विष्णुपुराणम् · Amsha 2
अध्यायः ५
Ask AI1श्रीपराशर उवाचविस्तार एष कथितः पृथिव्या भवतो मयासप्ततिस्तु सहस्राणि द्विजोच्छ्रायोपि कथ्यते १
2दशसाहस्रमेकैकं पातालं मुनिसत्तमअतलं वितलं चैव नितलं च गभस्तिमत्महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् २
3शुक्लाकृष्णारुणाः पीताः शर्कराः शैलकांचनाःभूमयो यत्र मैत्रेय वरप्रासादमंडिताः ३
4तेषु दानवदैतेया यक्षाश्च शतशस्तथानिवसन्ति महानागजातयश्च महामुने ४
5स्वर्लोकादपि रम्याणि पातालानीति नारदःप्राह स्वर्गसदां मध्ये पातालाभ्यागतो दिवि ५
6आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाःनागाभरणभूषासु पातालं केन तत्समम् ६
7दैत्यदानवकन्याभिरितश्चेतश्च शोभितेपाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ७
8दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम्शशिरश्मिर्न शीताय निशि द्योताय केवलम् ८
9भक्ष्यभोज्यमहापानमुदितैरपि भोगिभिःयत्र न ज्ञायते कालो गतोपि दनुजादिभिः ९
10वनानि नद्यो रम्याणि सरांसि कमलाकराःपुंस्कोकिलाभिलापाश्च मनोज्ञान्यम्बराणि च १०
11भूषणान्यतिशुभ्राणि गन्धाढ्यं चानुलेपनम्वीणावेणुमृदंगानां स्वनैरापूरितानि च ११
12एतान्यन्यानि चोदारभाग्यभोग्यानि दानवैःदैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः १२
13पातालानामधश्चास्ते विष्णोर्या तामसी तनुःशेषाख्या यद्गुणान्वक्तुं न शक्ता दैत्यदानवाः १३
14योनन्तः पठ्यते सिद्धैर्दैवो देवर्षिपूजितःस सहस्रशिरा व्यक्तस्वस्तिकामलभूषणः १४
15फणामणिसहस्रेण यः स विद्योतयन्दिशःसर्वान्करोति निर्वीर्यान् हिताय जगतोऽसुरान् १५
16मदाघूर्णितनेत्रोसौ यः सदैवैककुण्डलःकिरीटी स्रग्धरो भाति साग्निः श्वेत इवाचलः १६
17नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितःसाभ्रगङ्गाप्रवाहोसौ कैलासाद्रिरिवापरः १७
18लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुसलमुत्तमम्उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया १८
19कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलःसंकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् १९
20स बिभ्रच्छेखरीभूतमशेषं क्षितिमण्डलम्आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः २०
21तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव चन हि वर्णयितुं शक्यं ज्ञातुं च त्रिदशैरपि २१
22यस्यैषा सकला पृथ्वी फणामणिशिखारुणाआस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति २२
23यदा विजृम्भतेनन्तो मदाघूर्णितलोचनःतदा चलति भूरेषा साब्धितोया सकानना २३
24गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाःनान्तं गुणानां गच्छन्ति तेनानन्तोयमव्ययः २४
25यस्य नागवधूहस्तैर्लगितं हरिचन्दनम्मुहुः श्वासानिलापास्तं याति दिक्क्षोदवासताम् २५
26यमाराध्य पूराणर्षिर्गर्गो ज्योतींषि तत्त्वतःज्ञातवान्सकलं चैव निमित्तपठितं फलम् २६
27तेनेयं नागवर्येण शिरसा विधृता महीबिभर्ति मालां लोकानां सदेवासुरमानुषाम् २७
इति श्रीविष्णुमहापुराणे द्वितीयेंशो! पंचमोऽध्यायः ५
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.