विष्णुपुराणम् · Amsha 2
अध्यायः २
Ask AIमैत्रेय उवाच ।कथितो भवता ब्रह्मन् ! सर्गः स्वायम्भुवश्च मे ।श्रोतुमिच्छाम्यहं त्वत्तः सकलं मण्डलं भुवः ।। 1 ।।
यावन्तः सागरा द्रीपास्तथा वर्षाणि पर्व्वताः ।वनानि सरितः पुर्थ्यौ देवादीनां तथा मने ।। 2 ।।
यत्प्रमाणमिदं सर्व्वं यदाधारं यदात्मकम् ।संस्थानमस्य च मुने ! यथावद वक्तुमर्हसि ।। 3 ।।
पराशर उवाच ।मैत्रेय श्वूयतामेत्त संक्षेपाद गदतो मम ।नास्य वर्ष शतेनापि वक्तु शक्यो हि विस्तरः ।। 4 ।।
जम्बू-प्लक्षह्वयौ द्रीपौ शाल्मलिशचापरो द्रिज ।कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ।। 5 ।।
एते द्रीपाः समुद्रस्तु सप्त सप्तभिरावृताः ।लवणेक्षु-सुरा-सर्पिर्दधि-दुग्ध-जलैःसमम् ।। 6 ।।
जम्बूद्रीपः समस्तानाम् एतेषां मध्यसंस्थितः ।तस्यापि मैरुर्म्मैत्रेय ! मध्ये कनकपर्व्वतः ।। 7 ।।
प्रविष्टः षोड़शाधस्ताद् द्रात्रिंशन्मूदूर्ध्न विस्तृतः ।। 8 ।।
मूले षोड़शसाहस्त्रो विस्तारस्तस्य सर्व्वशः ।भूपद्मस्यास्य शैलेशः कर्णिकाकारसंस्थितः ।। 9 ।।
हिमवान् हेमकूटश्च निषधश्वास्य दक्षिणो ।नीलः श्वेतश्व श्वृङ्गी च उत्तरे वर्षपर्व्वताः ।। 10 ।।
लक्षप्रमाणौ द्रौ मध्यौ दशहीनास्तथापरे ।सहस्त्रद्रितयोच्छायास्तावदविस्तारिणश्व ते ।। 11 ।।
भारतं प्रथमं बर्षं ततः किम्पुरुषं स्मृतम् ।हरिवर्षं वान्यन्मेरोर्दक्षिणातो द्रिज ।। 12 ।।
रम्यकञ्चोत्तरे वर्षं तस्यैवानु हिरण्मयम् ।उत्तराःकुरवश्चैव यथा वै भारतं तथा ।। 13 ।।
नवसाहस्त्रमेकैकमेतेषां द्रिजसत्तम् !इलावृतञ्च तन्मध्ये सौवर्णो मेरुरुच्छितः ।। 14 ।।
मेरोश्वतुर्दिशं तत्तु नवसाहस्त्रविस्तृतम् ।इलावृतं महाभाग ! चत्वारश्वात्र पर्व्वताः ।। 15 ।।
विष्कम्भा रचिता मरोर्योजनायुतमुच्छिताः ।। 16 ।।
पूर्व्वेण मन्दरो नाम दक्षिणो गन्धमादनः ।विपुलः पश्विमे पाश्व सुपार्श्वश्वोत्तरे स्मृतः ।। 17 ।।
कदम्बस्तेषु जम्बूश्व पिप्पलो वट एव च ।एकादशशाततायामाः पादपा गिरिकेतवः ।। 18 ।।
जम्बूद्रीपस्य सा जम्बूर्नामहेतुर्महामुने ।महागजप्रमाणानि जम्ब्वास्तस्याः फलानि वै ।। 19 ।।
पतन्ति भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः ।रसेन तेषां प्रख्याता तत्र जम्बूनदीति वै ।। 20 ।।
सरित् प्रवर्त्तते सा च पीयते तन्निवासिभिः ।नि स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।। 21 ।।
तत्पानात् स्वच्छमनसां जनानां तत्र जायते ।तीरमृत् तदूरसं प्राप्य सुखवायुविशोषिता ।जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ।। 22 ।।
भद्राश्वं पूर्व्वतो मेरोः केतुमालञ्च पश्चिमे ।वर्षे द्र तु मुनिश्वष्ठ! तयोर्म्मध्ये इलावृतम् ।। 23 ।।
वनं चैत्ररथं पूर्व्वे दक्षिणो गन्दमादनम् ।वैभ्राजं पश्विमे तदूदुत्तरे नन्दनं स्मृतम् ।। 24 ।।
अरुणोदं महाभद्रमसितोधं समानसम् ।सरोस्येतानि चत्वारि देवभोग्यानि सर्व्वदा ।। 25 ।।
शीतान्तश्वक्रमुञ्जश्व कुररी माल्यवांस्तथा ।वैकङ्कप्रमुखा मैरोःपूर्व्वतः केशराचलाः ।त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्यथा ।। 26 ।।
निषधाद्या दक्षिणातस्तस्य केसरपर्व्वताः ।शिखिवासाः सवैदूर्य्यः कपिलो गन्धमादनः ।जारुधिप्रमुखास्तदूत् पश्विमे केसराचलाः ।। 27 ।।
मेरोरनन्तराङ्गषुं जठरादिष्ववस्थिताः ।शङ्खकूटोऽथ ऋषभो हंसो नागस्तथापरः।कालञ्जराद्याश्व तथा उत्तरे केशराचलाः ।। 28 ।।
चतुर्ददशसहस्त्राणि योजनानां महापुरी ।मेरोरुपरि मैत्रेय! ब्रह्मणःप्रथिता दिवि ।। 29 ।।
तस्याः समन्ततश्वाशष्टौ दिशासु विदिशासु च ।इन्द्रादिलोकपालानां प्रख्याताः प्रवराःपुरः ।। 30 ।।
विष्णुपादविनिष्कान्ता प्लावयित्वेन्दुमणडलम् ।समन्ताद् ब्रह्मणाः पुर्य्यां गङ्गा पतति वै दिवः ।। 31 ।।
सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते ।सीता चालकनन्दा च चक्षुर्भदा च वै क्रमात् ।। 32 ।।
पूर्व्वेण शैलात् सीता तु शैलं यात्यन्तरिक्षगा ।ततश्व पूर्व्ववर्षेण भद्राश्वेनैति सार्णवम् ।। 33 ।।
तथैवालकनन्दापि दक्षिणोनैत्य भारतम् ।प्रयाति सागरं भूत्वा सप्तभेदा महामुने ।। 34 ।।
चक्षुश्च पश्विमगिरीनतीत्य सकलांस्ततः ।पश्विमं केतुमालाख्यं वष गत्वैति सागरम् ।। 35 ।।
भद्रा तथोत्तरगिरीनुत्तरांश्व तथा कुरून् ।अतीत्योत्तरमम्भोधिं समब्योति महामुने ।। 36 ।।
आनीलनिषधायामौ माल्यवदू-गन्धमादनौ ।तयोर्म्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ।। 37 ।।
भारताः केतुमालाश्व भद्राश्वाः कुरवस्तथा ।पत्राणि लोकपह्मस्य मर्य्यादा शैलबाह्मतः ।। 38 ।।
जठरो देवकूटश्च मर्य्यादापर्व्वतावुभौ ।तौ दक्षिणोत्तरायामावानीलनिषधायतौ ।। 39 ।।
गन्धमादन-कैलासौ पूर्व्वपश्चायतावुभौ ।अशीतियोजनायामावर्णावान्तर्व्यवस्थितौ ।। 40 ।।
निषधः पारिपात्रश्च मर्य्यादापर्व्वतावुभौ ।मेरोः परिचमदिगभागे यता पूर्व्वौ तथा स्थितौ ।। 41 ।।
त्रिश्वृह्गो जारुधिश्चैव उत्तरौ वर्षपर्व्वतौ ।पूर्व्वपश्वायतावेतावर्णवान्तर्व्यवस्थितौ ।। 42 ।।
इत्येते मुनिवर्य्योक्ता मर्य्यादापर्व्वतास्तव ।जठराद्याः स्थिता मेरोस्तेषां द्रौ द्रौ चतुर्दिशम् ।। 43 ।।
मैरोश्चतुर्दिशं ये तु प्रोक्ताः केसरपर्व्वताः ।शीतान्ताद्या मुने ! तेषामतीव हि मनोरमाः ।। 44 ।।
शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ।सुरम्याणि तथा तासु काननानि पुराणि च ।। 45 ।।
लक्ष्मी-विष्णवग्निसूर्य्यादिदेवानां मुनिसत्तम् ।तास्वायतनवर्षाणि जुष्टानि वरकिन्नरैः ।। 46 ।।
गन्घर्व्वयक्षरक्षांसि तथा दैतेयदानवाः ।क्रीड़न्ति तासु रम्यासु शैलद्रोणीष्वहर्निशम् ।। 47 ।।
भौमा ह्येते स्मृताः स्वर्गा धर्म्मिणामालया मुने ।नैतेषु पापकर्म्मणो यान्ति जन्मशतैरपि ।। 48 ।।
भद्राश्वे भगवान् विष्णुरास्ते हयशिरा द्विज ।वराहः केतुमाले तु भारते कूर्म्मरूपधृक् ।। 49 ।।
मत्स्यरूपश्व गोविन्दः कुरुष्वास्ते जनार्द्दनः ।विश्वरूपेण सर्व्वत्र सर्व्वः सर्वत्रगो हरिः ।। 50 ।।
सर्व्वस्याधारभूतोऽसौ मैत्रेयास्तेऽखिलात्मकः ।यानि किम्पुरुषादीनि वर्षाण्यष्टौ महामुने ।न तेषु शोको नायासो नोद्वेगः क्षुद्भयादिकम् ।। 51 ।।
सुस्थाः प्रजा निरातङ्काः सर्व्वदुःखविवर्ज्जिताः ।दशद्वादशवर्षाणां सहस्त्राणि स्थिरायुषः ।। 52 ।।
न तेषु वर्षते देवो भौमान्यम्भांसि तेषु वै ।कृत-त्रेतादिका नैव तेषु स्थानेषु कल्पना ।। 53 ।।
सर्व्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः ।नद्यश्व शतशस्तेभ्यः प्रसूता या द्विजोत्तम ।। 54 ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.