Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 2
  6. अध्यायः ११

विष्णुपुराणम् · Amsha 2

अध्यायः ११

संस्कृतEnglish
Ask AI

1यदेतद्भगवानाह गणः सप्तविधो रवेःमण्डले हिमतापादेः कारणं तन्मया श्रुतम् १

2व्यापारश्चापि कथितो गन्धर्वोरगरक्षसाम्ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो २

3यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम्किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ३

5यदि सप्तगणो वारि हिममुष्णं च वर्षतितत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यतेविवस्वानुदितो मध्ये यात्यस्तमिति किं जनःब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत् ५

6पराशर उवाचमैत्रेय श्रूयतामेतद्यद्भवान्परिपृच्छतियथा सप्तगणोप्येकः प्राधान्येनाधिको रविः ६

7सर्वशक्तिः परा विष्णो ऋग्यजुःसामसंज्ञितासैषा त्रयी तपत्यंहो जगतश्च हिनस्ति या ७

8सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतःऋग्यजुः सामभूतोन्तः सवितुर्द्विजतिष्ठति ८

9मासिमासि रविर्योयस्तत्र तत्र हि सा परात्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ९

10ऋचस्तुवन्ति पूर्वाह्णे मध्याह्नेथ यजूंषि वैबृहद्रथन्तरादीनि सामान्यह्नःक्षये रविम् १०

11अंगमेषा त्रयी विष्णो ऋग्यजुः सामसंज्ञिताविष्णुशक्तिरवस्थानं सदादित्ये करोति सा ११

12न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयीब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् १२

13सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयःरुद्रः साममयोन्ताय तस्मात्तस्याशुचिर्ध्वनिः १३

14एवं सा सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयीआत्मसप्तगणस्थं तं भास्वंतमधितिष्ठति १४

15तया चाधिष्ठितः सोपि जाज्वलीति स्वरश्मिभिःतमः समस्तजगतां नाशं नयति चाखिलम् १५

16स्तुवन्ति चैनं मुनयो गन्धर्वैर्गीयते पुरःनृत्यन्त्योऽप्सरसो यान्ति तस्य चानु निशाचराः १६

17वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहःवालखिल्यास्तथैवैनं परिवार्य समासते १७

18नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक्विष्णुर्विष्णोः पृथक् तस्य गणास्सप्तविधोऽप्ययम् १८

19स्तम्भस्थदर्पणस्येव योऽयमासन्नतां गतःछायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः १९

20एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विजमासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् २०

21पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुःपरिवर्तत्यहोरात्रकारणं सविता द्विज २१

22सूर्यरश्मिसुषुम्णायस्तर्पितस्तेन चन्द्रमाःकृष्णपक्षेमरैः शश्वत्पीयते वै सुधामयः २२

23पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विजपिबन्ति पितरस्तेषां भास्करात्तर्पणं तथा २३

24आदत्ते रश्मिभिर्यतु क्षितिसंस्थं रसं रविःतमुत्सृजति भूतानां पुष्ट्यर्थं सस्यवृद्धये २४

25तेन प्रीणात्यशेषाणि भूतानि भगवान्रविःपितृदेवमनुष्यादीनेवमाप्याययत्यसौ २५

26पक्षतृप्तिं तु देवानां पितॄणां चैव मासिकीम्शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति २६

इति श्रीविष्णुमहापुराणे द्वितीयेंश एकादशोऽध्यायः ११

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः १०अध्यायः १२

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata