Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 2
  6. अध्यायः ४

विष्णुपुराणम् · Amsha 2

अध्यायः ४

संस्कृतEnglish
Ask AI

श्रीपराशर उवाचक्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः ।संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ २,४.१ ॥

जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः ।स एवं द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥ २,४.२ ॥

सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ।ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः ॥ २,४.३ ॥

सुखोदयस्तथानन्दः शिवः क्षेमक एव च ।ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ २,४.४ ॥

पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा ।आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ २,४.५ ॥

मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः ।सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥ २,४.६ ॥

गोमदेश्चैव चन्द्रश्च नारदौ दुन्दुभिस्तथा ।सोमकः मुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥ २,४.७ ॥

वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः ।वसंति देवगन्धर्वसहिताः सततं प्रजाः ॥ २,४.८ ॥

तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः ।नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ २,४.९ ॥

तेषां नद्यस्तु सप्तैव वर्षाणां च समुद्रगाः ।नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ २,४.१० ॥

अनुतप्ता शिखी चैव विपाशा त्रिदिवाक्लमः ।अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ २,४.११ ॥

एते शैलास्तथा नद्यः प्रधानाः कथितास्तव ।क्षुद्रशैलास्तथा नद्यस्तत्र सन्ति सहस्रशः ।ताः पिबन्दि सदाहृष्टा नदीर्जनपदास्तुते ॥ २,४.१२ ॥

अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज ।न त्वेवास्ति युगावस्था तेषु स्तानेषु सप्तसु ॥ २,४.१३ ॥

त्रेतायुगसमः कालः सर्वदैव महामते ।प्लक्षद्वीपादिषु ब्रह्मञ्शाकद्वीपान्तिकेषु वै ॥ २,४.१४ ॥

पञ्च वर्षसहस्राणि जना जीवन्त्यनामयाः ।धर्मः पञ्चस्वथैतेषु वर्णाश्रमविभागशः ॥ २,४.१५ ॥

वर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते ॥ २,४.१६ ॥

आर्यकाः कुरारश्चैव विदिश्या भाविनश्चे ते ।विप्रक्षत्रिवैश्यास्ते शूद्राश्च मुनिसत्तम ॥ २,४.१७ ॥

ज्मबूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरुः ।प्लक्षस्तन्नामसंज्ञोयं प्लक्षद्वीपो द्विजोत्तम ॥ २,४.१८ ॥

इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः ।सीमरूपि जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः ॥ २,४.१९ ॥

प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः ।तथैवेक्षुरमोदेन परिवेषानुकारिणा ॥ २,४.२० ॥

इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः ।संक्षेपेण मया भूयः शाल्मलं मे निसामय ॥ २,४.२१ ॥

शाल्ममस्येश्वरोःवीरो वपुष्मांस्तत्सुताञ्छृणु ।तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥ २,४.२२ ॥

श्वेतोथ हरितश्चैव जीमूतो रोहितस्तथा ।वैद्युतो मानसश्चैव सुप्रभश्च महामुने ॥ २,४.२३ ॥

शाल्मलेन समुद्रोसौ द्वीपेनेक्षुरसोदकः ।विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ २,४.२४ ॥

तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ।वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः ॥ २,४.२५ ॥

कुमुदश्चेन्नतश्चैव तृतीयश्च बलाहकः ।द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ २,४.२६ ॥

कङ्कस्तुपञ्चमः षष्ठी महिषः सप्तमस्तथा ।ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु ॥ २,४.२७ ॥

योनितोयो वितृष्णा च चन्द्रा मुक्ता विमोचनी ।निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ २,४.२८ ॥

श्वेतञ्च हरितं चैव वैद्युतं मानसं तथा ।जीमूतं रोहितं चैव सुप्रभं चापि शोभनम् ।सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥ २,४.२९ ॥

शाल्मले ये तु वर्णाश्च वसन्त्येते महामुने ।कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक्पृथक् ॥ २,४.३० ॥

ब्रह्मणाः क्षत्रया वैश्याः शुद्राश्चैव यजन्तितम् ।भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् ।वायुभूतं मखश्रेष्ठैर्यज्वनो यज्ञसंस्थितिम् ॥ २,४.३१ ॥

देवानामत्र सान्नध्यमतीव सुमनोहरे ।शाल्मलिः सुमहान्वृक्षो नाम्ना निर्वृतिकारकः ॥ २,४.३२ ॥

एष द्वीपः समुद्रेण सुरोदेन समावृतः ।विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥ २,४.३३ ॥

सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।शाल्मलस्य तु विस्तराद्द्विगुणेन समन्ततः ॥ २,४.३४ ॥

