विष्णुपुराणम् · Amsha 2
अध्यायः १०
Ask AI1श्रीपराशर उवाचत्र्यशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोःआरोहणावरोहाभ्यां भानोरब्देन या गतिः १
2स रथोधिष्ठितो देवैरादित्यै ऋषिभिस्तथागन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः २
3धाता क्रतुस्थला चैव पुलस्त्यो वासुकिस्तथारथभृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैव सप्तमः ३
4एते वसन्ति वै चैत्रे मधुमासे सदैव हिमैत्रेय स्यन्दने भानोः सप्तमासाधिकारिणः ४
5अर्यमा पुलहश्चैव रथौजाः पुञ्जिकस्थलाप्रहेतिः कच्छवीरश्व नारदश्च रथे रवेः ५
6माधवे निवसन्त्येते शुचिसंज्ञे निबोध मे ६
7मित्रोत्रिस्तक्षको रक्षः पौरुषेयोथ मेनकाहाहा रथस्वनश्चैव मैत्रेयैते वसन्ति वै ७
8वरुणो वसिष्ठो रम्भा च सहजन्या हुहूरथःरथचित्रस्तथा शुक्रे वसन्त्याषाढसंज्ञके ८
9इन्द्रो विश्वासुः स्रोता एलापुत्रस्तथांगिराःप्रम्लोचा च नभस्येते सप्तिश्चार्के वसन्ति वै ९
10विवस्वानुग्रसेनश्च भृगुरापूरणस्तथाअनुम्लोचा शंखपालो व्याघ्रो भाद्र पदे तथा १०
11पूषा च सुरुचिर्वातो गौतमोथ धनञ्जयःसुषेणोऽन्यो घृताची च वसन्त्याश्वयुजे रवौ ११
12विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तथाविश्वाची सेनजिच्चापि कार्त्तिके च वसन्ति वै १२
13अंशः काश्यपतार्क्ष्यास्तु महापद्मस्तथोर्वशीचित्रसेनस्तथा विद्युन्मार्गशीर्षेधिकारिणः १३
14क्रतुर्भगस्तथोर्णायुः स्फूर्जः कार्कोटकस्तथाअरिष्टनेमिश्चैवान्या पूर्वाचित्तिर्वराप्सराः १४
15पौषमासे वसन्त्येते सप्तभास्करमण्डलेलोकप्रकाशनार्थाय विग्रवर्याधिकारिणः १५
16त्वष्टाथ जमदग्निश्च कम्बलोथ तिलोत्तमाब्रह्मोपेतोथ ऋतजिद्धृतराष्ट्रोथ सप्तमः १६
17माघमासे वसन्त्येते सप्त मैत्रेय भास्करेश्रूयतां चापरे सूर्ये फाल्गुने निवसन्ति ये १७
18विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित्विश्वामित्रस्तथा रक्षो यज्ञोपेतो महामुने १८
19मासेष्वेतेषु मैत्रेय वसन्त्येते तु सप्तकाःसवितुर्मण्डले ब्रह्मन्विष्णुशक्त्युपबृंहिताः १९
20स्तुवन्ति मुनयः सूर्यं गंधर्वैर्गीयते पुरःनृत्यन्त्यप्सरसो यान्ति सूर्यस्यानुनिशाचराः २०
21वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः २१
22वालखित्यास्तथैवैनं परिवार्य समासते २२
23सोयं सप्तगणः सूर्यमण्डले मुनिसत्तमहिमोष्णवारिवृष्टीनां हेतुः स्वसमयं गतः २३
इति श्रीविष्णुमहापुराणे द्वितीयेंशो! दशमोऽध्यायः १०
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.