विष्णुपुराणम् · Amsha 2
अध्यायः ३
Ask AIश्रीपराशर उवाचउत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ २,३.१ ॥
नवयोजनसाहस्रो विस्तारोस्य महामुने ।कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम् ॥ २,३.२ ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ।विन्ध्यश्च पारीयात्रश्च सप्तात्र कुलपर्वताः ॥ २,३.३ ॥
अतः संप्राप्यते स्वर्गो सुक्तिमस्मात्प्रयान्ति वै ।तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ॥ २,३.४ ॥
इतः स्वर्गश्च मोक्षश्च मध्यं चान्तश्च गम्यते ।न ख्लवन्यत्र मर्त्यानां कर्मभूमौ विधीयते ॥ २,३.५ ॥
भारतस्यास्य वर्षस्य नवभादान्नशामय ।इद्रद्वीपः कसेरुश्च ताम्रपर्णां गभस्तिमान् ॥ २,३.६ ॥
नागद्वीपस्तथा साम्यो गन्धर्वस्त्वथ चारुणः ।अयं तु नवमस्तषां द्वीपः सागारसंवृतः ॥ २,३.७ ॥
योजनानां सहस्रं तु द्वीपोयं दक्षिणोत्तरात् ।पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥ २,३.८ ॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शब्द्राश्च भागशः ।इज्यायुधवणिज्याद्यैर्वर्तयन्तो व्यवस्थिताः ॥ २,३.९ ॥
शतद्रूचन्द्रभागाद्या हिमयत्पादनिर्गताः ।वेदस्मृतिमुखाद्याश्च पारीयात्रोद्भवा मुने ॥ २,३.१० ॥
नर्मदा मुरसाद्याश्च नद्यो विन्ध्याद्रिनिर्गताः ।तापीपयोष्णीनिर्विन्ध्या प्रसूखा ऋक्षसंभवाः ॥ २,३.११ ॥
गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा ।सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥ २,३.१२ ॥
कृतमाला ताम्रपर्णिप्रसुखा मलयोद्भवाः ।त्रिसामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥ २,३.१३ ॥
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ।आसां नद्य उपानद्यः सन्त्यन्याश्च सहस्रशः ॥ २,३.१४ ॥
तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः ।पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ २,३.१५ ॥
पुण्ड्राः कलिङ्गा मगधा दक्षिणाद्याश्च सर्वशः ।तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्बुदाः ॥ २,३.१६ ॥
कारूषा मालबाश्चैव पारियात्र निवासिनः ।सौवीराः सैन्धवा हूणाः साल्वाः कोसलवासिनाः ॥ २,३.१७ ॥
माद्रारामास्तथाम्बष्ठा पारसीकादयस्तथा ।आसां पिबन्ति सलिलं वसन्ति सहिताः सदा ।समीपतो महाभाग हृष्टपुष्टजनाकुलाः ॥ २,३.१८ ॥
चत्वारि भारते वर्षे युगान्यत्र महामुने ।कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥ २,३.१९ ॥
तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्वनः ।दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ २,३.२० ॥
पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ २,३.२१ ॥
अत्रापि भारतं श्रेष्ठं जन्बूद्वीपे महामुने ।यतो हि कर्मभूरेषा ह्यतोन्या भोगभूमयः ॥ २,३.२२ ॥
अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात् ॥ २,३.२३ ॥
गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारत भूमिभागे ।स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २,३.२४ ॥
कर्माण्यसंकल्पिततत्फलानि संन्यस्य विष्णो परमात्म्भूते ।अवाप्य तां कर्ममहीमनन्ते तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥ २,३.२५ ॥
जानीम नैतत्क्व वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् ।प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥ २,३.२६ ॥
नववर्षं तु मैत्रेय जम्बुद्वीपमिदं मया ।लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥ २,३.२७ ॥
जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः ।मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥ २,३.२८ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे तृतीयोध्यायः (३)
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.