ज्योतिष्मतः कुशद्वीपे सप्त पुत्राञ्छृणुष्व तान् ॥ २,४.३५ ॥

उद्भिदो वेणुमांश्चैव वेरथो लम्बनो धृतिः ।प्रभाकरोतिकपिलस्तन्नामा वर्षपद्धतिः ॥ २,४.३६ ॥

तस्मिन्वसन्ति मनुजाः सह दैते यदानवैः ।तथैव देवगन्धर्वयक्षकिंपुरुषादयः ॥ २,४.३७ ॥

वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ।दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ॥ २,४.३८ ॥

ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ २,४.३९ ॥

यथोस्ककर्मकर्तृत्वात्स्वाधिकारोक्षयाय ते ।तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् ।यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ॥ २,४.४० ॥

विद्रुमो हेमशैलश्च द्यतिमान् पुष्पवांस्तथा ।कुशशयो हरिश्चैव सप्तमो मन्दराचलः ॥ २,४.४१ ॥

वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने ।नद्यश्च सप्त तासां तु शृणु नामान्यनुक्रमात् ॥ २,४.४२ ॥

धूतपापा शिवा चैव पवित्रा संमतिस्तथा ।विद्युदम्भा मही चान्या सर्वपाप हरास्त्विमाः ॥ २,४.४३ ॥

अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ।कुशद्वीपे गुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥ २,४.४४ ॥

तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ।घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥ २,४.४५ ॥

क्रौञ्चद्वीपो महाभाग श्रुयताञ्चापरो महान् ।कुशद्वीपस्य विस्तारा द्द्विगुणो यस्य विस्तरः ॥ २,४.४६ ॥

क्रौञ्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः ।तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥ २,४.४७ ॥

कुशलो मल्लगश्चोष्णः पीवरोथान्धकारकः ।मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने ॥ २,४.४८ ॥

तत्रापि देवगन्धर्वसेविताः सुमनोहराः ।वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥ २,४.४९ ॥

क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ।चतुर्थो रत्नशैलश्च स्वाहिनी हयसन्निभः ॥ २,४.५० ॥

दिवावृत्पञ्चमश्चात्र तथान्यः पुण्डरीकवान् ।दुन्दुभिश्च महाशैलो द्विगुणास्त परस्परम् ।द्वीपाद्वीपेषु ये शैला यथा द्वीपानि ते तथा ॥ २,४.५१ ॥

वर्षेष्वेतेषु रम्येषु तथा शैलवरेषु च ।निवसंति निरातङ्काः सह देवगणैः प्रजाः ॥ २,४.५२ ॥

पुष्कराः पुष्कला धन्यास्तिष्याख्याश्च महामुने ।ब्राह्मणाः क्षत्रिया वैश्याः शुद्राश्चानुक्रमोदिताः ॥ २,४.५३ ॥

नदीर्मैत्रेय ते तत्र याः पिबन्ति शृणुष्व ताः ।सप्तप्रधानाः शतशस्तत्रान्याः क्षुद्रनिम्नगाः ॥ २,४.५४ ॥

गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।क्षान्तिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः ॥ २,४.५५ ॥

तत्रापि विष्णुर्भगवान्पुष्काराद्यैर्जानार्दनः ।यागौ रुद्रस्वरूपश्च इज्यते यज्ञसन्निधौ ॥ २,४.५६ ॥

क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च ।आवृतः सर्वतः क्रौञ्च द्वीपतुल्येन मानतः ॥ २,४.५७ ॥

दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ।क्रौञ्चद्वीपस्य विस्ताराद्द्विगुणेन महामुने ॥ २,४.५८ ॥

शाकद्वीपेश्वरस्यापि भव्यस्य मुमहात्मनः ।सप्तैव तनयास्तषां ददौ वर्षाणि सप्त सः ॥ २,४.५९ ॥

जलदश्च कुमारश्च मुकुमारो मरीचकः ।कुसुमोदश्च मौदाकिः सप्तमश्च महाद्रुमः ॥ २,४.६० ॥

तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् ।तत्रापि पर्वताः स्पत वर्षविच्छेदकारिणः ॥ २,४.६१ ॥

पूर्वस्तत्रोदयगिरिर्जलाधारस्तथापरः ।तथा रैवतकः श्यामस्तथैवास्तगिरिर्द्विज ।आम्बिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ २,४.६२ ॥

शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः ।यत्रत्यवातसंस्पार्शादाह्लादो जायते परः ॥ २,४.६३ ॥

तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ॥ २,४.६४ ॥

सुकुमारी कुमारी च नलिनी धेनुका च या ।इक्षुश्च वेणुका चैव गभस्ती सप्तमी तथा ॥ २,४.६५ ॥

अन्याश्च शतशस्तत्र क्षुद्रनद्यो महामुने ।महीधरास्तथा सन्ति शतशोथ सहस्रशः ॥ २,४.६६ ॥

ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः ।वर्षषु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम् ॥ २,४.६७ ॥

धर्महानिर्न तेष्वस्ति न संघर्षः परस्परम् ।मर्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु ॥ २,४.६८ ॥

वङ्गाश्च मागधाश्चैव मानसा मन्दगास्तथा ।वङ्गा ब्रह्मणभूयिष्ठा मागधाः क्षत्रियास्तथा ।वैश्यास्तु मानसास्तेषां शूद्रस्तेषां तु मन्दगाः ॥ २,४.६९ ॥

शाकद्वीपे तु तैर्विष्णुः सूर्यरूपधरो मुने ।यथोक्तौरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ॥ २,४.७० ॥

शाकद्वीपस्तु मैत्रेय क्षीरोदेन समावृतः ।शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ॥ २,४.७१ ॥

क्षीराब्धिः सर्वतो ब्रह्मन्पुष्कराख्येन वेष्टितः ।द्वीपेन शाकद्वीपात्तु द्विगुणेन समन्ततः ॥ २,४.७२ ॥

पुष्करे सवनस्यापि महावीरोऽभवत्सुतः ।धातुकिश्च तयोस्तत्र द्वे वर्षे नामचिह्निते ।महावीरं तथैवान्यद्धातुकीखण्डसंज्ञितम् ॥ २,४.७३ ॥

एकश्चत्र महाभाग प्रख्यातो वर्षपर्वतः ।मानासोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥ २,४.७४ ॥

योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ।तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ २,४.७५ ॥

पुष्करद्वीपवलयं मध्येन विभजन्निव ।स्थितोसौ तेन विछिन्नं जातं तद्वर्षकद्वयम् ॥ २,४.७६ ॥

वलयाकारमेकैकं तयोर्वर्षं तथा गिरिः ॥ २,४.७७ ॥

दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ।विरामया विशोकाश्च रागद्वेषादिवर्जिताः ॥ २,४.७८ ॥

अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विज ।नेर्ष्यासूया भयं द्वेषो दोषो लोभादिको न च ॥ २,४.७९ ॥

महापीतंबहिर्वर्षं धातकीखण्डमन्ततः ।मानसोत्तरशौलस्य देवदैत्यादिसेवितम् ॥ २,४.८० ॥

सत्यानृतेन तत्रास्तां द्वीपे पुष्करसंज्ञिते ।न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ॥ २,४.८१ ॥

तुल्यपेषास्तु मनुजा देवास्तत्रैकरूपिणः ॥ २,४.८२ ॥

वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् ।त्रयीवार्तादण्डनीतिशुश्रूषारहितञ्च यत् ॥ २,४.८३ ॥

वर्षद्वयं तु मैत्रेय भौमः स्वर्गोयमुत्तमः ।सर्वर्तुसुखदः कालो जरारोगादिवर्जितः ।धातकीखण्डसंज्ञेऽथ महावीरे च वै मुने ॥ २,४.८४ ॥

न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ।तस्मिन्नवसति ब्रह्मा पूज्यमानः सुरासुरैः ॥ २,४.८५ ॥

स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ।समेन पुष्करस्यैव विस्तारान्मण्डलं तथा ॥ २,४.८६ ॥

एवं द्वीपाः समुद्रैश्च सप्तसप्तभिरावृताः ।द्वीपश्चैव समुद्रश्च समानो द्विगुणौ परौ ॥ २,४.८७ ॥

पयांसि सर्वदा सर्वसमुद्रेषु समानि वै ।न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते ॥ २,४.८८ ॥

स्थालीस्थमग्नीसंयोगादुद्रेकिसलिले यथ ।तथेन्दुवृद्धौ सलिलमंभोधौ मुनिसत्तम ॥ २,४.८९ ॥

अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसंति च ।उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥ २,४.९० ॥

दशोत्तराणि पञ्चैव ह्यङ्गुलानां शतानि वै ।अपां वृद्धिक्षणो दृष्टौ सामुद्रीणां महामुने ॥ २,४.९१ ॥

भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ।षड्रसं भुञ्जते विप्र प्रजाः सर्वाः सदैव हि ॥ २,४.९२ ॥

स्वादूदकस्य परितो दृस्यते लोकसंस्थितिः ।द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ॥ २,४.९३ ॥

लोकालोकस्ततः शैलो जोजनायुतविस्तृतः ।उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः ॥ २,४.९४ ॥

ततस्तमः समावृत्य तं शौलं सर्वतः स्थितम् ।तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥ २,४.९५ ॥

पञ्चशत्कोटिविस्तारा सेयमुर्व महामुने ।सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा ॥ २,४.९६ ॥

सेयं धात्री विधात्री च सर्वभूतगुणाधिका ।आधारभू६ आ सर्वेषां मैत्रेय जगतामिति ॥ २,४.९७ ॥

इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे चतुर्थोऽध्यायः (४)

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः ३अध्यायः ५

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata