विष्णुपुराणम् · Amsha 2
अध्यायः १
Ask AIमैत्रेय उवाच ।भगवन् सम्यागाख्यातं ममैतदखिलं त्वया ।जगतः सर्गसम्बन्घि यत् पृष्टोऽसि गुरो मया ।। 1 ।।
योऽयमंशो जगत्सृष्टिसम्बद्धो गदितस्त्वया ।तत्राहं श्रोतुमिच्छामि भूयोऽपि मुनिसत्तम ।। 2 ।।
3प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ ।तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ।.3 ।।
प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः ।तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ।। 4 ।।
पराशार उवाच ।कर्द्दमस्यात्मजां कन्यामुपयेमे प्रियव्रतः ।सम्राट् कुक्षी च तत्कन्ये दश पुत्रास्तथापरे ।। 5 ।।
महाप्राज्ञा महावीर्य्या विनीता दयिताः पितुः ।प्रियव्रतसुताः ख्यातास्तेषां नामानि मे श्वृणु ।। 6 ।।
आग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमांस्तथा ।मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ।। 7 ।।
ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतोऽभवत् ।प्रियव्रतस्य पुत्रास्तु प्रख्याता बलवीर्य्यतः ।।8 ।।
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।जातिस्मरा महाभाग न राज्याय मनो दधुः ।। 9 ।।
निर्म्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने ।चक्रुः क्रिया यथान्यायमफलाकाङ्क्षिणो हि ते ।। 10 ।।
प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम !विभज्य सप्त द्वीपानि मैत्रेय सुमहात्मनाम् ।। 11 ।।
जम्बूद्वीपं महाभाग सोऽग्नीध्राय ददौ पिता ।मेधातिथेस्तथा प्रादात् प्लक्षद्वीपमथापरम् ।। 12 ।।
शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ।ज्योतिष्मन्तं कुशद्रीपे राजानं कृतवान् प्रभुः ।। 13 ।।
द्युतिमन्तं च राजानं क्रौञ्चद्रीपे समादिशत् ।शाकद्वीपेश्वरञ्चापि भव्यञ्चक्रे च स प्रभुः ।। 14 ।।
सवनं पुष्करद्वीपे राजानं समकारयत ।। 15 ।।
जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ।तस्य पुत्रा बभुवुस्ते प्रजापतिसमा नव ।। 16 ।।
नाभिः किम्पुरुषश्वे वै हरिवर्ष इलावृतः ।रम्यो हिरण्वान् षष्ठश्च कुरुर्भद्राश्व एव च ।। 17 ।।
केतुमालस्तथैवान्यः साधुचेष्टो नृपोऽभवत् ।जम्बूद्रीपविभागांश्च तषां विप्र निशामय ।। 18 ।।
पित्रा दत्तं हिमाह्वन्तु वर्षं नाभेस्तु दक्षिणम् ।हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः ।। 19 ।।
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान ।इलावृताय प्रददौ मैरुर्यत्र तु मध्यगः ।। 20 ।।
नीलाचलाश्वितं वर्षं रम्याय प्रददौ पिता ।श्वेतं तदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ।। 21 ।।
यदुत्तरं श्वृङ्गवतो वर्षं तत् कुरवे ददौ ।मेरोः पूर्व्वेणा यद् वर्षं भद्राश्वाय प्रदत्तवान् ।। 22 ।।
गन्धमादनवर्षन्तु केतुमालाय दत्तवान ।इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ।। 23।।
वर्षेष्वेतेषु तान् पुत्रानभिषितच्य स भूमिपः ।शालग्रामं महापुण्यं मैत्रेय तपसे ययौ ।। 24 ।।
यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने।तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः ।। 25 ।।
विपर्य्ययो न तेष्वस्ति जरामृत्युभयं न च ।धर्म्माधर्म्मौ न तेष्वास्तां नोत्तमाधममध्यमाः।।२६।।
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टासु सर्व्वदा ।हिमाह्वयं तु वै वर्षं नाभेरासीन्महात्मनः ।। 27 ।।
तस्यर्षभोऽभवत् पुत्रो मेरुदेव्यां महाद्युतिः ।ऋषभाद् भरतो जज्ञ ज्येष्ठःपुत्रशतस्य सः ।। 28 ।।
कृत्वा राज्यं स्वधर्म्मेण तथेष्ट्वा विविधान् मखान् ।अभिषच्य सुतं ज्येष्ठं भरतं पृथिवीपतिम् ।। 29 ।।
तपसे स महाभागः पुलस्त्यस्याश्रमं ययौ ।वानप्रस्थविधानेन तत्रापि कृतनिश्चयः ।। 30 ।।
तपस्तेपे यथान्यायं यदा च स महीपतिः ।तपसा कर्शितोऽत्यर्थं कृशो धमनिसन्ततः ।। 31 ।।
नग्नो वीटां मुखे दत्त्वा वीराध्वानं ततो गतः ।ततश्च भारतं वर्षमेतल्लोकेषु गीयते ।। 32 ।।
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ।सुमतिर्भरतस्याभूत् पुत्रः परमधार्म्मिकः ।। 33 ।।
कृत्वा सम्यग् ददौ तस्मै राज्यमिष्टमखः पिता ।पुत्रसंक्रमितश्रीस्तु भरतः स महीपतिः ।। 34 ।।
योगाभ्यासरतः प्राणान् शालग्रामेऽत्यजन्मुने ।अजायत च विप्रोऽसौ योगिनां प्रवरे कुले ।। 35 ।।
मैत्रय । तस्य चरितं कथयिष्यामि ते पुनः ।सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत ।। 36 ।।
परमेष्ठी ततस्तस्मात् प्रतिहारस्तदन्वयः ।प्रतिहर्त्तेति विख्यात उत्पन्नस्तस्य चात्मजः ।। 37 ।।
भुवस्तस्मात् तथोद्गीथः प्रस्तारस्तत्सुतो विभुः ।पृथुस्ततोऽभवन्नक्तो नक्तस्यापि गयः सुतः ।। 38 ।।
नरो गयस्य तनयस्तत्पुत्रोऽभूद् विराट् ततः ।तस्य पुत्रो महावीर्य्यो धीमांस्तस्मादजायत ।। 39 ।।
महान्तस्तत्सुतश्चाभूनूमनस्युस्तस्य चात्मजः ।त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत् सुतः ।। 40 ।।
शतजिद्रजसस्तस्य जज्ञ पुत्रशतं मनने ।विशगूज्योतिःप्रधानास्ते यैरिमा वर्द्धिताः प्रजाः ।।41 ।।
तैरिदं भारतं वर्षं नवभेदमलङ्गतम ।तेषां वंशप्रसूतैश्च भुक्तेयें भारती पुरा ।। 42 ।।
कृतत्रेतादिसर्गेण युगाख्या ह्म क्सप्ततिः ।। 43 ।।
एष स्वायम्भुवः सर्गो येनेदं पूरितं जगत् ।वाराहे तु मुने ! कल्पे पूर्वमन्वान्तराधिपः ।। 44 ।।
Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.