वै ह्रासवृद्धौ समा स्मृता ६०

61रेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तगते रवौप्रातः स्मृतस्ततः कालो भागश्चाह्नः स पञ्चमः ६१

62तस्मात्प्रातस्तनात्कालात्त्रिमुहूर्त्तस्तु सङ्गवःमध्याह्नस्त्रिमुहूर्त्तस्तु तस्मात्कालात्तु सङ्गवात् ६२

63तस्मान्माध्याह्निकात्कालादपराह्ण इति स्मृतःत्रय एव मुहूर्त्तास्तु कालभागः स्मृतो बुधैः ६३

64आपराह्णे व्यतीते तु कालः सायाह्न एव चदशपञ्च मुहूर्तं वै मुहूर्तास्त्रय एव च ६४

65दशपंच मुहूर्तं वै अहर्वैषुवतं स्मृतम् ६५

66वर्द्धते ह्रसेत चैवाप्ययने दक्षिणोत्तरेअहस्तु ग्रसते रात्रिं रात्रिर्ग्रसति वासरम् ६६

67शरद्वसन्तयोर्मध्ये विषुवं तु विभाव्यतेतुलामेषगते भानौ समरात्रिदिनं तु तत् ६७

68कर्कटावस्थिते भानौ दक्षिणायनमुच्यतेउत्तरायणमप्युक्तं मकरस्थे दिवाकरे ६८

69त्रिंशन्मुहूर्तं कथितमहोरात्रं तु यन्मयातानि पंचदश ब्रह्मन् पक्ष इत्यभिधीयते ६९

70मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुःऋतुत्रयं चाप्ययनं द्वेऽयने वर्षसंज्ञिते ७०

71संवत्सरादयः पंच चतुर्मासविकल्पिताःनिश्चयः सर्वकालस्य युगमित्यभिधीयते ७१

72संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरःइद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरःवत्सरः पंचमश्चात्र कालोयं युगसंज्ञितः ७२

73यः श्वेतस्योत्तरः शैलः शृङ्गवानिति विश्रुतःत्रीणि तस्य तु शृंगाणि मैरयं शृगवान्स्मृतः ७३

74दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथाशरद्वसंतयोर्मध्ये तद्भानुः प्रतिपद्यतेमेषादौ च तुलादौ च मैत्रेय विषुवं स्मृतम् ७४

75तदा तुल्यमहोरात्रं करोति तिमिरापहःदशपञ्च मुहूर्तं वै तदेतदुभयं स्मृतम् ७५

76प्रथमे कृत्तिकाभागे यदा भास्वांस्तदा शशीविशाखानां चतुर्थेंशो! मुने तिष्ठत्यसंशयम् ७६

77विशाखानां यदा सूर्यश्चरत्यंशं तृतीयकम्तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ७७

78तदैव विषुवाख्योऽयं कालः पुण्योऽभिधीयतेतदा दानादि देयानि देवेभ्यः प्रयतात्मभिः ७८

79ब्राह्मणेभ्यः पितृभ्यश्च मुखमेतत्तु दानजम्दत्तदानस्तु विषुवे कृतकृत्योभिजायते ७९

80अहोरात्रार्द्धमासा तु कलाः काष्ठाः क्षणास्तथापौर्णमासी तथा ज्ञेया अमावास्या तथैव चसिनीवाली कुहूश्चैव एका चानुमतिस्तथा ८०

81तपस्तपस्यौ मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात्नभोनभस्यौ च इषस्तथोर्जस्सहःसहस्याविति दक्षिणं तत् ८१

82लोका लोकश्च यश्शैलः प्रागुक्तो भवतो मयालोकपालास्तु चत्वारस्तत्र तिष्ठन्ति सुव्रताः ८२

83सुधामा शङ्खपाच्चैव कर्दमस्यात्मजौ द्विजहिरण्यरोमा चैवान्यश्चतुर्थः केकुमानपि ८३

84निर्द्वन्द्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाःलोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ८४

85उत्तरं पदगस्त्यस्य अजवीथ्याश्च दक्षिणम्पितृयानः स वै पन्था वैश्वानरपथाद्बहिः ८५

86तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणःभूतारम्भकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताःप्रारभन्ते तु ये लोकास्तेषां पन्थाः स दक्षिणः ८६

87चलितं ते पुनर्ब्रह्म स्थापयन्ति युगेयुगेसन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ८७

88जायमानास्तु पूर्वे च पश्चिमानां गृहेषु वैपश्चिमाश्चैव पूर्वेषां जायन्ते विधनेष्विह ८८

89एवमावर्त्तमानास्ते तिष्ठन्ति नियतव्रताःसवितुर्दक्षिणं मार्गं श्रिता ह्याचन्द्र तारकम् ८९

90नागावीथ्युत्तरं यच्च सप्तर्षिभ्यश्च दक्षिणम्उत्तरः सवितुः पंथा देवयानश्च स स्मृतः ९०

91तत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणःसन्ततिं ते जुगुप्संति तस्मान्मृत्युर्जितश्च तैः ९१

92अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम्उदक्पन्थनमर्यम्णः स्थिता ह्याभूतसंप्लवम् ९२

93ते संप्रयोगाल्लोभस्य मैथुनस्य च वर्जनात्इच्छाद्वेषाप्रवृत्त्या च भूतारम्भविवर्जनात् ९३

94पुनश्च कामासंयोगाच्छब्दादेर्दोषदर्शनात्इत्येभिः कारणैः शुद्धास्तेमृतत्वं हि भेजिरे ९४

95आभूतसंप्लवं स्थानममृतत्वं विभाव्यतेत्रैलोक्यस्थितिकालोयमपुनर्मार उच्यते ९५

96ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिःआभूतसंप्लवान्तन्तु फलमुक्तं तयोर्द्विज ९६

97यावन्मात्रे प्रदेशो! तु मैत्रेयावस्थितो ध्रुवःक्षयमायाति तावत्तु भूमेराभूतसंप्लवात् ९७

98ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितःएतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भासुरम् ९८

99निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम्स्थानं तत्परमं विप्र पुण्यपापरिक्षये ९९

100अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवःयत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् १००

101धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणःतत्सार्ष्ट्योत्पन्नयोगर्धिस्तद्विष्णोः परमं पदम् १०१

102यत्रोतमेतत्प्रोतं च यद्भूतं सचराचरम्भाव्यं य विश्वं मैत्रेय तद्विष्णोः परमं पदम् १०२

103दिवीव चक्षुराततं योगिनां तन्मयात्मनाम्विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् १०३

104यस्मिन्प्रतिष्ठितो भास्वान्मेढीभूतः स्वयं ध्रुवःध्रुवे च सर्वज्योतींषि ज्योतिष्वम्भोमुचो द्विज १०४

105मेघेषु संगता वृष्टिर्वृष्टेः सृष्टेश्च पोषणम्आप्यायनं च सर्वेषां देवादीनां महामुने १०५

106ततश्चाज्याहुतिद्वारा पोषितास्ते हविर्भुजःवृष्टेः कारणतां यांति भूतानां स्थितये पुनः १०६

107एवमेतत्पदं विष्णोस्तृतीयममलात्मकम्आधारभूतं लोकानां त्रयाणां वृष्टिकारणम् १०७

108ततः प्रभवति ब्रह्मन्सर्वपापहरा सरित्गंगा देवांगनांगानामनुलेपनपिञ्जरा १०८

109वामपादाम्बुजांगुष्ठनखस्रोतोविनिर्गताम्विष्णोर्बिभर्त्ति यां भक्त्या शिरसाहर्निशं ध्रुवः १०९

110ततः सप्तर्षयो यस्याः प्राणायामपरायणाःतिष्ठन्ति वीचिमालाभिरुह्यमानजटाजले ११०

111वार्योघैः संततैर्यस्याः प्लावितं शशिमण्डलम्भूयोधिकतरां कांतिं वहत्येतदुह क्षये १११

112मेरुपृष्टे पतत्युच्चैर्निष्क्रांता शशिमण्डलात्जगतः पावनार्थाय प्रयाति च चतुर्दिशम् ११२

113सीता चालकनन्दा च चक्षुर्भद्रा च संस्थिताएकैव या चतुर्भेदा दिग्भेदगतिलक्षणा ११३

114भेदं चालकनन्दाख्यं यस्याः शर्वोपि दक्षिणाम्दधार शिरसा प्रीत्या वर्षाणामधिकं शतम् ११४

115शम्भोर्जटाकलापाच्च विनिष्क्रान्तास्थिशर्कराःप्लावयित्वा दिवं निन्ये या पापान्सगरात्मजान् ११५

116स्नातस्य सलिले यस्याः सद्यः पापं प्रणश्यतिअपूर्वपुण्यप्राप्तिश्च सद्यो मैत्रेय जायते ११६

117दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैःसमाशतं प्रयच्छंति तृप्तिं मैत्रेय दुर्लभाम् ११७

118यस्यामिष्ट्वा महायज्ञैर्यज्ञेशं पुरुषोत्तमम्द्विज भूपाः परां सिद्धिमवापुर्दिवि चेह च ११८

119स्नानाद्विधूतपापाश्च यज्जलैर्यतयस्तथाकेशवासक्तमनसः प्राप्ता निर्वाणमुत्तमम् ११९

120श्रुताऽभिलषिता दृष्टा स्पृष्टा पीताऽवगाहिताया पावयति भूतानि कीर्तिता च दिनेदिने १२०

121गंगागंगेति यैर्नाम योजनानां शतष्वपिस्थितैरुच्चारितं हन्ति पापं जन्मत्रयार्जितम् १२१

122यतः सा पावनायालं त्रयाणां जगतामपिसमुद्भूता परं तत्तु तृतीयं भगवत्पदम् १२२

इति श्रीविष्णुमहापुराणे द्वितीयेंशो!ऽष्टमोऽध्यायः ८

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ७अध्यायः ९

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata