Dharmasthan

India's Digital Home for Devotion

Dharmasthan
Bhakti LibraryEvents CalendarDharmaVerseJap CounterDharma AIContestsSansthas
HOST ROOM
MandalSign In
Dharmasthan

India's Digital Home for Devotion.

|| भक्ति· से ही शांति है ||

Hindu prayers, aarti and bhajan lyrics, mandals and festivals across India.

Explore

  • Bhakti Library
  • Aartis
  • Bhajans
  • Devotional Songs
  • Mantras
  • Stotrams
  • Chalisas
  • Shlokas
  • Stutis & Ashtakams
  • Vrat Kathas
  • Marathi Prayers
  • Hindi Prayers
  • Sanskrit Prayers
  • Videos
  • Hindu Stories
  • Holy Books
  • DharmaVerse
  • Events Calendar
  • By Deity
  • Festival Playlists
  • Upcoming Festivals
  • Jap Counter
  • Contests
  • Events

For Mandals

  • Mandal Login
  • Register Mandal
  • Discover Mandals
  • Donation Campaigns

About

  • About Us
  • Contact
  • Privacy Policy
  • Terms of Service
  • Consent Policy
  • Platform Admin

© 2026 Dharmasthan - devotion, in one place

Made with devotion in India

Home
Bhakti Library
Jap
DharmaVerse
  1. Home
  2. Bhakti Library
  3. Holy Books
  4. Vishnu Purana
  5. Amsha 1
  6. अध्यायः २२

विष्णुपुराणम् · Amsha 1

अध्यायः २२

संस्कृतEnglish
Ask AI

श्रीपराशर उवाचयदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः ।ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥ १,२२.१ ॥

नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः ।सोमं राज्ये दधद्ब्रह्मा यज्ञानां तपसामपि ॥ १,२२.२ ॥

राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा ।आदित्यानां पतिं विष्णुं वसूनामथ पावकम् ॥ १,२२.३ ॥

प्रजापतीनां दक्षं तु वासवं मरुतामपि ।दैत्यानां दानवानां च प्रह्लादमधिपं ददौ ॥ १,२२.४ ॥

पितॄणां धर्मराजानं यमं राज्येऽभ्यषेचयत् ।ऐरावतं गर्जेद्राणामशेषाणां पतिं ददौ ॥ १,२२.५ ॥

पतत्रिणां तु गरुडं देवानामपि वासवम् ।उच्चैःश्रवसमश्वानां वृषभं तु गवामपि ॥ १,२२.६ ॥

मृगाणां चैव सर्वेषां राज्ये सिंहं ददौ प्रभुः ।शेषं तु दन्दशूकानामकरोत्पतिमव्ययः ॥ १,२२.७ ॥

हिमालयं स्थावराणां मुनीनां कपिलं मुनिम् ।नखिनां दंष्ट्रिणां चैव मृगाणां व्याघ्रमीश्वरम् ॥ १,२२.८ ॥

वनस्पतीनां राजानां प्लक्षमैवाभ्यषेचयत् ।एवमेवान्यजातीनां प्राधान्येनाकरोत्प्रभून् ॥ १,२२.९ ॥

एवं विभज्य राज्यानि दिशां पालाननन्तरम् ।प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्वतः ॥ १,२२.१० ॥

पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः ।दिशापालं सुधन्वानं सुतं वै सोऽभ्यषेचयत् ॥ १,२२.११ ॥

दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः ।पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ १,२२.१२ ॥

पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् ।केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ १,२२.१३ ॥

तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।उदीच्यां दिशि दुर्धर्षं राजानमभ्यषेचयत् ॥ १,२२.१४ ॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।यथाप्रदेशमद्यापि धर्मतः परिपाल्यते ॥ १,२२.१५ ॥

एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः ।विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥ १,२२.१६ ॥

ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज ।ते सर्वे सर्वभूतस्य विष्णोरंशा द्विजोत्तम ॥ १,२२.१७ ॥

ये तु देवाधिपतयो ये च दैत्याधिपास्तथा ।दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ॥ १,२२.१८ ॥

पशूनां ये च पतयः पतयो ये च पक्षिणाम् ।मनुष्याणां च सर्पाणां नागानामधिपाश्च ये ॥ १,२२.१९ ॥

वृक्षाणां पर्वतानां च ग्रहाणां चापि येऽधिपाः ।अतीता वर्तमानाश्च ये भविष्यन्ति चापरे ।ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भवाः ॥ १,२२.२० ॥

न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् ।स्थितं स्थितौ महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥ १,२२.२१ ॥

सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः ।हन्ति चैवान्तकत्वेन रजःसत्त्वादिसंश्रयः ॥ १,२२.२२ ॥

चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ ।प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥ १,२२.२३ ॥

एकेनांशेन ब्रह्मसौ भवत्यव्यक्तमूर्तिमान् ।मरीचिमिश्राः पतयः प्रजानाञ्चान्यभागशः ॥ १,२२.२४ ॥

कालस्तृतीयस्तस्यांशः सर्वभूतानि चापरः ।इत्थं चतुर्धा संसृष्टौ वर्ततेसौ रजोगुणः ॥ १,२२.२५ ॥

एकांशेनास्थितो विष्णुः करोति प्रतिपालनम् ।मन्वादिरूपश्चान्येन कालरूपोऽपरोण च ॥ १,२२.२६ ॥

सर्वभूतेषु चान्येन संश्थितः कुरुते स्थितिम् ।सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः ॥ १,२२.२७ ॥

आश्रित्य तमसो वृत्तिमन्तकाले तथा पुनः ।रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ॥ १,२२.२८ ॥

अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते ।कालस्वरूपो भागो यःसर्वभूतानि चापरः ॥ १,२२.२९ ॥

विनाशं कुर्वतस्तस्य चतुर्धैवं महात्मनः ।विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी ॥ १,२२.३० ॥

ब्रह्म दक्षादयः कालस्तथै वाखिलजन्तवः ।विभूतयो हरेरेता जगतः सृष्टिहेतवः ॥ १,२२.३१ ॥

विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज ।स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ॥ १,२२.३२ ॥

रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः ।चतुर्धा प्रलायायैता जनार्दनविभूतयः ॥ १,२२.३३ ॥

जगदादौ तथा मध्ये सृष्टिराप्रलया द्विज ।धात्रा मरीचिमिश्रैश्च क्रियते जन्तुभिस्तथा ॥ १,२२.३४ ॥

ब्रह्म सृजत्यादिकाले मरीचिप्रमुखास्ततः ।उत्पादयन्त्यपत्यानि जन्तवश्च प्रतिक्षणम् ॥ १,२२.३५ ॥

कालेन न विना ब्रह्म सृष्टिनिष्पादको द्विज ।न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥ १,२२.३६ ॥

एवमेव विभागोयं स्तितावप्युपदिश्यति ।चतुर्दा तस्य देवस्य मैत्रेय प्रलये तथा ॥ १,२२.३७ ॥

यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज ।तस्य सृज्यस्य सम्भूतो तत्सर्वं वै हरेस्तनुः ॥ १,२२.३८ ॥

हन्ति यावच्च यत्किञ्चित्सत्त्वं स्थावरजङ्गमम् ।जनार्दनस्य तद्रौद्रं मैत्रेयान्तकरं वपुः ॥ १,२२.३९ ॥

एवमेष जगत्स्त्रष्टा जगत्पाता तथा जगत् ।जगद्भक्षयिता देवः समस्तस्य जनार्दनः ॥ १,२२.४० ॥

सृष्टिस्थित्यन्तकालेषु त्रिधैवं संप्रवर्तते ।गुणप्रवृत्या परमं पदं तस्यागुणं महत् ॥ १,२२.४१ ॥

तच्च ज्ञानमयं व्यापि स्वसंवेद्यमनौपमम् ।चतुष्प्रकारं तदपि स्वरूपं परमात्मनः ॥ १,२२.४२ ॥

श्रीमैत्रेय उवाचचतुःप्रकारतां तस्य ब्रह्मभूतस्य हे मुने ।ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम् ॥ १,२२.४३ ॥

श्रीपराशर उवाचमैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु ।साध्यं च वस्त्वभिमतं यत्साधयितुमात्मनः ॥ १,२२.४४ ॥

योगिनो मुक्तिकामस्य प्राणायामादिसाधनम् ।साध्यं च परमं ब्रह्म पुनर्नावर्तते यतः ॥ १,२२.४५ ॥

साधनालम्बनं ज्ञानं मुक्तये योगिनां हि यत् ।स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने ॥ १,२२.४६ ॥

युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद्ब्रह्म योगिनः ।तदालम्बनविज्ञानं द्वितीयोऽंशो महामुने ॥ १,२२.४७ ॥

उभयोस्त्वविभागेन साध्यसाधनयोर्हि यत् ।विज्ञानमद्वैतमयं तद्भागोन्यो मयोदितः ॥ १,२२.४८ ॥

ज्ञानत्रयस्य वै तस्य विशेषो यो महामुने ।तन्निराकरणद्वारा दर्शितात्मस्वरूपवत् ॥ १,२२.४९ ॥

निर्व्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् ।आत्मसम्बोधविषयं सत्तामात्रमलक्षणम् ॥ १,२२.५० ॥

प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम् ।विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ १,२२.५१ ॥

तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् ।संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विजा ॥ १,२२.५२ ॥

एवंप्रकारममलं नित्यं व्यापकमक्षयम् ।समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ १,२२.५३ ॥

तद्ब्रह्म परमं योगी यतो नावर्तते पुनः ।श्रयत्यपुण्योपरमे क्षीणक्लेशेऽतिनिर्मले ॥ १,२२.५४ ॥

द्वे रूपे ब्रह्मणस्तस्य मूर्तं चामूर्तमेव च ।क्षराक्षरास्वरूपे ते सर्वभूतेष्ववस्थिते ॥ १,२२.५५ ॥

अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् ।एकदेशस्थितस्याग्नेर्ज्योत्स्त्रा विस्तारिणि यथा ।परस्य ब्रह्मणः शक्तिस्तथोदमखिलं जगत् ॥ १,२२.५६ ॥

तत्राप्यासन्नदूरत्वाद्बहुत्वस्वल्पतामयः ।ज्योत्स्नाभेदोस्ति तच्छक्तेस्तद्वन्मैत्रेय विद्यते ॥ १,२२.५७ ॥

ब्रह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तयः ।ततश्च देवा मैत्रेय न्यूना दक्षादयस्ततः ॥ १,२२.५८ ॥

ततो मनुष्याः पशवौ मृगपक्षिसरीसृपाः ।न्यूनान्यूनतराश्चैव वृक्षगुल्मादयस्तथा ॥ १,२२.५९ ॥

तदेतदक्षरं नित्यं जगन्मुनिवराखितम् ।आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ १,२२.६० ॥

सर्वशक्ति मयो विष्णुः स्वरूपं ब्रह्मणः परम् ।मूर्तं यद्योगिभिः पूर्वं योगारम्भेषु चिन्त्यते ॥ १,२२.६१ ॥

सालम्बनो महायोगः सबीजो यत्रसंस्थितः ।मनस्यव्याहते सम्यग्युञ्जतां जायते मुने ॥ १,२२.६२ ॥

स परः परशक्तीनां ब्रह्मणः समनन्तरम् ।मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ १,२२.६३ ॥

यत्र सर्वमिदं प्रोतमोतं चैवाखितं जगत् ।ततो जगज्जगत्यस्मिन्स जगच्चखिलं मुने ॥ १,२२.६४ ॥

क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः ।पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत् ॥ १,२२.६५ ॥

श्रीमैत्रेय उवाचभूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत् ।बिभर्ति भगवान्विष्णुस्तन्ममाख्यातुमर्हसि ॥ १,२२.६६ ॥

श्रीपराशर उवाचनमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे ।कथयामि यथाख्यातं वसिष्ठेन ममा भवत् ॥ १,२२.६७ ॥

आत्मानमस्य जगतो निर्लेपमगुणामलम् ।बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः ॥ १,२२.६८ ॥

श्रीवत्ससंस्थानधरमनन्तेन समाश्रितम् ।प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे ॥ १,२२.६९ ॥

भूतादिमिन्द्रियादिं च द्विधाहङ्कारमीश्वरः ।बिभर्ति शंखरूपेण शार्ङ्गरूपेण च स्थितम् ॥ १,२२.७० ॥

चलत्स्वरूपमत्यन्तं जवेनान्तारितानिलम् ।चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम् ॥ १,२२.७१ ॥

पञ्चरूपा तु या माला वैजयन्ती गदाभृतः ।सा भूतहेतुसंघाता भूतमाला च वै द्विज ॥ १,२२.७२ ॥

यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै ।शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ १,२२.७३ ॥

बिभर्ति यच्चासिरत्नमच्युतोत्यन्तनिर्मलम् ।विद्यामय तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥ १,२२.७४ ॥

इत्थं पुमान्प्रधानं च बुद्ध्यहङ्कारमेव च ।भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च ।विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥ १,२२.७५ ॥

अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः ।बिभार्ति मायारूपोसौ श्रेयसे प्राणिनां हरिः ॥ १,२२.७६ ॥

सविकारं प्रधानं च पुमांश्चैवाखिलं जगत् ।बिभर्ति पुण्डहीकाक्षस्तदेवं परमेश्वरः ॥ १,२२.७७ ॥

या विद्या या तथाविद्या यत्सद्यच्चासदव्ययम् ।तत्सर्वं सर्वभूतेशे मैत्रेय मधुसूदने ॥ १,२२.७८ ॥

कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः ।कालस्वरूपो भगवानपापो हरिरव्ययः ॥ १,२२.७९ ॥

भूर्लोकोथ भुवर्लोकः स्वर्लोको मुनिसत्तम ।महर्जनस्तपः सत्यं सप्त लोका इमे विभुः ॥ १,२२.८० ॥

लोकात्ममूर्तिः सर्वेषां पूर्वेषामपि पूर्वजः ।आधारः सर्वविद्यानां स्वयमेव हरिः स्थितः ॥ १,२२.८१ ॥

देवमानुषपश्वादिश्वरूपैर्बहुभिः स्थितः ।ततः सर्वेश्वरोऽनन्तो भूतमूर्तिरमूर्तिमान् ॥ १,२२.८२ ॥

ऋचो यजूंषि सामानि तथैवाथर्वाणानि वै ।इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः ॥ १,२२.८३ ॥

वेदाङ्गानि समस्तानि मन्वादिगदितानि च ।शास्त्राण्यशेषाण्याख्यानान्यनुवाकाश्च ये क्वचित् ॥ १,२२.८४ ॥

काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च ।शब्दमूर्तिधरस्यैतद्वपुर्विष्णोर्महात्मनः ॥ १,२२.८५ ॥

यानि मूर्तान्यमूर्तानि यान्यत्रान्यत्र वा क्वचित् ।सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥ १,२२.८६ ॥

अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् ।ईदृङ्मनो यस्य न तस्यट भूयो भवोद्भावा द्वन्द्वगदा भवन्ति ॥ १,२२.८७ ॥

इत्यैष तेंशः प्रथमः पुराणस्यास्य वै द्विज ।यथावत्कथितो यस्मिन्धृते पापैः प्रमुच्यते ॥ १,२२.८८ ॥

कार्त्तिक्यां पुष्करस्नाने द्वादशाब्देन यत्फलम् ।तदस्य श्रवणात्सव मैत्रेयाप्नोति मानवः ॥ १,२२.८९ ॥

देवर्षिपितृगन्धर्वयक्षादिनां च सम्भवम् ।भवन्ति शृण्वतः पुंसो देवाद्य वरदा मुने ॥ १,२२.९० ॥

इति श्रिविष्णुमहापुराणे प्रथमेऽंशे द्वाविंशोऽध्यायःइति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे प्रथमांशः समाप्तः ।

Vishnu Purana by Maharshi Parashara, narrating to his disciple Maitreya (by tradition). Sanskrit text of all six amshas (126 adhyayas) as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Vishnu Purana itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.

अध्यायः २१अध्यायः १

Related on Dharmasthan

  • Vishnu Purana: contents and about
  • Vishnu stotrams and aartis
  • Krishna bhajans and aartis
  • Om Jai Jagdish Hare
  • Vishnu Sahasranamavali
  • Why is Janmashtami celebrated?
  • Why is Narak Chaturdashi celebrated?
  • Bhagavad Gita
  • Mahabharata